पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 50, कुल 263 में से
संदर्भ में पढ़ें( २८ )
अस्यास्ये अर्के—अस्यां पुरोधायो—पुरोनिहितायां कन्यायाम्, अस्मिन् कर्मणि—विवाहकम्मणि, अस्यां देवहूत्यां—देवाह्वानकर्मणि होमे वा । एतेषु सर्वत्र असितः अवतु ! स्वाहा—सुहुतमस्तु । ब्रह्मणः—वेदस्य स्रोत्यानां—नदीनाम् । पितरः, पितामहाः, परे—प्रपितामहाः, अचरे वृद्धप्रपितामहाः, ततः—तत्पश्चात् पूर्वर्वाशनः—ततामहः—तंतोऽपि पूर्वतरा इति पित्रा दयः षट् पुरुषा अत्र उक्ता इति शत्रुघ्नः ।
अग्निरेतु प्रथमो देवताना सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेय स्त्री पौत्रमघं न रोदात् स्वाहा । १-५-११ (क)
'अग्निरेतु' इत्यादयः 'सुगं नः पन्था' इत्यन्ताश्चत्वारः होममन्त्राः । तैः प्रत्येकमेकैका आहुतिः देया ।
मन्त्रार्थः—(ऋतूणां प्रजापतिः त्रिष्टुप् लिङ्गोक्त आज्यहोमे)— देवतानाम्—इन्द्रादीनां, प्रथमः—मुख्यः अग्निः ऐतु—आ एतु आगच्छतु । सः अग्निः अस्यै—अस्याः कन्यायाः, अत्र षष्ठ्यर्थे चतुर्थी । प्रजां—पुत्रं कन्यौंच, मृत्युपाशात्—मृत्युरूपबन्धनौत् मुञ्चतु—मोचयतु तत्—प्रजामोचनम् अयं राजा वरुणः अनुमन्यतां—स्वीकरोतु । अथ इयं स्त्री पौत्रं—पुत्रसम्बन्धि अघं—दुःखं प्राप्य नरोदात्—नरोदिष्यति इति प्रार्थना ।
इमामग्निस्रायतं गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा । १-५-११ (ख)
मन्त्रार्थः—गार्हपत्यः अग्निः इमां—कन्यां त्रायताम् । अस्यै—अस्याः, अत्र षष्ठ्यर्थे चतुर्थी, प्रजां दीर्घमायुः—चिरजीवित्वं नयतु—प्रापयतु । पुनश्चेयम् अशून्योपस्था—सफलप्रसवा तथा च जीवतां मात