पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)
Panchatantram with Sanskrit & Hindi Commentary
पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा
पृष्ठ 81, कुल 536 में से
संदर्भ में पढ़ें( ६६ ) पञ्चतन्त्रम् ।
तथाच– आरभी–
केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः। बन्धक्याः परितोषो न किञ्चिदिष्टं भवेत्पत्यौ ॥ १८६ ॥
कुल्टाओंको लज्जा पतिमें क्रीडा जलाती है, श्रृंगार अस्थी, मनोहर वचन कटु लगतेहैं, बहुत क्या कोईभी पतिमें इष्ट और परितोषता नहीं होती ॥१८६॥
कुलपतनं जनगर्हा बन्धनमपि जीवितव्यसन्देहम् । अङ्गीकरोति कुलटा सततं परपुरुषसंसक्ता ॥ १८७ ॥
कुलकी हीनता, मनुष्योंमें निन्दा, बन्धन, जीवनमें सन्देह यह सब परपुरुषमें मन लगानेवाली कुलटा स्वीकार करलेतीहैं ॥ १८७ ॥
अथ कौलिकभार्य्या गृहं गत्वा देवशर्मणे गतास्तकरणां भग्नाञ्च खट्वाँ समर्प्य इदमाह–"भो भगवन् ! यावदहं स्वसखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वया मद्गृहेऽप्रमत्तेन भाव्यम्" एवमभिधाय शृंगारविधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत् तद्भर्त्ता सन्मुखो मदविह्वलांगो मुक्तकेशः पदे पदे प्रस्खलन् गृहीतमद्यभाण्डः समभ्येति । तञ्च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य मुक्तशृंगारवेशा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुतशृंगारां विलोक्य प्रागेव कर्णपरम्परया तस्याः श्रुतापवादक्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामुवाच–"आः पापे ! पुंश्चलि ! क्व प्रस्थिताऽसि?"। सा प्रोवाच–"अहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता । तत् कथं मद्यपानवशात् अप्रस्तुतं वदसि" अथवा साधु चेदमुच्यते–
तब कौलिककी स्त्री घर जाय देवशर्मा यतिको बिछौने रहित भग्न ( टूटी ) खाटको समर्पण कर बोली–"भगवन् ! जबतक ग्रामसे आई हुई अपनी सखीसे कुशल कहकर शीघ्र आऊं तबतक तुम हमारे घरमें सावधानतासे रहना" । यह