भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 69, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 69

( ४७ )

अत्र "सोमोऽददद् गन्धर्वाय गन्धर्वोऽददद्ग्नये ( १/४/१७ ) इति मन्त्रोक्त्या अव्यवहितपूर्वतनपतित्वेन पतिदोषनाशाय अग्नेः प्रार्थना । गर्भग्रहणे गर्भोन्मोचने च वायोर्मुख्यत्वेन प्रजादोषनाशाय तस्य प्रार्थना । गर्भग्रहणे वायोः प्राधान्यं सुश्रुते (३—३) शुक्रं तत्क्षणमेव सहभूतात्मना गुणैश्च सत्त्वरजस्तमोभिः सह वायुना प्रेर्यमाणं गर्भाशये तिष्ठति । इति, गर्भात् निःसरणे च—

"नवमे दशमे वापि प्रवलैः सूतिमारुतैः । निःसार्यते वाण इव यन्त्राच्छिद्रेण सज्ज्वरः ।। ३—८३

इति याज्ञवल्क्यस्मृतौ वायोः प्राधान्यमुक्तम् । पशूपयोगितृणजलादीनां सूर्य्यायत्तत्वेन पशुदोषनाशाय सूर्य्यप्रार्थना । तथा गृहनाशकारणं क्रोधादिकं मानसव्यापारं शमयितुं मनोधिपतेश्चन्द्रस्य प्रार्थना । व्यभिचाराद्यशोनाशाय चापल्यकारणस्य पूर्वपतेर्गन्धर्वस्य चानुकूलत्वप्रार्थना युज्यत एव । वाग्दोषजन्यायशोनाशाय वा गन्धर्वप्रार्थना ।

स्थालीपाकस्य जुहोति प्रजापतये स्वाहेति । १-११-३

आज्यहोमानन्तरं स्थालीपाकस्य—चरोः "प्रजापतये स्वाहा" इति एकामाहुतिं जुहोति । स्थालीपाकस्येति अवयवलक्षणाषष्ठी ।

हुत्वा हुत्वैतासामाहुतीनामुदपात्रे संस्रवान्त्समवनीय तत एनां मूर्द्धन्यभिषिञ्चति—याते पतिघ्नी प्रजाघ्नी पशुघ्नी गृहघ्नी यशोघ्नी निन्दिता तनूर्जारघ्नीं तत एनां करोमि सा जीर्य त्वं मया सहासाविति । १-११-४

एतासाम्—अग्ने प्रायश्चित्ते इत्यादीनां प्राजापत्यान्तानां षण्णाम् आहुतीनां हुत्वा हुत्वा—प्रत्येकं हुत्वा अर्थात् प्रतिहोमानन्तरं संस्रवान्—हुतशेषान् स्रुवलग्नाज्यचर्ववयवान् उदपात्रे—जलपात्रे समवनीय—प्रक्षिप्य ततः—उदकपात्रात् उदकमानीय एनां—वधूं मूर्द्धनि—मस्तकदेशे अभिषिञ्चति वरः "याते पतिघ्नी" इत्यादिना