पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 51, कुल 263 में से
संदर्भ में पढ़ें( २६ )
जीवद्वत्सा अस्तु । पौत्रं—पुत्रलाभहेतुकम् आनन्दम्—आह्लादम्, अभिविवुध्यताम्—आभिमुख्येन अनुभवतु ।
स्वस्ति नो अग्ने दिव आ पृथिव्या विश्वानि धेह्ययथा यजत्र। यदस्यां महि दिवि जातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्रँ स्वाहा। १-५-११ (ग)
मन्त्रार्थः- यजन्तं त्रायत इति यजत्रः । हे यजत्र अग्ने ! त्वं नः—अस्माकं, विश्वानि—सर्वाणि, अयथा—अयथा कृतानि कर्माणि, स्वस्ति—सम्पूर्णानि, धेहि—स्थापय । किं च दिव आ—स्वर्गलोक-मभिव्याप्य, पृथिव्या आ—पृथिवीलोकमभिव्याप्य सर्वाणि कल्याणानि अस्मासु स्थापय । किं च यत् अस्यां—पृथिव्यां यच्च दिवि—स्वर्गलोके जातं, प्रशस्तं महि—महनीयं, चित्रं—नानारूपं, द्रविणं—धनं, तत् अस्मासु धेहि—स्थापय ।
सुगं नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धेह्यजरं न आयुः । अपैतु मृत्युरमृतं न आगाद् वैवस्वतो नो अभयं कृणोतु स्वाहा इति । १-५-११ (घ)
हे अग्ने ! नः—अस्माकं, सुगं—सुखेन गम्यते इति सुगं—सुखगम्यं पन्थां—पन्थानं प्रदिशन्—उपदिशन् एहि-आगच्छ । हे ज्योतिष्मन् अग्ने अजरं—जरारहितम् आयुः—जीवनकालं नः—अस्माकं धेहि—स्थापय । पुनश्च नः—अस्माकं मृत्युः अपैतु—अपगच्छतु । अमृतं मोक्षः आगात्—आगछ वैवस्वतः—यमः नः-अस्माकम् अभयं कृणोतु—करोतु, स्वाहा—सुहुतमस्तु । नु—अनुनये । "न आगात्" स्थाने "म आगाद् इति पाठो वैकल्पिकः ।
परं मृत्यविति चैके प्राशनान्ते । ५-५-१२ एके—आचार्याः परं मृत्यविति मन्त्रेण एकां आहुतिं च प्राशनान्ते