भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 52, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 52

( ३० )

संस्रवप्राशनान्ते जुहुयात् इति मन्यन्ते । परंमृत्यवित्यस्य संपूर्णः पाठ यथा— परं मृत्यो अनुपरेहि पन्थां यस्ते अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिष मोत वीरान् स्वाहा ॥ इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे पञ्चमी कण्डिका ॥


कुमार्य्या भ्राता शमीपलाशमिश्रांल्लाजानञ्जलिनाऽञ्जलावावपति । १-६-१

कुमार्य्याः—कन्यायाः भ्राता शमीपलाशमिश्रान्—शमीपत्रयुक्तान् लाजान्—भृष्टानि धन्वानि, अञ्जलिना कृत्वा कन्याया अञ्जलौ आवपति—निक्षिपति ।

ताञ्जुहोति संहतेन तिष्ठती—

१) अर्यमणं देवं कन्याऽग्निमयक्षत । स नो अर्यमा देवः प्रेतो मुञ्चतु मा पतेः स्वाहा ॥

२) इयं नार्युपब्रूते लाजानावपन्तिका । आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा ॥

३) इमां लाजानावपाम्यग्नौ समृद्धिकरणं तव । मम तुभ्यं च संवननं तदग्निरनुमन्यतामियँ स्वाहा ॥ इति-१-६-२

सा कन्या तान्—पूर्वोक्तान् भ्रातृदत्तान् लाजान् संहतेन-मिलितेन अञ्जलिना तिष्ठती—दण्डायमाना सती जुहोति अर्यमणमित्यादिमन्त्रैः । तत्र अर्यमणं देवम् इति प्रथमम् । इयं नार्य्यपब्रूते इति द्वितीयम् । इमां लाजाना इति तृतीयम् इति आहुतित्रयम् ।