पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 103, कुल 263 में से
संदर्भ में पढ़ें( ८१ )
ब्राह्मणान् भोजयेत्तं च । २-२-६
उपनयनकालमभिधाय इदानीं कर्माह—ब्राह्मणान्—त्रीन् ब्राह्मणान्, भोजयेत्—आशयेत्, तं—कुमारं च भोजयेत् ।
पर्युप्तशिरसमलंकृतमानयन्ति । २-२-७
पर्युप्तशिरसं—परि-सर्वतः उप्तं—मुण्डितं शिरः यस्य स पर्युप्तशिराः तं कुमारम्, अलंकृतं—यथासम्भवसुवर्णादिनिर्मितकटककुण्डलाद्यलंकारैर्भूषितम्, आनयन्ति आचार्यपुरुषाः आचार्यसमीपम् ।
पश्चादग्नेरवस्थाप्य ब्रह्मचर्यमागामिति वाचयति । २-२-८
आचार्यः माणवकम् अग्नेः पश्चात्—पश्चिमभागे स्वस्य दक्षिणतः अवस्थाप्य—अवस्थितं कारयित्वा, ब्रह्मचर्यम् आगाम् इति ब्रूहि इति वाचयति ।
मन्त्रार्थः—ब्रह्मचर्यं प्रति अहम् आगाम्—आगतोऽस्मि ।
ब्रह्मचार्यसानीति च । २-२-९
ब्रह्मचारी असानि इति ब्रूहि इति आचार्यः माणवकं प्रेरयति । ब्रह्मचारी च आचार्यप्रेरितः ब्रह्मचार्यसानीति च वदेत् ।
मन्त्रार्थः—ब्रह्मकर्म चरतीति एवंशीलो ब्रह्मचारी,असानि—भवामि ।
अथैनं वासः परिधापयति—
येनेन्द्राय बृहस्पतिर्वासः पर्यदधादमृतम् ।
तेन त्वा परिदधाम्यायुषे दीर्घायुत्वाय बलाय वर्चस इति ।
२-२-१०
अथ—वाचनानन्तरम् एनं—कुमारं वासः—शाणादिवासः स्वस्ववर्णविहितं, परिधापयति—परिहितं कारयति आचार्यः ‘येनेन्द्राये’ति मन्त्रेण ।
मन्त्रार्थः(अङ्गिरा बृहती बृहस्पतिः वासः परिधापने)—हे माणवक ! बृहस्पतिः—देवानामाचार्यः, येन-येन विधिना इन्द्राय अमृतम्—अहतं वासः पर्यदधात्—परिधापितवान्, तेन—तेन विधिना, त्वा—त्वां माणवकम् आयुषे—आयुर्लाभाय, दीर्घायुत्वाय—दीर्घजीवनाय, बलाय-