भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 235, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 235

( २१३ )

श्मशानं—प्रेतदहनभूमिम् । पितृषदे—श्मशानवासिने । अन्यत् स्पष्टम् । गोष्ठमभिमन्त्रयते— नमो रुद्राय शकृत्पिण्डसदे स्वस्ति मा संपारयेति । १५ गोष्ठं—गोवाटम् । शकृत्पिण्डसदे—गोमयपिण्डवासिने । अन्यत् स्पष्टम् । यत्र चान्यत्रापि नमो रुद्रायेत्येव ब्रूया- द्रुद्रो ह्येवेदꣳ सर्वमिति श्रुतेः । १६ यत्र—येषु केषुचित् स्थानेषु कार्येषु वा अनुक्तेषु प्रविशन् पूर्वं "नमो रुद्राय" इति ब्रूयात्—वदेत् एव—अवधारणे, पश्चात् कर्म कुर्यात् । हि—यस्मात्, इदं—दृश्यमानं जगत्, सर्वम्—अखिलं रुद्र एव इति श्रुतेः—वेदवचनात् ।

—--—

( नैमित्तिकदोषनिवारणम् )

सिचावधूतोऽभिमन्त्रयते— सिगसि न वज्रोऽसि नमस्ते अस्तु मा मा हिंसीरिति । १७ सिचा - वस्त्रप्रान्तेन, अवधूतः— तद्वाताहतः, वस्त्रप्रान्तम् अभिमन्त्रयते—सिगसीति । मन्त्रार्थः—(प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता देवता) अर्थः सुगमः । स्तनयित्नुमभिमन्त्रयते— शिवा नो वर्षाः सन्तु शिवा नः सन्तु हेतयः । शिवा नस्ताः सन्तु यास्त्वर्तूंꣳ सृजसि वृत्रहन्निति । १८ स्तनयित्नुं—गर्जन्तं मेघम् अभिमन्त्रयते "शिवो न" इत्यादिना मन्त्रेण । मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, इन्द्रः वज्रवारणे) हे वृत्रहन्— इन्द्र ! वर्षाः—वृष्टिकालाः तदुपलक्षिताः वृष्टयोऽपि नः—अस्माकं,