भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

८२ परिभाषेन्दुशेखरः [ १ प्रकरणे- अत्रार्थः कल्पितान्वयव्यतिरेककल्पितः शास्त्रीयोऽपि गृह्यते इति ‘सङ्ख्याया’ इति सूत्रे भाष्ये स्पष्टम् । इयं वर्णग्रहणेषु नेति लस्येत्यत्र भाष्ये स्पष्टम् । अत एवैषा विशिष्ट- रूपोपादानविषयेति वृद्धाः । एतन्मूलकमेव येन विधिरित्यत्र भाष्ये पठ्यते—‘अलेवानर्थकेन तदन्तविधिरि’ति । ननु परिनिष्ठितस्य ‘प्रौढ’ इत्येतस्य तादृशबोधतात्पर्यकत्वम्, न त्ववयवस्येति ‘प्र + ऊढ’ इति दशायां निरुक्तार्थविशिष्टत्वस्य ऊढेत्यत्राभावेन सूत्रवैयर्थ्यमत आह—यत्रार्थ इति। कल्पितौ च तौ अन्वय-व्यतिरेकौ च, ताभ्यां कल्पित इति विग्रहः। तथा च तादृशतात्पर्यविशेष्यत्वस्य ऊढादिशब्दे कल्पनया सूत्रचारितार्थ्य- मिति भावः । यत्र तु तदतिरिक्तार्थस्याभानेन अन्वय-व्यतिरेककल्पनाया अप्यसम्भवः, यथा—‘यावक’ इत्यादौ, तत्र शास्त्रप्रक्रियानिर्वाहाय कल्पितोऽप्यर्थ एतत्परिभाषायां गृह्यते । तदेतदाह—शास्त्रीयेति । वर्णग्रहणेषु नेति। अयम्भावः—अकारादिवर्णानामर्थरहिते शुद्धतत्तद्वर्णादौ शक्तिरेका, वासुदेवादिस्वरूपेऽर्थे अवर्णादौ च खण्डशः शक्तिद्वितीया । तथा च ‘अत इञि’त्यादौ वासुदेवरूपेऽर्थे उपस्थिते इञ्प्रत्ययपरत्वावधित्वस्य बाधेऽप्यपरशक्त्या शुद्धवर्णरूपार्थे उपस्थिते तदवधित्वस्याबाधेन तत्रौत्सर्गिकस्यार्थविशेष्यत्वस्य त्यागे प्रमाणाभाव इति । लस्येत्यत्र भाष्ये स्पष्टमिति । तत्र हि ‘लुनाती’त्यत्र लादेश- माशङ्क्य ‘अर्थवद्ग्रहणे’परिभाषया समाधाय, वर्णग्रहणादर्थवत्परिभाषायाः प्रवृत्तिर्न स्यादिति स्पष्टमुक्तम् । ऊढादिशब्दे कल्पनयेति । अयम्भावः—लोके सुबन्तसत्त्वेऽर्थप्रतीतिः, तदभावे च तदप्रतीतिरित्पन्वयव्यतिरेकौ सुबन्त एव गृहीतौ स्तः। तथा च नैयायिकरीत्या आवापो- द्वापाभ्यां प्रातिपदिकेऽपि अन्वयव्यतिरेकौ प्रकल्पेते । तथा हि—‘घटमानय’ इत्युक्तौ ‘घटम्’ति पदस्य घटत्वावच्छिन्नघटकर्मत्वरूपोऽर्थः’ इति बोधो भवति । तदनन्तरं ‘घटेन जलमानय’ इत्युक्तौ घटपदं घटत्वावच्छिन्ने शक्तम्, अमिति कर्मत्वरूपेऽर्थे शक्तिमिति प्रतीतिर्भवति । एवंरीत्या आवापोद्वापाभ्यां प्रातिपदिके अन्वयव्यतिरेकौ कल्पयित्वा ताभ्यामर्थवत्त्वं प्रकल्प्यते । एतादृशा- न्वयव्यतिरेककल्पनापूर्वक़ार्थवत्त्वकल्पने