परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 112, कुल 373 में से
संदर्भ में पढ़ें८२ परिभाषेन्दुशेखरः [ १ प्रकरणे- अत्रार्थः कल्पितान्वयव्यतिरेककल्पितः शास्त्रीयोऽपि गृह्यते इति ‘सङ्ख्याया’ इति सूत्रे भाष्ये स्पष्टम् । इयं वर्णग्रहणेषु नेति लस्येत्यत्र भाष्ये स्पष्टम् । अत एवैषा विशिष्ट- रूपोपादानविषयेति वृद्धाः । एतन्मूलकमेव येन विधिरित्यत्र भाष्ये पठ्यते—‘अलेवानर्थकेन तदन्तविधिरि’ति । ननु परिनिष्ठितस्य ‘प्रौढ’ इत्येतस्य तादृशबोधतात्पर्यकत्वम्, न त्ववयवस्येति ‘प्र + ऊढ’ इति दशायां निरुक्तार्थविशिष्टत्वस्य ऊढेत्यत्राभावेन सूत्रवैयर्थ्यमत आह—यत्रार्थ इति। कल्पितौ च तौ अन्वय-व्यतिरेकौ च, ताभ्यां कल्पित इति विग्रहः। तथा च तादृशतात्पर्यविशेष्यत्वस्य ऊढादिशब्दे कल्पनया सूत्रचारितार्थ्य- मिति भावः । यत्र तु तदतिरिक्तार्थस्याभानेन अन्वय-व्यतिरेककल्पनाया अप्यसम्भवः, यथा—‘यावक’ इत्यादौ, तत्र शास्त्रप्रक्रियानिर्वाहाय कल्पितोऽप्यर्थ एतत्परिभाषायां गृह्यते । तदेतदाह—शास्त्रीयेति । वर्णग्रहणेषु नेति। अयम्भावः—अकारादिवर्णानामर्थरहिते शुद्धतत्तद्वर्णादौ शक्तिरेका, वासुदेवादिस्वरूपेऽर्थे अवर्णादौ च खण्डशः शक्तिद्वितीया । तथा च ‘अत इञि’त्यादौ वासुदेवरूपेऽर्थे उपस्थिते इञ्प्रत्ययपरत्वावधित्वस्य बाधेऽप्यपरशक्त्या शुद्धवर्णरूपार्थे उपस्थिते तदवधित्वस्याबाधेन तत्रौत्सर्गिकस्यार्थविशेष्यत्वस्य त्यागे प्रमाणाभाव इति । लस्येत्यत्र भाष्ये स्पष्टमिति । तत्र हि ‘लुनाती’त्यत्र लादेश- माशङ्क्य ‘अर्थवद्ग्रहणे’परिभाषया समाधाय, वर्णग्रहणादर्थवत्परिभाषायाः प्रवृत्तिर्न स्यादिति स्पष्टमुक्तम् । ऊढादिशब्दे कल्पनयेति । अयम्भावः—लोके सुबन्तसत्त्वेऽर्थप्रतीतिः, तदभावे च तदप्रतीतिरित्पन्वयव्यतिरेकौ सुबन्त एव गृहीतौ स्तः। तथा च नैयायिकरीत्या आवापो- द्वापाभ्यां प्रातिपदिकेऽपि अन्वयव्यतिरेकौ प्रकल्पेते । तथा हि—‘घटमानय’ इत्युक्तौ ‘घटम्’ति पदस्य घटत्वावच्छिन्नघटकर्मत्वरूपोऽर्थः’ इति बोधो भवति । तदनन्तरं ‘घटेन जलमानय’ इत्युक्तौ घटपदं घटत्वावच्छिन्ने शक्तम्, अमिति कर्मत्वरूपेऽर्थे शक्तिमिति प्रतीतिर्भवति । एवंरीत्या आवापोद्वापाभ्यां प्रातिपदिके अन्वयव्यतिरेकौ कल्पयित्वा ताभ्यामर्थवत्त्वं प्रकल्प्यते । एतादृशा- न्वयव्यतिरेककल्पनापूर्वक़ार्थवत्त्वकल्पने मानमस्माकम् ‘अर्थवत्’सूत्रमेव । तदेतदाह मूले— कल्पितान्वयव्यतिरेकेत्यादिना । त्यागे प्रमाणाभाव इति । वर्णमात्रे शक्तिस्वीकारात् अर्थस्यानुपस्थितेरित्यपि बोध्यम् । ‘वर्णग्रहणे न प्रवर्तते’ इत्यस्य फलम् ‘उपेन्द्रः’ इत्यादौ ‘आद्गुणः’ इत्यादेः, ‘हरये’ इत्यादौ ‘एचोऽयवायावः’ इत्यादेश्च प्रवृत्तिसिद्धिः ; अन्यथा ‘औपगवे, रामे’ इत्यादावेव, ‘अयती’त्यादावेव च स्यादिति भावः ।