पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा
स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)
पृष्ठ 54, कुल 263 में से
संदर्भ में पढ़ें( ३२ )
१) मन्त्रार्थः (याज्ञवल्क्यः त्रिष्टुप् लिङ्गोक्ता हस्तग्रहणे) ते— तव कन्यायाः हस्तं सौभगत्वय — सौभाग्यलाभाय गृह्णामि— गृह्णामि । मया—पत्या सह जरदष्टिः—वृद्धा, आसः—भवसि । जरदं वार्द्धकम् अश्नुते व्याप्नोतीति जरदष्टिः । भगः अर्यमा सविता पुरन्धिः एते देवाः त्वा— कन्यां मह्यं—वराय गार्हपत्याय— गृहस्थाश्रमाय अदुः—दत्तवन्तः । भगो धर्मः, पुरन्धिरिन्द्रो वरुणो वेति नैरुक्ताः ।
(२) (भरद्वाज उष्णिक् विष्णुः हस्तग्रहणे) हे कन्ये ! अहं — वरः अमः—मा लक्ष्मीर्नास्ति यस्य सः अमः लक्ष्मीहीनः अस्मि—भवामि । त्वं—कन्या सा—लक्ष्मीः असि—भवसि । त्वं च सा, अहम् अमः — लक्ष्मीहीनः अस्मि । अहं साम—सामवेदः अस्मि त्वम् ऋग्वेदोऽसि । अहं द्यौः—स्वर्गलोकः अस्मि । त्वं कन्या पृथिवीअसि । एहि आगच्छ। तौ आवां विवहावहै—विवाहं करवावहै सहरेतो दधावहै सहितौ भूत्वा रेतोरूपं पुत्रं धारयावः । प्रजां—सन्तति प्रजनयावहै—उत्पादयावः । बहून् पुत्रान् विन्दावहै—लभावहै । ते—पुत्राः जरदष्टयः—चिरजीविनः सन्तु—भवन्तु । आवां च संप्रियौ—परस्परप्रीतियुक्तौ, रोचिष्णू—दीप्तौ, सुमनस्यमानौ—शोभनमनस्कौ स्यावः । वयं च सर्वे पुत्रादिसहिताः शरदः शतं—शतं वर्षाणि जीवेम पश्येम शृणुयाम ।
इति पारस्करगृह्यसूत्रव्याख्यायां मार्गदर्शिन्यां प्रथमकाण्डे षष्ठी कण्डिका ॥
—X—
( शिलारोहणम् )
अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन—
आरोहेममश्मानमश्मेव त्वं स्थिरा भव ।
अभितिष्ठ पृतन्यतोऽवबाधस्व पृतनायत इति । १-७-१
अथ—पाणिग्रहणानन्तरम् एनां—वधूम् । अश्मानं—दृषदम् अग्नेरुत्तरतः वर्त्तमानं दक्षिणपादेन कृत्वा आरोहयति वरः “आरोहेममिति मन्त्रेण ।