मानमस्माकम् ‘अर्थवत्’सूत्रमेव । तदेतदाह मूले— कल्पितान्वयव्यतिरेकेत्यादिना । त्यागे प्रमाणाभाव इति । वर्णमात्रे शक्तिस्वीकारात् अर्थस्यानुपस्थितेरित्यपि बोध्यम् । ‘वर्णग्रहणे न प्रवर्तते’ इत्यस्य फलम् ‘उपेन्द्रः’ इत्यादौ ‘आद्गुणः’ इत्यादेः, ‘हरये’ इत्यादौ ‘एचोऽयवायावः’ इत्यादेश्च प्रवृत्तिसिद्धिः ; अन्यथा ‘औपगवे, रामे’ इत्यादावेव, ‘अयती’त्यादावेव च स्यादिति भावः ।

१४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८३ किञ्च 'स्वं रूपमि'ति शास्त्रे स्वशब्देनात्मीयवाचिनाऽर्थो गृह्यते, रूप- शब्देन स्वरूपम् । एवञ्च तदुभयं शब्दस्य संज्ञीति तदर्थः । तत्रार्थो न विशेष्यस्तत्र शास्त्रीयकार्यासम्भवात्, किन्तु शब्दविशेषणम् । एवं चार्थ- विशिष्टः शब्दः संज्ञीति फलितम् । तेनैषा सिद्धेति भाष्ये स्पष्टम् ॥ १४ ॥ आत्मीयवाचिनेति । तथा च स्वजन्यबोधविषयत्वप्रकारकतात्पर्यविशेष्य एवार्थ आत्मीयत्वेनात्र स्वपदेन गृह्यते । भाष्ये स्पष्टमिति । परे तु—अस्याः परिभाषायाः सूत्ररूपत्वमेव युक्तं न तु युक्तिसिद्धत्वम्, 'प्रादूहोढे'त्यादौ उपस्थिताथंस्य कालिकादि- सम्बन्धेनाप्यन्वयसम्भवात् 'प्रोढवानि'त्यत्रापि तादृशोढशब्दस्य सत्त्वेन वृद्ध्या- पत्तिः । मम तु 'प्रोढवानि'त्यत्र आत्मीयार्थविशिष्टोढशब्दाभावेन वृद्धयप्राप्तिः सुलभा । किञ्च 'गोतो णिति'त्यादौ गोशब्देन अनेकार्थानामुपस्थितावपि 'सकृदुच्चरित'न्यायेन गोशब्दे एकस्यैवार्थस्यान्वयात् तद्वाचकगोशब्द एव 'गोतो णिति'त्यस्य प्रवृत्त्याऽपरार्थ- वाचकगोशब्दे तु प्रवृत्त्यर्थमावृत्तिः कल्पनीया स्यात् । मम तु गोशब्दस्य स्वस्वात्मीयार्थ- विशिष्टगोशब्दत्वावच्छिन्ने एकस्या एव शक्तेः 'स्वं रूपमि'त्यनेन बोधनाज्जातिपक्षे आवृत्तिमन्तरेव सिद्धिः । एवं 'यत्रि ञोश्चे'त्यत्रापि बोध्यमिति आहुः ॥ १४ ॥ भाष्यमतप्रतिपादनानन्तरं 'किञ्चे'त्यादिना सूत्रकारमतप्रतिपादनेन भाष्यमतापेक्षया सूत्रकृन्मतस्य युक्ततरत्वं ध्वनितं मूलकृता, तदेव स्फोरयति—परे त्विति । अयम्भावः— भाष्यमते नाऽपूर्वः सङ्केतः, अपि तु खण्डशक्त्योपस्थितस्यार्थस्य कालिकादिसम्बन्धेनाप्यन्वयः सम्भवत्येव । किञ्च—'गोतो णित्' इत्यत्र गोपदस्य नानाशक्तिकतया सकलार्थोपस्थितावपि 'सकृदुच्चरित'न्यायेन एकस्यैवार्थस्यान्वयेन तदर्थतात्पर्योच्चरितस्यैव गोशब्दस्य