भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 118, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 118

( ६६ )

धनुर्ज्या—धनुषः ज्या—गुणः राजन्यस्य—क्षत्रियस्य ब्रह्मचारिणो मेखला भवति।

मौर्वी वैश्यस्य । २२

मूर्वा—तृणविशेषः तन्मयी मेखला वैश्यस्य। मुरुरिति तृणविशेषः स्तन्मयी मौर्वी इति गदाधरः। मुर्व्वामयी ज्या धनुर्गुणरूपा इति मन्वर्थमुक्तावल्यां कुल्लूकः (२.४२)।

मुञ्जाऽभावे कुशाऽश्मन्तकबल्वजानाम् । २३

मुञ्जाऽभावे—मुञ्जाद्यभावे, ब्राह्मणादीनां कुशाश्मन्तकवल्वजानां कुशादीनां तृणानां विकारभूता रशना भवति। यथा कुशमयी ब्राह्मणस्य, अश्मन्तकमयी क्षत्रियस्य, वल्वजमयी वैश्यस्य इति।

पालाशो ब्राह्मणस्य दण्डः । २४

पालाशः—ब्रह्मवृक्षः, तस्यायं पालाशः दण्डः ब्राह्मणस्य ब्रह्मचारिणो भवति। स च केशमूर्द्धावधिप्रमाणकः कार्यः।

वैल्वोराजन्यस्य । २५

वैल्वः—बिल्ववृक्षोद्भवो दण्डः राजन्यस्य—क्षत्रियस्य, ब्रह्मचारिणो भवति। स च ललाटसम्मितः कार्यः।

औदुम्बरो वैश्यस्य । २६

उदुम्बरः—यज्ञियवृक्षविशेषः। तस्यायमौदुम्बरो दण्डः वैश्यस्य ब्रह्मचारिणो भवति। स च दण्डः नासान्तिकः कार्यः। स्यात्तुनासान्तिको विश इति मनुवचनात्। हरिहरमृते तु ओष्ठपुटावधिरिति।

सर्वे वा सर्वेषाम् । २७

अथवा सर्वेषां—ब्राह्मणक्षत्रियविशां, सर्वे—पालाशवैल्वाौदुम्बरा दण्डा अनियमेन भवन्ति। ततः मुख्यालाभे यथालाभमुपादेयम्।

आचार्येणाहूत उत्थाय प्रतिशृणुयात् । २८

आचार्येण—गुरुणा, आहूतः—आकारितः, उत्थाय—ऊर्ध्वो भूत्वा प्रतिशृणुयात्—प्रतिवचनं दद्यात् ब्रह्मचारी।