पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 43, कुल 263 में से
संदर्भ में पढ़ें( २१ )
अथोत्तरीयम्—"या अकृन्तन्नवयन् या अतन्वत । याश्च-
देवीस्तन्तूनभितो ततन्थ, तास्त्वा देवीर्जरसे संव्ययस्वायुष्मतीदं
परिधत्स्ववास इति । १-४-१४
अथ—अनन्तरं, पूर्ववत् उत्तरीयम् परिधापयति वरः या अकृन्त-
न्निति मन्त्रेण ।
मन्त्रार्थः ( प्रजापतिः गायत्री विधात्र्यः वस्त्रधारणे )—हे
कन्यके ! याः देवीः—देव्यः, अत्र प्रथमाथे द्वितीया । तन्तून्—सूत्रतन्तून्
अकृन्तन्—कर्त्तितवत्यः याः—अवयन्—वयनं कृतवत्यः या अतन्वत—
विस्तारितवत्यः याश्च तन्तून्—पूर्वोक्ततन्तून्, अभितः—ओतप्रोतभावेन
ततन्थ—तेनुः ताः देवीः—देव्यः त्वा—त्वां जरसे—निर्दुष्टचिरजीवनाय
संव्ययस्व — परिधापयन्तु । हे आयुष्मति ! इदं वासः — वस्त्रं
परिधत्स्व—उत्तरीयरूपेण परिधेहि ।
अथैनौ समञ्जयति—समञ्जन्तु विश्वेदेवाः समापो हृदयानि
नौ । सम्मातरिश्वा सन्धाता समुदेष्ट्री दधातु नौ इति । १-४-१५
अथ—वस्त्रपरिधानान्तरं कन्यापिता एनौ—वधूवरौ “परस्परं
समञ्जेथाम्” इति प्रैषेण समञ्जयति—सम्मुखीकरोति । तत्र वरः
कन्यायाः सम्मुखीभूतः समञ्जन्तु विश्वेदेवा” इत्यादिमन्त्रं पठति ।
मन्त्रार्थः (आथर्वणः अनुष्टुप् लिङ्गोक्ता मैत्रीकरणे)—हे कन्ये !
नौ—आवयोः, हृदयानि—मनांसि विश्वेदेवाः आपश्च समञ्जन्तु —
परस्परमनुकूलानि कुर्वन्तु । मातरिश्वा—पवनः, धाता — प्रजापतिः,
उदेष्ट्रीदेवता—कामश्च आवयोः हृदयानि सन्दधातु—संयोजयतु ।
अत्र वरकन्योभयवर्गस्य स्वजनानुकूल्यापेक्षया हृदयशब्दस्य बहुवचनम् ।
समञ्जनानन्तरं कन्यादानम् ।