परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 113, कुल 373 में से
संदर्भ में पढ़ें१४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८३ किञ्च 'स्वं रूपमि'ति शास्त्रे स्वशब्देनात्मीयवाचिनाऽर्थो गृह्यते, रूप- शब्देन स्वरूपम् । एवञ्च तदुभयं शब्दस्य संज्ञीति तदर्थः । तत्रार्थो न विशेष्यस्तत्र शास्त्रीयकार्यासम्भवात्, किन्तु शब्दविशेषणम् । एवं चार्थ- विशिष्टः शब्दः संज्ञीति फलितम् । तेनैषा सिद्धेति भाष्ये स्पष्टम् ॥ १४ ॥ आत्मीयवाचिनेति । तथा च स्वजन्यबोधविषयत्वप्रकारकतात्पर्यविशेष्य एवार्थ आत्मीयत्वेनात्र स्वपदेन गृह्यते । भाष्ये स्पष्टमिति । परे तु—अस्याः परिभाषायाः सूत्ररूपत्वमेव युक्तं न तु युक्तिसिद्धत्वम्, 'प्रादूहोढे'त्यादौ उपस्थिताथंस्य कालिकादि- सम्बन्धेनाप्यन्वयसम्भवात् 'प्रोढवानि'त्यत्रापि तादृशोढशब्दस्य सत्त्वेन वृद्ध्या- पत्तिः । मम तु 'प्रोढवानि'त्यत्र आत्मीयार्थविशिष्टोढशब्दाभावेन वृद्धयप्राप्तिः सुलभा । किञ्च 'गोतो णिति'त्यादौ गोशब्देन अनेकार्थानामुपस्थितावपि 'सकृदुच्चरित'न्यायेन गोशब्दे एकस्यैवार्थस्यान्वयात् तद्वाचकगोशब्द एव 'गोतो णिति'त्यस्य प्रवृत्त्याऽपरार्थ- वाचकगोशब्दे तु प्रवृत्त्यर्थमावृत्तिः कल्पनीया स्यात् । मम तु गोशब्दस्य स्वस्वात्मीयार्थ- विशिष्टगोशब्दत्वावच्छिन्ने एकस्या एव शक्तेः 'स्वं रूपमि'त्यनेन बोधनाज्जातिपक्षे आवृत्तिमन्तरेव सिद्धिः । एवं 'यत्रि ञोश्चे'त्यत्रापि बोध्यमिति आहुः ॥ १४ ॥ भाष्यमतप्रतिपादनानन्तरं 'किञ्चे'त्यादिना सूत्रकारमतप्रतिपादनेन भाष्यमतापेक्षया सूत्रकृन्मतस्य युक्ततरत्वं ध्वनितं मूलकृता, तदेव स्फोरयति—परे त्विति । अयम्भावः— भाष्यमते नाऽपूर्वः सङ्केतः, अपि तु खण्डशक्त्योपस्थितस्यार्थस्य कालिकादिसम्बन्धेनाप्यन्वयः सम्भवत्येव । किञ्च—'गोतो णित्' इत्यत्र गोपदस्य नानाशक्तिकतया सकलार्थोपस्थितावपि 'सकृदुच्चरित'न्यायेन एकस्यैवार्थस्यान्वयेन तदर्थतात्पर्योच्चरितस्यैव गोशब्दस्य णित्प्रयुक्तं कार्यं स्यात् नान्यस्य, अतः शास्त्रस्य तन्त्रावृत्त्याश्रयणे भाष्यमते गौरवम् । सूत्रमते तु आत्मीयत्वेन सामान्यत अर्थोपस्थापकस्वपदोपादानेन यावदर्थस्य संज्ञित्वबोधनात् न 'सकृदुच्चरित'- न्यायविरोधः । नापि तन्त्रावृत्त्याश्रयणरूपं गौरवम् । नापि सूत्रमते कालिकादिसम्बन्धेन अर्थ- विशिष्टे शब्दे शक्तिः, यतो हि शब्दस्य स एवार्थ आत्मीयत्वेन व्यवह्रियते यदर्थविषयक- तात्पर्येण स उच्चार्यते । तस्मात् तेनैव सम्बन्धेन आत्मीयार्थविशिष्टे शब्दे शक्तिरिति । किञ्च-प्रत्ययानां प्रकृतिसमभिव्याहारे एवार्थोपस्थित्या 'यत्रि ञोश्च' इत्यादौ भाष्यमते अर्थानुपस्थितिरेव स्यात् । सूत्रमते तु तत्राप्यपूर्वसङ्केतबोधनेन तेनैवार्थोपस्थित्या न दोष- स्तदाऽऽह-एवं यत्रि ञोश्चेत्यत्रापीति । यद्यपि 'गोत्रे कुञ्जादिभ्यः' इत्यतो गोत्रे इत्यनुवृत्त्या 'गोत्रे यो यञिञो' इत्याद्यर्थकरणेन नात्र दोषः ; तथापीदमुपलक्षणं 'केऽण' इत्यस्य । तत्रानर्थ- कस्यापि कशब्दस्य ग्रहणे 'योष्माकः, रमाकल्पम्, एकः' इत्यादिषु के परतो ह्रस्वापत्तिरिति बोध्यम् । एवं स्थिते उक्तसूत्रप्रत्याख्यानमेकदेश्युक्तिरिति भावः । वस्तुतस्तु—अत्र भाष्यमपि रमणीयमेव । अर्थस्य शब्दे कालिकादिनाऽन्वयसम्भवेऽपि अत्र शास्त्रे 'सर्वादेः सादेश्व' इत्यत्र सर्वादिग्रहणसामर्थ्यात् भाष्यमतेऽपि स्वविषयकबोधजनकत्व- प्रकारकतात्पर्यविशेष्यतापर्याप्त्यधिकरणत्वमेव सम्बन्धोऽङ्गीक्रियते । एवञ्च ऊढवद्घटकोढशब्दे