भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 61, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 61

( ४६ ) पञ्चतन्त्रम् ।

कथा ३.

अस्त्यत्र धरातले वर्द्धमानं नाम नगरम् । तत्र दन्तिलो नाम नानाभाण्डपतिः सकलपुरनायकः प्रतिवसतिस्म । तेन पुरकार्य्यं नृपकार्य्यञ्च कुर्वता तुष्टिं नीताः तत्पुरवासिनो लोका नृपतिश्च । किं बहुना । न कोऽपि तादृक् केनापि चतुरो दृष्टो न अपि श्रुतो वेति । अथवा साधु चेदमुच्यते-

इस धरातलमें वर्द्धमान नाम नगर है उसमे दन्तिल नामवाला बहुत धनपति (सेठ) सब पुरका नायक रहताथा । उसने पुरकार्य और राजकार्य करके उस पुरके रहनेवाले लोक और राजाको प्रसन्न किया कोईभी उसके समान चतुर किसीने न देखा न सुना; अथवा यह सत्य कहा है कि-

नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्त्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्त्तमाने समाने नृपतिजनपदानां दुर्लभः कार्य्यकर्त्ता ॥ १४२ ॥

राजाका हितकर्ता लोकमें द्वेषताकों प्राप्त होता है, देशका हित करनेवाला राजोंसे त्यागा जाता है, इस प्रकार बडे विरोधके वर्तमान होनेमें राजा और प्रजाका कार्य साधक दुर्लभ है ॥ १४२ ॥

अथ एवं गच्छति काले दन्तिलस्य कदाचिद्विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसन्निधिलोकाश्च सम्मानपुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहमानानीय अभ्यर्चितः । अथ तस्य नृपतेः गृहसम्मार्ज्जनकर्त्ता गोरम्भो नाम राजसेवको गृहायातोऽपि तेन अनुचितस्थाने उपविष्टोऽवज्ञया अर्द्धचन्द्रं दत्त्वा निःसारितः । सोऽपि ततःप्रभृति निःश्वसन् अपमानात् न रात्रौ अपि अधिशेते । 'कथं मया तस्य भाण्डपतेः राजप्रसादहानिः कर्त्तव्या' इति चिन्तयन् आस्ते । 'अथवा किमनेन वृथा शरीरशोषणेन । न किञ्चित् मया तस्य अपकर्त्तुं शक्यमिति । अथवा साधु इदमुच्यते-