भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 126, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 126

( १०४ )

अनुलेपनं—चन्दनादि, नासिकयोः मुखस्य च उपगृह्णीते—उपसमीपे, गृह्णीते—धारयति, प्राणापानौ मे तर्पय इत्यादिना मन्त्रेण ।
मन्त्रार्थः सुस्पष्टः ।

पितरः शुन्धध्वमिति पाण्योरवनेजनं दक्षिणा निषिच्यानुलिप्य जपेत्-

सुचक्षा अहमक्षिभ्यां भूयासठ्ं सुवर्चा मुखेन सुश्रुत्
कर्णाभ्यां भूयासमिति । १४

पितरः शुन्धध्वमिति मन्त्रेण पाण्योः—हस्तयोः, अवनेजनं—प्रक्षालनोदकं, दक्षिणा—दक्षिणस्यां दिशि, निषिच्य—प्रक्षिप्य, ततः यज्ञोपवीती सन् हस्तं प्रक्षाल्य, अनुलिप्य—सुगन्धिद्रव्याणि अङ्गेषु विलिप्य “सुचक्षा अहमिति' मन्त्रं जपेत् ।

मन्त्रार्थः (प्रजापतिः यजुः सविता नेत्राभिमन्त्रणे)—हे देवाः ! अहं यजमानः अक्षिभ्यां—चक्षुर्भ्यां, सुचक्षाः—शोभनदर्शनः, मुखेन—वदनेन, सुवर्चाः—सुतेजाः कर्णाभ्यां सुश्रुत्—सुश्रवणः, भूयासं—भवेयम् इति प्रार्थना ।

अहतं वासो धौतं वाऽमौत्रेणाच्छादयीत—

परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि ।
शतं च जीवामि शरदः पुरूची रायस्पोषमभि
संव्ययिष्य इति । १५

अहतं—नवं सदृशं, वा—अथवा, अमौत्रेण—अरजकेन धौतं वासः—वस्त्रम्, आच्छादयोत—परिदधीत, परिधास्यै इति मन्त्रेण ।

मन्त्रार्थः ( आथर्वणः यजुः वासः परिधाने )—परिधास्यै—अहं वस्त्रपरिधानं करिष्यामि, यशोधास्यै – यशो धारयिष्यामि। दीर्घायुत्वाय—दीर्घजीवनलाभाय, जरदष्टिः—वृद्धत्वव्याप्यजीवनकालः, अस्मि—भवामि । शरदः शतं—शतं वर्षाणि जीवामि ! पुरूची—पुरुभिः पुत्र-धनादिभिः समवायः अस्ति यस्य स पुरूची, तथाभूतः सन्, रायः—धनस्य, पोषं— पुष्टिम् अभिसंव्ययिष्ये— आवरणं करिष्यामि

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित) · पृष्ठ 126, कुल 263 में से · BharatKosha