भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 116, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 116

( ६४ )

मौनं त्यजति । अयं नियमः वाग्यमपक्षे इति भाष्यकाराः ।

अधः शाय्यक्षारालवणाशी स्यात् । ९

इत आरभ्य ब्रह्मचारिणो यमनियमा उच्यन्ते । ब्रह्मचारी अधः-शायी—अधः शयितुं शीलमस्य इति अधःशायी, पुनः अक्षारालवणाशी- अक्षारं च अलवणं च अशितुं शीलमस्येति अक्षारालवणाशी स्यात्—भवेत् ।

दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या । १०

दण्डधारणं—दण्डस्य स्ववर्णविहितस्य पालाशादेः शास्त्रोक्तलक्षणलक्षितस्य धारणं—ग्रहणम्, अग्निपरिचरणम्—अग्नेः परिचरणं,—सायं प्रातः परिसमूहनादित्यायुषान्तसमिदाधानं, गुरुशुश्रूषा—गुरोः परिचर्या, भिक्षाचर्या—भिक्षार्थं चर्या भैक्षचरणमितियावत् ।

मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् । ११

मधु—क्षौद्रं, मांसं—पललं, मज्जनं—नद्यादौ प्लवनं, स्नानं तु उद्धृतोदकेन विधेयम् । उपर्यासनम्—उपरि खट्वादौ आसनम्—उपवेशनम्, आसनस्योपरि मसूरिकाद्यासनं वा, स्त्रीगमनं—स्त्रीणां मध्ये अवस्थानम्, अनृतम्—असत्यभाषणम्, अदत्तादानम्—अदत्तस्य परद्रव्यस्य आदानं—ग्रहणं स्तेयमित्यर्थः । एतानि मध्वादीनि ब्रह्मचारी वर्जयेत् ।

अष्टचत्वारिंशद् वर्षाणि वेदब्रह्मचर्यं चरेत् । १२

अष्टाभिरधिकानि चत्वारिंशत् अष्टचत्वारिंशत् तानि वर्षाणि अत्रनैरन्तर्ये द्वितीया, वेदब्रह्मचर्यं—वेदार्थं ब्रह्मचर्यं चरेत्—आचरेत् । अत्र पक्षे चतुर्णां वेदानामेक एव व्रतादेशः ।

द्वादश द्वादश वा प्रतिवेदम् । १३

एकवेदादेशासामर्थ्ये प्रतिवेदं—वेदं वेदं प्रति द्वादशवर्षाणि ब्रह्मचर्यं चरेत् ।

यावद् ग्रहणं वा । १४