णित्प्रयुक्तं कार्यं स्यात् नान्यस्य, अतः शास्त्रस्य तन्त्रावृत्त्याश्रयणे भाष्यमते गौरवम् । सूत्रमते तु आत्मीयत्वेन सामान्यत अर्थोपस्थापकस्वपदोपादानेन यावदर्थस्य संज्ञित्वबोधनात् न 'सकृदुच्चरित'- न्यायविरोधः । नापि तन्त्रावृत्त्याश्रयणरूपं गौरवम् । नापि सूत्रमते कालिकादिसम्बन्धेन अर्थ- विशिष्टे शब्दे शक्तिः, यतो हि शब्दस्य स एवार्थ आत्मीयत्वेन व्यवह्रियते यदर्थविषयक- तात्पर्येण स उच्चार्यते । तस्मात् तेनैव सम्बन्धेन आत्मीयार्थविशिष्टे शब्दे शक्तिरिति । किञ्च-प्रत्ययानां प्रकृतिसमभिव्याहारे एवार्थोपस्थित्या 'यत्रि ञोश्च' इत्यादौ भाष्यमते अर्थानुपस्थितिरेव स्यात् । सूत्रमते तु तत्राप्यपूर्वसङ्केतबोधनेन तेनैवार्थोपस्थित्या न दोष- स्तदाऽऽह-एवं यत्रि ञोश्चेत्यत्रापीति । यद्यपि 'गोत्रे कुञ्जादिभ्यः' इत्यतो गोत्रे इत्यनुवृत्त्या 'गोत्रे यो यञिञो' इत्याद्यर्थकरणेन नात्र दोषः ; तथापीदमुपलक्षणं 'केऽण' इत्यस्य । तत्रानर्थ- कस्यापि कशब्दस्य ग्रहणे 'योष्माकः, रमाकल्पम्, एकः' इत्यादिषु के परतो ह्रस्वापत्तिरिति बोध्यम् । एवं स्थिते उक्तसूत्रप्रत्याख्यानमेकदेश्युक्तिरिति भावः । वस्तुतस्तु—अत्र भाष्यमपि रमणीयमेव । अर्थस्य शब्दे कालिकादिनाऽन्वयसम्भवेऽपि अत्र शास्त्रे 'सर्वादेः सादेश्व' इत्यत्र सर्वादिग्रहणसामर्थ्यात् भाष्यमतेऽपि स्वविषयकबोधजनकत्व- प्रकारकतात्पर्यविशेष्यतापर्याप्त्यधिकरणत्वमेव सम्बन्धोऽङ्गीक्रियते । एवञ्च ऊढवद्घटकोढशब्दे

२४ परिभाषेन्दुशेखरः [ १ प्रकरणे- नन्वेवमपि 'महद्भूतश्चन्द्रमा' इत्यत्र 'आन्महत' इत्यात्वापत्तिरत आह- । गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः ॥ १५ ॥ -: ० :- गुणादागतो गौणः । यथा गोशब्दस्य जाड्यादिगुणनिमित्तोऽर्थो वाहीकः। अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुद्ध्यते । मुखमिव प्रधान- त्वान्मुख्यः = प्रथम इत्यर्थः । गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुख्यार्थारोपेण एवम् = 'अर्थवद्ग्रहण'परिभाषास्वीकारे । महद्भूतः = आरोपितमहत्त्वविशिष्ट इत्यर्थः । गुणादागत इति । तद्वृत्तिगुणसत्ताप्रयोज्यारोपविषयीभूत इत्यर्थः। यथा- गोवृत्तिजाड्यादिगुणसत्ताप्रयोज्यारोपविषयीभूतगोत्वादिर्थो गौणः। तद्वृत्तिगुणानां सत्ता च वास्तविकी आरोपिता