भारतकोश
पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

पञ्चतन्त्रम् (संस्कृत मूल एवं भाषा टीका सहित)

Panchatantram with Sanskrit & Hindi Commentary

पं. विष्णु शर्मा / पं. ज्वालाप्रसाद मिश्र द्वारा

DevanagariSanskritpublished536 पृष्ठ

पृष्ठ 90, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 90

भाषाटीकासमेतम् । ( ७५ )

चिन्तयामास । “किमिदानीं कर्तव्यम् । कथमेतत् महच्छिद्रं स्थगयितव्यम्” । अथ तस्या एवं विचिन्तयन्त्या भर्त्ता कार्य्यवशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदेशस्थः विविधपौरकृत्योत्सुकतया तामाह-“भद्रे ! शीघ्रformानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि”। सापि छिन्ननासिका गृहमध्यस्थितैव कार्य्यकरणापेक्षया क्षुरभाण्डात्क्षुरमेकं समाकृष्य तस्य अभिमुखं प्रेषयामास । नापितोऽपि उत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टा उर्द्ध्वबाहू विधाय फूत्कर्त्तुमना गृहात् निष्चक्राम । “अहो ! पापेन अनेन मम सदाचारवर्त्तिन्याः पश्यत नासिकाच्छेदो विहितः। तत्परित्रायतां परित्रायताम्” । अत्र अन्तरे राजपुरुषाः समभ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनैर्बद्धा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यान् ऊचुः-“शृण्वन्तु भवन्तः सभासदः । अनेन नापितेन अपराधं विना स्त्रीरत्नमेतद्व्यङ्गितं तदस्य यत् युज्यते तत् क्रियताम्” । इति अभिहिते सभ्या ऊचुः-“रे नापित ! किमर्थं त्वया भार्य्या व्यङ्गिता । किमनया परपुरुषोऽभिलषितः, उत स्वित् प्राणद्रोहः कृतः, किंवा चौर्य्यकर्म आचरितम् । तत् कथ्यतामस्या अपराधः?” । नापितोऽपि प्रहारपीडिततनुर्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनः सभ्या ऊचुः-“अहो ! सत्यमेतत् राजपुरुषाणां वचः पापात्मा अयम् । अनेन इयं निर्दोषा वराकी दूषिता । उक्तञ्च-

यह विचार करते उस सन्यासीको वह रात बडे कष्टसे बीती और वह नाककटी दूती अपने घर जाकर विचार करने लगी कि, “अब मैं क्या करूं । किस प्रकार यह महाछिद्र छिपाना चाहिये” । उसके यह विचार करतेही उसका स्वामी किसी कार्यके वशसे राजकुलमें रहाहुआ प्रातःकाल निज घरमें आकर द्वारपर स्थित हुआही बहुतसे नगरवासियोंके कार्यकी उत्कठासे उससे बोला-