भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 9, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 9

गृहे जीवनं निनाय। अस्य पुत्रो नाऽऽसीत्, एका पुत्री एवाऽऽसीत्। सा च काशीस्थे ‘देव’- नामककुले विवाहिता, अन्ते तस्यै एवायं स्वगृहं दानरूपेण ददौ। ‘देव’कुलस्थाः गृह- मिदं विक्रीय राजस्थानप्रदेशान्तर्गते ‘उदयपुरा’ख्ये भूतपूर्वराज्ये निवसन्ति। देव- कुलमिदं ‘मीमांसान्यायप्रकाश’कर्तुः श्रीमदापदेवस्य जन्मनाऽऽत्मनः सौभाग्यातिशय- मावहति। किंवदन्त्यनुसारमाषोडशवर्षं मल्लकीडादावेव अकर्मण्यभावेन निखिलोऽपि नीतः काल इति ज्ञायते। ततः परमेकस्यां पण्डितसभायामग्रस्थाने गत्वा उपविष्टस्तत्रस्थैः पण्डितैर्भृशं वाग्बाणैर्विद्धश्चायं तेषां पुरतः पण्डिताग्रत्व-प्राप्त्यर्थं प्रतिज्ञाय वाग्देवीं समुपास्य च श्रीभट्टोजीदीक्षितपौत्र-श्री हरिदीक्षित’-चरणौ संसेव्य शब्दादिशास्त्रे पारा- वारतामियात् । श्री रामरामभट्टाचार्य