चेत्युभयविधा ग्राह्या; संज्ञादावारोपिता गुणसत्ता, वाहीके च गोवृत्तिजाड्यादिगुणानां सत्ता वास्तविकीति विवेकः । तदेवाह-तद्गुणारोपा- दिति । गौणे ह्यर्थे = वाहीकादौ । प्रयुज्यमानः शब्दः = गोशब्दः । मुख्यार्थारोपेण = गोत्वा- रोपेण, प्रवर्तते । तथा च 'गौर्वाहीक' इत्यस्य आरोपितगोत्ववान् वाहीक इत्यर्थः। तादृशतात्पर्याभावेन अर्थवत्त्वाभावान्न काप्यनुपपत्तिः । 'प्रत्ययेनार्थबोधे जननीये प्रकृतिसमभि- व्याहारस्य कारणते'ति व्युत्पत्तौ 'प्रत्ययेनाऽर्थविशेष्यकबोधे' इति निवेश्यते, तेनार्थविशेष्यकबोधा- भावान्नानुपपत्तिः 'केऽण' इत्यादौ । 'गोतो णित्' इत्यादौ तु पाणिनिमते 'अणुदित्' सूत्रेऽण्- ग्रहणात् व्यक्तिपक्षस्यैव सत्त्वात् प्रतिलक्ष्यं लक्षणोपप्लव एव । तद्रीत्यैव च 'स्वं रूपम्'ति सूत्रं प्रत्याख्यायते भगवता इति उभयोरपि गौरवं समानमेव । तस्मादत्रस्थं भाष्यमपि वरमिति दिक् ॥ १४ ॥ तद्वृत्तिगुणसत्तेत्यादिः । अत्र गुणपदं गुणसदृशगुणपरम्, तत्पदेन च गौर्गृह्यते; तथा च गोवृत्तयो ये जाड्यादिगुणाः, तत्सदृशा गुणा वाहीकवृत्तयो जाड्यादयः, तत्सत्ताप्रयोज्य आरोपः 'गोत्ववानयम्' इत्याकारकमाहार्यज्ञानम्, तद्विषयत्वं गोत्ववाहीकयोरित्युभयोरपि गौणत्वं भवतीति भावः । तदाऽऽह-यथेति । अत्रापि जाड्यादिगुणपदं तत्सदृशजाड्यादिपरम् । गोत्वादिरिति । आदिना वाहीकस्यापि सङ्ग्रहः । मूलेऽपि 'गुणनिमित्तोऽर्थो वाहीकः' इति ग्रन्थः 'अर्थपदोत्तरं गोत्वेन प्रतीतिविषयः' इत्यध्याहारेण योजनीयः; आरोपविषयत्वाविषयत्वेन च एकमेव गोत्वं गौणं मुख्यमिति च व्यवह्रियत इति न कोऽपि दोषः । यत्तु-गोपदात् वाहीकमात्रं प्रतीयते । तन्न ; तथाऽप्रतीतेः, तत्त्वेन प्रतीतौ 'गौर्वाहीकः' इति सहप्रयोगासम्भवाच्च । मूले-अप्रसिद्धश्च संज्ञादिरपीति । अत्र कर्मणि 'आतश्चोपसर्गे' इति अङ्, तेन संज्ञीयतार्थः । आदिनाऽनुकरणपरिग्रहः । अत एव 'युष्मद्युपपदे' इत्यादौ 'त्वमावेकवचने' इत्यादिर्न भवति । यद्वा-संज्ञा आदिः= प्रथमबोधको यस्य स संज्ञीत्यर्थः । अत्रपक्षेऽपिरनुकरण- समुच्चायको बोध्य इति पण्डिताः । वस्तुतः-'संज्ञायादिरपी'त्येव पाठः सुगमः । परिभाषायां मानमुद्घाटयति मूले-गौणे ह्यर्थ इति । मुख्यार्थारोपाय तदर्थस्य समुप-

! विशिष्टार्थ-उपस्थापकं विशिष्ट-रूपं! Look at how both words have "विशिष्ट"!

