पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 236, कुल 263 में से
संदर्भ में पढ़ें( २१४ )
शिवाः—मङ्गलकराः, सन्तु—भवन्तु । हेतयः—तव आयुधानि नः शिवाः सन्तु । पुनश्च त्वं याः—हेतीः सृजसि—क्षिपसि, ताः नः शिवाः सन्तु । अस्मज्जिघांसुव्याघ्रसाहसिकतस्करादीन् घ्नन्तु इति तात्पर्यम् ।
शिवां वाश्यमानामभिमन्त्रयते—
शिवो नामेति । १६
वाश्यमानां—शब्दं कुर्व्वाणां, शिवां—शृगालीमभिमन्त्रयते—'शिवो नामे'ति मन्त्रेण । शृगालीशब्दं श्रुत्वा मन्त्रं जपतीत्यर्थः । अयं मन्त्रः का २-१-११ सूत्रव्याख्याने दर्शितः ।
शकुनिं वाश्यमानमभिमन्त्रयते—
हिरण्यपर्णं शकुने देवानां प्रहितं गम ।
यमदूत नमस्तेऽस्तु किन्त्वा कार्कारिणोऽब्रवीदिति । २०
वाश्यमानं—कूजन्तं, शकुनिं—कृष्णकाकमभिमन्त्रयते हिरण्यपर्णेति ।
मन्त्रार्थः— (प्रजापतिः, अनुष्टुप्, लिङ्गोक्ता) हे हिरण्यपर्ण !—गरुडवत् शीघ्रग, हे शकुने ! हे देवानां प्रहितं गम—देवदेशितस्थानगामिन् अथवा शुभाशुभफलप्रकाशक, हे यमदूत ! ते—तुभ्यं, नमः अस्तु । त्वा—त्वां कर्कारिणः—तव प्रभुः—तव बन्धुर्वा किमब्रवीत् । अत्र कार्कारिणः इति द्वितीयार्थे षष्ठीति केचित् । तत्पक्षे काकजात्यनुरूपः शब्दः कार्कारः, स अस्यास्तीति कार्कारी, तं कार्कारिणं त्वां यमः किमब्रवीत् इति ।
लक्षण्यं वृक्षमभिमन्त्रयते—
मा त्वाऽशनिर्मा परशुर्मा वातो मा राजप्रेषितो दण्डः ।
अङ्कूरास्ते प्ररोहन्तु निवाते त्वाभिवर्षतु ॥
अग्निष्टे मूलम्मा हिठ्ंसीत् स्वस्ति तेऽस्तु वनस्पते ।
स्वस्ति मेऽस्तु जनस्पत इति । २१