परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 10, कुल 373 में से
संदर्भ में पढ़ेंभूतिकाराः म० म० श्रीतात्याशास्त्रिणः ! भूतिकारास्तु श्रीमन्तो महामहोपाध्यायाः तात्याशास्त्र्यपरनामधेयाः श्रीराम- कृष्णशास्त्रिणः चित्तपावन-'पटवर्धन'संज्ञके कुले जन्म लेभिरे । तेषां पूर्वे जाताः श्रीकृष्णभट्टसंज्ञकाः श्रीरेणुकाहृदयनन्दनेन रामेण जामदग्न्येन निर्मितं कोंकणप्रदेशे जनिं लब्ध्वा स्थित्वा च तत्र बहुकालं कुतश्चित् कारणात् तत्र विरज्य ततः प्रोष्य च नागपुरप्रान्त आगत्य तत्रत्यं नृपं 'भोसले'कुलदीपकं श्री'रघोजी'राजं सन्तोष्य तद्भाण्डागाराध्यक्षपदं परमप्रामाणिकतया भूषयाञ्चक्रुः । ततस्तत्पुत्रस्नुषया पति- वैधव्यदुःखदुःखितया अवार्या श्रो'बहिणाबाई'संज्ञकया विरज्य संसारात् काश्यामागत्य दुर्गाघट्टे प्रभूतद्रव्यव्ययेन निर्माय च शिवमन्दिरं तत्र वासोऽक्रियत । ततः प्रभृति पटवर्धनकुलं काशीस्थितं समजायत । अथ बहिणाबाई-देवरपौत्रो बालकृष्णभट्टो 'नारायण'संज्ञकं पुत्रमजीजनत् । स एव अस्मच्चरित्रनायकस्य पितामहः । श्रीनारायणभट्टतो बालम्भट्टस्य नागेश्वरभट्टस्य च जनिः समजनि । तत्र बालम्भट्टापरनाम्नो महादेवतो 'तात्याशास्त्रिणो' जन्म लेभिरे । बाल्य एव जानुचलनकाले दुर्दैववशतौ माता-पितृवियुक्तस्य अस्मच्चरित्रनायकस्य पितृव्येन श्रीनागेश्वरभट्टेन स्वसुतनिर्विशेषं पालनं विधाय तमष्टवर्षवयसि व्रतेन बन्धयित्वा सकल- शास्त्र शरण्यौ विद्वद्वरेण्यसरस्वत्यवतारभूत-श्रीबालशास्त्रिचरणौ संसेवयाञ्चक्राते । ततः सम्पादितविशिष्टवैदुष्यैः शास्त्रिवरैः द्वारभङ्गपाठशालायां ( दरभङ्गा-पाठशालायाम् ) कानिचिद्वर्षाणि अध्यापकपदमलङ्कारि । ततः राजकीय-पाठशालाध्यक्षैस्तदानीन्तनैः 'थिबो'महाशयैः सबहुमानमध्यापकपदमेतेभ्यः प्रादायि । तत्र दिगन्तविश्रान्तकीर्तीन् शताधिकान् विद्यार्थिनः पाठयित्वा अस्मच्चरित- नायकैः १९५४ मिते वैक्रमीये वर्षे 'भूति'रपूर्वा परिभाषेन्दुशेखर्टीका निरमीयत । शास्त्रिवराणां विशिष्टं वैदुष्यं दृष्ट्वा तदानीन्तनसम्राट्प्रतिनिधिना ईशवीये १९०९ वर्षे 'महामहोपाध्याय'पदवी एतेभ्यः समर्पिता । एवं ब्रह्मकर्मानुष्ठानचणैः शास्त्रिवरैः श्रीकाशीविश्वेशचरणौ संसेव्य वैक्रमे १९७६ वर्षे श्रीविश्वेशतनौ सायुज्यमलम्भि । शास्त्रिचरणानां निखिलशास्त्रेषु सर्वाधिकार इव व्यवहारविधावपि सर्वा- धिकार आसीत् । तत्रस्था अधिकारिणोऽप्येतेषां वैदुष्यं व्यवहारपाटवञ्च मुहुर्मुहुरनु- भवन्तः परं विस्मयं जग्मुः । शास्त्रिवराः मन्त्रशास्त्रेऽपि असाधारणमाधिपत्यं बिभ्रति स्म । सर्वेऽपि काशिका मन्त्रशास्त्रज्ञा अत्र विषये तेभ्यः सुपरिचिताः । एतेषां चत्वारः पुत्राः, तेषु ज्येष्ठपुत्रैः श्री पं० नारायणशास्त्रिभिः राजकीयविद्यालयीयांग्लविभागे अध्यापयद्भि रनेके 'संस्कृत-सोपान'प्रभृतयः प्राथमिक्रा ग्रन्थाः ग्रथिताः । एतेषां पुत्राः पुत्राः स्वर्गीयाः पण्डितश्रीविनायकरावसंज्ञकाः विशिष्टाम् ( M. Sc., Ph. D. ) परीक्षां समुत्तीर्यं मद्रप्रान्तीये केन्द्रीय-'न्यूट्रेशन रीसर्च लेबोरेटरी'-संस्थायां चिरं 'डाइरेक्टर'-पदमलङ्कुर्वन्तो देशे विदेशे च विविधशोधग्रन्थनिर्माणे सुख्याता अभवन् । तेषां त्रयः पुत्राः श्री माधव-वसन्ता-ऽविनाशाख्या अपि देश-विदेशेषु विशिष्टपदानि भूष- यन्तो विराजन्ते । द्वितीयपुत्राः स्वर्गीय-श्रीबालकृष्णशास्त्रिणः व्याकरणतीर्था अपि पितु- रनुरूपा एवाऽऽसन् । एतेषामेव पुत्राः मन्त्रशास्त्रे ज्योतिषशास्त्रे च पारम्परीणं प्रायोगिकं वैदुष्यं बिभ्राणाः श्रीवासुदेवशास्त्रिणः ग्रन्थस्यास्य प्रकाशकपदीमलङ्कुर्वन्तः पितृ-
- ८ -