भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 121, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 121

( ६६ )

कालातिक्रमे नियतवत् । ४१

गर्भाधानादीनि उपनयनान्तानि कर्माणि नियतकालानि अभिहितानि यदि दैववशात् पुरुषापराधाद्वा तेषां नियतस्य कालस्य अतिक्रमो भवति तदा किं कर्त्तव्यमिति सन्देहे निर्णयमाह—कालातिक्रमे—यस्य संस्कारकर्मणः यः कालः नियतः, तस्य अतिक्रमे—लङ्घने, नियतवत्—नित्यवत् नित्ये श्रौतकल्पे यद् विहितं तद्वत् अनादिष्टं प्रायश्चित्तं कृत्वा तदेवकार्यमित्यर्थः । अनादेशप्रायश्चित्ते भूरादिभिर्व्याहृतिभिः तिस्रः आहुतयः । भूरादिभिस्तिसृभिश्चैका आहुतिः । ततः सर्वप्रायश्चित्तं पञ्च मन्त्राः तैश्च पञ्चाहुतयः । एवं मिलित्वा नवाहुतयो भवन्ति ।

त्रिपुरुषं पतितसावित्रीकाणामपत्ये संस्कारो नाध्यापनं च । ४२

सम्प्रति प्रतिप्रसवमाह—(निषिद्धस्य पुनरभ्यनुज्ञानं प्रतिप्रसवः) । त्रिपुरुषं—त्रीन् पुरुषान् यावत् पतितसावित्रीकाणां ये पतितसावित्रीकाः पितृपुत्रपौत्रास्तेषाम् अपत्ये—पुत्रे संस्कारः—उपनयनं भवति, किन्तु अध्यापनं—वेदाध्यापनं न भवति

तेषां संस्कारेप्सुर्व्रात्यस्तोमेनेष्ट्वा काममधीयीरन् व्यवहार्या भवन्तीति वचनात् । ४३

तेषां—पुरुषत्रयवर्त्तिनां पितृपुत्रपौत्राणाम् असंस्कृतानां मध्ये संस्कारेप्सुः—आत्मनः संस्कारकामी व्रात्यस्तोमेन—व्रात्यस्तोमाख्येन यज्ञेन इष्ट्वा—व्यवहार्यो भवति उपनयनादिसंस्कारयोग्यो भवति । कामम्—इच्छया व्रात्यस्तोमेन इष्ट्वा—व्रात्यस्तोमं कृत्वा अधीयीरन्—वेदं पठेयुः, व्यवहार्याः—लोके शिष्टानाम् अध्यापनादिकर्मसु योग्या भवन्ति इति वचनात्—श्रुतिप्रमाणात् । श्रुतिवचनात् सम्पादितेन व्रात्यस्तोमेन संस्कारयोग्यता सम्पाद्यते इति भावः ।

इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां द्वितीयकाण्डे पञ्चमी कण्डिका ॥

—४०४ —