  1. "विशिष्टार्थोपस्थापकं"
  2. "विशिष्टरूपं" That is so natural in Sanskrit! Wait, what about the Paribhashendushekhara? In Paribhashendushekhara, Paribhasha 15: Let's recall the exact text of Paribhashendushekhara Paribhasha 15: "किञ्चायं न्यायो न प्रातिपदिककार्ये, किन्तु उपात्तविशिष्यार्थोपस्थापकविशिष्टरूपं यत्र तादृशपदकार्य एव ।" Wait, in Paribhashendushekhara, is it "उपात्तविशिष्यार्थोपस्थापकविशिष्टरूपं"? Yes, in some editions: "उपात्तविशिष्टार्थोपस्थापकविशिष्टरूपं" is a known variant, or "उपात्तविशिष्यार्थोपस्थापक"! Wait, what does our book actually print? Look at the letter: is it ष्ट or ष्य? Wait, look at line 6, right below it: "स्थापकं विशिष्टरूपं यत्र" Look at "विशिष्टरूपं" in line 6: The word is definitely "विशिष्टरूपं". In line 5: Is it "विशिष्टार्थोप-"? Look at the ष्ट: It has

८६ परिभाषेन्दुशेखरः [ १ प्रकरणे- 'गोर्वाहीक' इत्यादौ गौणत्वप्रतीतिर्न तु प्रातिपदिकसंस्कारवेलायामित्यन्त- रङ्गत्वाज्जातसंस्कारबाधायोगः प्रातिपदिककार्ये प्रवृत्त्यभावे बीजम् । श्वशुरसदृशस्यापत्यमित्यर्थके 'श्वाशुरिरि'त्यादावत इजः सिद्धये उपात्त- मित्यादि । न च प्रातिपदिकपदं तादृशमिति वाच्यम् ; तेन हि प्रातिपदिकपद- अन्तरङ्गत्वादिति । अस्य तत्रेति शेषः । अयम्भावः—'गोर्वाहीक' इतिवत् परिनिष्ठितस्य यत्र पदान्तरसम्बन्धे गौणत्वप्रतीतिः 'अग्निसोमौ, माणवकावि'त्यत्र, न तु प्रातिपदिकसंस्कारवेलायां समासात् प्राक् प्रत्येकमग्निसोमपदयोः, तत्र पदान्तर- सम्बन्धात्प्राक् ईत्व-षत्वादिरूपजातसंस्कारबाधायोगः इत्येतत् तत्र प्रातिपदिककार्ये प्रवृत्त्यभावे बीजम् । यत्र तु प्रातिपदिकसं

१५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८७ वत्त्वेनोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात् । निपातपदं तु चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यविधायके 'ओदि'त्यादौ एतत्प्रवृत्त्या 'गोऽभवदि'त्यादौ दोषो न । केचित्तु—विभक्तिसामान्यानिमित्तकत्वं पदकार्यत्वम् ; 'भुवो वुगि'त्यस्य तिङ्-विभक्तिनिमित्तकत्वेन पदकार्यत्वाभावात्परिभाषाया अप्रवृत्त्या वुकि 'बभूवे'त्येव रूपमिति वदन्ति । अन्येषां पदकार्यत्वलक्षणानि विस्तरभयान्न दूषितानि । विशिष्यार्थोपस्थापकत्वाभावादिति । आनुपूर्व्या साक्षादवच्छिन्नमुख्यविशेष्यता- प्रयोजकपद एव एतन्न्यायस्य प्रवृत्त्या प्रातिपदिकपदस्य सङ्केतसम्बन्धेन प्रातिपदिक- पदवति शक्तेः प्रातिपदिकपदनिष्ठविशेष्यतायाः