पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 234, कुल 263 में से
संदर्भ में पढ़ें( २१२ )
चतुष्पथमभिमन्त्रयते—
“नमो रुद्राय चतुष्पथसदे स्वस्ति मा संपारयेति । ८
चतुष्पथे सीदति—तिष्ठतीति चतुष्पथसत् तस्मै रुद्राय नमः ।
नदीमुत्तरिष्यन्नभिमन्त्रयते—
नमो रुद्रायाप्सुषदे स्वस्ति मा संपारयेति । ६
अप्सु—जले सीदति—तिष्ठतीति अप्सुषत् तस्मै ।
नावमारोक्ष्यन्नभिमन्त्रयते—सुनावमिति । १०
नावमारोढुमिच्छन् “सुनाव” मिति मन्त्रं पठेत् ।
मन्त्रो यथा— (यज्ञदैवत्या गायत्री)
सुनावमारुहेयमस्स्रवन्तीमनागसम् ।
शतारित्राꣳ स्वस्तये ॥ (शु. य. २१-७)
उत्तरिष्यन्नभिमन्त्रयते सूत्रामाणमिति । ११
प्रकरणात् नौकात् अवतरीतुमिच्छन् ‘सूत्रामाण’ मितिमन्त्रं पठेत् ।
मन्त्रो यथा— (अदितिः, त्रिष्टुप्, गयःप्लातऋषिः)
सूत्रामाणं॑ पृथिवीं द्यामनेहसं॒ सुशर्माणं॑ द्यामदितिं॒ सुप्रणीतिम् ।
दैवीं नावं॒ स्वरित्रामनागसमस्रवन्तीमारुहेमा स्वस्तये । (शु य २१-६)
वनमभिमन्त्रयते—
नमो रुद्राय वनसदे स्वस्ति मा संपारयेति । १२
वनप्रवेशमिच्छन् वनं मन्त्रयते “नमो रुद्रायेति” ।
गिरिमभिमन्त्रयते—
नमो रुद्राय गिरिशदे स्वस्ति मा संपारयेति । १३
गिरि—पर्वतमारोढुमिच्छन् “नमो रुद्राये”ति मन्त्रयेत् ।
श्मशानमभिमन्त्रयते—
नमो रुद्राय पितृषदे स्वस्ति मा संपारयेति । १४