भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 489, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 489

( ४७४ ) पञ्चतन्त्रम् ।

उपार्जन किया न देंगे । सो घर जाओ" । तब दूसरेने कहा—"भो सुबुद्धे ! तुम अपने घरको जाओ कारण कि तुमको विद्या नहीं है"। तब तीसरेने कहा—"ऐसा-करनेको तुम योग्य नहीं हो हम बालकपनसे एक स्थानमें खेले हैं । सो आप महानुभाव आइये हमारे उपार्जन किये धनके समान भागी होंगे—

किं तया क्रियते लक्ष्म्या या वधूरिव केवला ।
या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥ ३७ ॥

कहा है उस लक्ष्मीसे क्या करें जो केवल वधूकी समान है और जो साधारण वेश्याकी समान पथिकोंसे नहीं भोगी जाती है ॥ ३७ ॥

तथाच—
और देखो—

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥ ३८ ॥

यह हमारा है यह पराया यह लघुचित्तवालोंकी गणना है । और उदार चरित्रवालोंको वसुधाभर कुटुम्ब है ॥ ३८ ॥

तदागच्छतु एषोऽपि" इति । तथा अनुष्ठिते तैः मार्गा-श्रितैः अटव्यां मृतसिंहस्य अस्थीनि दृष्टानि । ततश्च एकेन अभिहितम्,—"अहो ! अद्य विद्याप्रत्ययः क्रियते । किञ्चिदे-तत् सत्वं मृतं तिष्ठति, तद्विद्याप्रभावेण जीवनसहितं कुर्मः, अहम् अस्थिसञ्चयं करोमि" ततश्च एकेन औत्सुक्यात् अस्थिसञ्चयः कृतः । द्वितीयेन चर्ममांसरुधिरं संयोजितम्। तृतीयोऽपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिना नि-षिद्धः । "भोः ! तिष्ठतु भवान्, एष सिंहो निष्पाद्यते यदि एनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति" । इति तेन अभिहितः स "धिक् मूर्ख ! नाहं विद्याया विफ-लतां करोमि" । ततः तेनाभिहितम्—"तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि" तथाऽनुष्ठिते यावत् सजीवः कृतः तावत् ते त्रयोऽपि सिंहेन उत्थाय व्यापादिताः स च पुनः वृक्षात् अवतीर्य्य गृहं गतः । अतोऽहं ब्रवीमि—

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित) · पृष्ठ 489, कुल 536 में से · BharatKosha