प्रातिपदिकशब्दत्वरूपानुपूर्व्या साक्षाद- वच्छिन्नत्वेऽपि तद्वन्निष्ठविशेष्यता निरूपितप्रकारतासामानाधिकरण्येन तस्या मुख्यत्वा- भावात् प्रातिपदिकपदवन्निष्ठविशेष्यताया मुख्यत्वेऽपि प्रातिपदिकशब्दत्वरूपाऽऽनुपूर्व्या साक्षादवच्छिन्नत्वा भावेन प्रातिपदिकपदस्य तथात्वाभावात् । निपातपदस्य तु निपात- पदवत्त्वोपलक्षितचाद्यन्यतमत्वावच्छिन्ने शक्ते तत्प्रयोज्यमुख्यविशेष्यतायाः चादित्व- रूपानुपूर्व्या साक्षादवच्छिन्नत्वेन तस्य तत्त्वम् । केचित्तु—विभक्तिसामान्यानिमित्तकत्वं पदकार्यत्वमिति । न चैवं गौरसदृशार्थक-गौर- शब्दे ङीष् न स्यादिति वाच्यम् ; 'शूद्रा च' इति वार्त्तिके जातिग्रहणेन स्त्रीप्रत्यये गौणमुख्य- न्यायाप्रवृत्तेः । तत्र जातिग्रहणं हि 'शूद्रस्य स्त्री, शूद्री' इत्यादौ टापोऽप्रवृत्तये । स्त्रीप्रत्ययेषु गौण- मुख्यन्यायप्रवृत्त्यङ्गीकारे तु तेनैव वारणे तद्ग्रहणं व्यर्थमेव स्यादिति भावः । नन्वेवमपि टीकोक्तं पदकार्यत्वलक्षणमसङ्गतम् ; 'त्वद्भवति' इत्यत्र स्त्रीत्वानिमित्तकत्वेन सुब्निमित्तकत्वेन च केषाञ्चिन्मतेऽपि विभक्त्यनिमित्तकत्वेन च पदकार्यतया गौणमुख्यन्यायप्रवृत्त्या 'प्रत्ययोत्तरपदयोश्च' इत्यनेन त्वादेशानापत्तेरिति चेन्न । 'प्रत्ययोत्तरपदयोश्च' इत्येतस्यापि विभक्तिनिमित्तकत्वात् । विवेचयिष्यते चेदम् 'अन्तरङ्गानपि' इति परिभाषाव्याख्यानावसरे । हैमवतीकारास्तु—स्त्रीत्वानिमित्तकत्वे सति . प्रातिपदिकप्रकृतिक-प्रत्ययमात्रनिमित्तकत्वं पदकार्यत्वम् । अत एव 'भूरिव आचचार, बुभाव' इत्यस्य सिद्धिरिति वदन्ति । लघुजटाजूटकारास्तु—पदात्परत्वव्याप्यविषयताप्रयोजकपदघटितशास्त्रविधेयत्वं पद- कार्यत्वमित्याहुः । चादित्वरूपाऽऽनुपूर्व्या साक्षादवच्छिन्नेति । साक्षादवच्छिन्नत्वम्-स्वावच्छिन्नत्वे सति स्वावच्छिन्नावच्छेदकतानिरूपितावच्छेद्यत्वाभाववत्त्वम् । 'चादित्वे'त्यस्य चत्व वात्वेत्याद्यर्थः । अन्यतमत्वञ्च—स्व निष्ठभेदप्रतियोगितावच्छेदकतावच्छेदकीभूतभेदप्रतियोगितावच्छेदकधर्मवत्त्वमेव ; तद्धि चत्वादिरूपमेव, तेन च साक्षादवच्छिन्नमुख्यविशेष्यताप्रयोजकत्वं निपातस्य । निपातपदवत्ता

'अग्नीषोमो, माणवकावि'त्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वेऽप्यन्तरङ्गत्वादीत्वषत्वे भवत एव । सदृशलाक्षणिकाऽग्नि- सोमपयोर्द्वन्द्वे तन्नामकावित्यर्थके च नेत्वषत्वे ; आद्ये गौणलाक्षणिकत्वाद् अन्त्येऽप्रसिद्धत्वात् । अत एव 'अग्निसोमौ, माणवकावि'त्यत्र गौणमुख्य- न्यायेन षत्ववारणपरम् 'अग्नेः स्तुत्स्तोमसोमा' इति सूत्रस्थं भाष्यं सङ्गच्छते । 