पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 135, कुल 263 में से
संदर्भ में पढ़ें( ११३ )
वैश्वदेवात्—विश्वे—सर्वे देवा देवता अस्येति वैश्वदेवम् अन्नं, तस्मात्—अन्नात् किंचिदुद्धृत्य पात्रान्तरे कृत्वा, पर्युक्ष्य—आवसथ्यस्य पर्युक्षणं कृत्वा, स्वाहाकारैः—स्वाहाकारसहितैः चतुर्थ्यन्तनामभिर्मन्त्रैः जुहुयात् । अत्र स्वाहाकारोपदेशः संस्रवव्युदासार्थः । यथा—ब्रह्मणे स्वाहा, प्रजापतये स्वाहा, गृह्याभ्यः स्वाहा, कश्यपाय स्वाहा, अनुमतये स्वाहा, इति देवयज्ञः ।
( भूतयज्ञः )
भूतगृह्येभ्यो मणिके त्रीन् पर्जन्यायाद्भ्यः पृथिव्यै । ३
देवयज्ञानन्तरं भूतगृह्येभ्यः—भूतानि च गृह्याणि च तानि भूतगृह्याणि तेभ्यः, मणिके—मणिकसमीपे, त्रीन्—त्रीन् वलीन् दद्यात् । पर्जन्याय नमः, अद्भ्यो नमः, पृथिव्यै नमः इति । वलिदाने नमस्कारो विहितः पितृभ्यः स्वधानम इत्युक्तत्वात् ।
धात्रे विधात्रे च द्वार्ययोः । ४
द्वार्ययोः—द्वारशाखयोः दक्षिणोत्तरयोः यथाक्रमं धात्रे नमः विधात्रे नम इति वलिद्वयं दद्यात् ।
प्रतिदिशं वायवे दिशां च । ५
प्रतिदिशं—दिशं दिशं प्रति सर्वासु दिक्षु इत्यर्थः । वायवे नम इति एकैकमिति वलिचतुष्टयं दद्यात् । दिशां—प्राच्यादीनां च प्रतिदिशं "प्राच्यै दिशे नमः, दक्षिणायै दिशे नमः, प्रतीच्यै दिशे नमः, उदीच्यै दिशे नम इति वलिचतुष्टयं दद्यात् । इति अष्टौ ।
मध्ये त्रीन् ब्रह्मणेऽन्तरिक्षाय सूर्याय । ६
मध्ये त्रीन्—त्रीन् वलीन् दद्यात् । यथा—ब्रह्मणे नमः, अन्तरिक्षाय नमः सूर्याय नम इति त्रयम् ।
विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः । ७
तेषां—ब्रह्मादिवलीनाम्, उत्तरतः—उत्तरप्रदेशे विश्वेभ्यो देवेभ्यो नमः, विश्वेभ्यो भूतेभ्यो नम इति वलिद्वयं दद्यात् ।
उषसे भूतानां च पतये परम् । ८