भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 53, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 53

( ३१ )

मन्त्रार्थः—(त्रयाणाम् आथर्वणोऽनुष्टुप् अग्निः लाजहोमे)— इयं कन्या अर्यमणं—सूर्य्यं देवम्, अग्निम्—अग्निरूपम्, अयक्षत— पूजयति । अर्यमा देवः नः—कन्याः इतः—पितृकुलात् प्रमुञ्चतु— मोचयतु । पतेः—पत्युः सकाशात् मा—न प्रमुञ्चतु । स्वाहा— सुहुतमस्तु ।

(२) अग्नौ लाजान् आवपन्तिका—प्रक्षिपन्ती इयं नारी— कन्या उप—वरसमीपे ब्रूते—कथयति । मे—मम पतिः आयुष्मान् अस्तु । मम ज्ञातयः एधन्तां—वर्द्धन्ताम् ।

(३) हे पते ! इमान् लाजान्—भृष्टव्रीहीन् तव समृद्धिकरणं— तव समृद्धये अग्नौ आवपामि—जुहोमि । मम—कन्यायाः तुभ्यं— वरस्य च संवननं—वशीकरणम् अग्निः अनुमन्यतां—स्वीकरोतु । इयं स्वाहा—अग्निपत्नी च अनुमन्यताम् । तुभ्यमितिषष्ठ्यर्थे चतुर्थी ।

अथास्यै दक्षिणं हस्तं गृह्णाति सङ्गुष्ठम्—

१) “गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टि- र्यथाऽसः । भगोऽर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ।

२) अमोहमस्मि सा त्वॐ सा त्वमस्यमोऽहम् । सामाहमस्मि ऋक् त्वं द्यौरहं पृथिवी त्वं तावेहि विवहावहै सह रेतोदधावहै प्रजां प्रजनयावहै पुत्रान् विन्द्यावहै बहून् । ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमनस्य मानौ पश्येम शरदः शतं जीवेम शरदः शत ॐ शृणुयाम शरदः शतमिति । १-६-३

अथ—लाजहोमानन्तरम् अस्यै—अस्याः कन्यायाः साङ्गुष्ठम्- अङ्गुष्ठसहितं दक्षिणहस्तं गृह्णाति वर। स्वदक्षिणहस्तेन 'गृह्णामि ते' इत्यादिभिर्मन्त्रैः ।