पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 222, कुल 263 में से
संदर्भ में पढ़ें( २०० )
विदधीत । परिपशव्ये हुत्वा तूष्णीमपराः पञ्च । ३
परिपशव्ये—पशुसंज्ञपनं परि—उभयतः, 'स्वाहा देवेभ्यः देवेभ्यः स्वाहा' इति ये द्वे आज्याहुती ते हुत्वा पशोः मारणात् पूर्वं 'स्वाहा देवेभ्यः' मृते पशौ "देवेभ्यः स्वाहा" इति होमं कृत्वा इत्यर्थः । तदनन्तरं तूष्णीं विना मन्त्रोच्चारणम् अपराः—एतदाहुतिभिन्नाः अन्याः, पञ्च आज्याहुतीः प्रजापतिध्यानपूर्वकं जुहुयात् । इदं प्रजापतये इति पञ्चानां त्यागा इति विश्वनाथः ।
वपोद्धरणं चाभिघारयेत् । ४
पशोः वपायाः—नाभिस्थचर्मविशेषस्य उद्धरणं—ग्रहणं यथोक्तरीत्या कृत्वा तां वपाम् अभिघारयेत्—घृतसिक्तां कुर्यात् ।
देवतां चादिशेदुपाकरणनियोजनप्रोक्षणेषु । ५
पूर्वोक्तेषु उपाकरणनियोजनप्रोक्षणेषु कर्मसु—देवतां यद्देवताऽर्थः पशुर्भवति, तां देवतां च आदिशेत्—निर्दिशेत् "अमुष्मै त्वा उपाकरोमि, अमुष्मै त्वा नियुनज्मि, अमुष्मै त्वा जुष्टं प्रोक्षामि" इति ।
स्थालीपाके चैवम् । ६
स्थालीपाके—चरौ अपि एवं देवतामादिशेत् "अमुष्मै त्वा जुष्टं प्रोक्षामि" इति ।
वपाँ हुत्वाऽवदानान्यवद्यति सर्वाणि त्रीणि पञ्च वा । ७
वपाम्—उद्धृतां वपां यथोक्तेन विधिना हुत्वा अवदानानि—पशोः हृदयादीनि, सर्वाणि—हृदयजिह्वाक्रोडसव्यबाहुपार्श्वद्वययकृद्-वृक्कद्वय गुदमध्य दक्षिणश्रोणिरूपाणि एकादश प्रधानार्थानि स्विष्टकृद्-यागार्थञ्च दक्षिणबाहुगुदतृतीयानिष्ठसव्यश्रोणिरूपाणि च त्रीणि, वा—अथवा, त्रीणि हृदयजिह्वाक्रोदानि, अथवा पञ्च—हृदयजिह्वाक्रोड-सव्यबाहुदक्षिणपार्श्वानि, अवद्यति—छिनत्ति । अत्र पञ्चावदानपक्षे त्र्यवदानपक्षे वा तत एव स्विष्टकृद्धोमः । पशुपुरोडाशो नास्ति ।