भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 11, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 11

पितामहसरणिं रेखामात्रमपि अक्षुण्णां विदधतः संस्कृताध्येतॄणां हितायाविरतं प्रयतन्ते। तृतीयाः पुत्राः स्वर्गीयपण्डितश्रीधुण्डिराजशास्त्रिणः (भैयाशास्त्रिणः) आसन्। एतेषां त्रिषु पुत्रेषु श्रीविष्णु-राम-लक्ष्मणाख्येषु साम्प्रतं श्रीलक्ष्मणशास्त्रिणः सेवानिवृत्ताः विराजन्ते। तुरीया कनीयांसश्च पुत्राः श्री पं० वीरेश्वरशास्त्रिण आसन्। श्रीवीरेश्वर- शास्त्रिणां पुत्रौ श्रीपशुपतिशास्त्री (आबकारी अधीक्षक) श्रीनारायणशास्त्री (आई० ए० एस०) च राजकीयाधिकारिणौ कुलगौरवं वधयतः। तत्त्वप्रकाशिकाकाराः श्रीमोकाटेशास्त्रिणः ! अस्ति रक्त-द्विष्ट-क्रुद्ध-लुब्धादिमनुज-नक्रविषमात् संसारसागरात्मुक्तिकाङ्क्षिणां सतां जनानां शरणं देवानामपि वरेण्यं गङ्गातरङ्गभङ्गरञ्जितं सदा सदाशिवायुकतं मुक्तिप्रद क्षेत्रश्रेष्ठं वाराणसी नाम क्षेत्रम्। तत्र दक्षिणदेशीय-‘हैदराबाद’संस्थानान्तर्गत- ‘नान्देड’विभागीय-‘