'गां पाठये'त्यादौ मुख्यगोपदार्थस्य पाठनकर्मत्वासम्भवेन विभक्त्यु- त्पत्तिवेलायां प्रयोक्तृभिर्गौणार्थत्वस्य प्रतीतावपि अपदस्याप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थकत्वस्य ग्रहेण 'अत्वं त्वं सम्पद्यते, अमहान्, महान्-भूत स्तवद्भवती'त्यादिभाष्यप्रयोगे त्वाद्यादेशदीर्घादीनां करणेन चास्य न्यायस्य पदकार्यविषयत्वमेवोचितम् । अन्यथा वाक्यसंस्कारपक्षे तेषु तदनापत्तिः । किञ्च 'शुक्लामि'त्युक्ते 'कर्म निर्दिष्टं कर्त्ता क्रिया चानिर्दिष्टे' इत्या- द्युक्त्वा 'इहेदानीं गामभ्याज कृष्णां देवदत्ते'त्यादौ सर्वं निर्दिष्टं गामेव तत्सदृशपरत्वेऽपीति । अग्निपदस्य सोमपदस्य च तत्सदृशपरत्वाभावेन मुख्यार्थ- बोधकत्वादीत्वादिप्रवृत्तौ बाधकाभाव इति भावः । एतन्न्यायस्य पदकार्ये एव प्रवृत्तिरित्यत्र बीजमुपपादयति—गां पाठयेत्यादि । शास्त्रे वास्तविकसत्ताया अनुपयोगेन गौणार्थप्रतिपादकत्वप्रकारकज्ञानस्यैव गौण- मुख्यन्यायप्रवृत्तिप्रयोजकतया बोद्धृभिः सर्वत्र पदस्यैव गौणार्थत्वग्रहणस्य पदकार्य- विषयत्वमुचितमिति भावः । नन्वेवम् 'अग्निसोमौ, माणवकावि'त्यत्रापि बोद्ध

१५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ८९ कर्म देवदत्त एव कर्त्ता अभ्याजैव क्रिये'त्यर्थकेन अर्थवत्सूत्रस्थभाष्येण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाऽध्याहारे प्रसक्ते नियमार्थः क्रियावाच- कादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफलाश्रयत्वमात्र- विवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियाऽन्वय- काले पदस्यैव गौणार्थत्वप्रतीतिः प्रयोक्तुरपि । एवमेतन्मूलकः 'अभिव्यक्तपदार्था ये' इति श्लोकोऽपि पदकार्य- विषयकः । ध्वनितं चेदं 'सर्वादीनी'ति सूत्रे संज्ञाभूतानां प्रतिषेध- शब्दकदम्बकं भाष्योक्तं कर्त्ता क्रिया चेत्येवमादिकर्मनिर्दिष्टे इत्येवमादिकं चोक्तवे- त्यर्थः। 'कर्ता क्रिया चे'त्यादिना 'कर्ता क्रिया चानिर्दिष्टौ, देवदत्त इत्युक्ते कर्ता निर्दिष्टः कर्मक्रिये' इत्येतदन्तस्य शब्दकदम्बकस्य सङ्ग्रहः । 'अनिर्दिष्ट' इत्यादिना अनिर्दिष्टे अभ्याजेत्युक्ते 'क्रिया निर्दिष्टा कर्तृकर्मणी अनिर्दिष्टे' इत्यस्य सङ्ग्रहः । प्रयोक्तुरपीति । एतदन्तो ग्रन्थः काकदन्तपरीक्षावत् निष्फल एव । केवलम् 'अत्वं त्वं संपद्यते, अमहान् महान्भूत' इत्यादिभाष्यमेव पदकार्य एतन्न्यायस्य प्रवृत्तौ बीजम् । ध्वनितं चेदमिति । इदम्=अस्य न्यायस्य पदकार्यविषयत्वम् । अन्यथा गौणमुख्यन्यायेनैव सिद्धे सूत्रकारादिप्रयासो व्यर्थ एव स्यात् । सर्वनामसंज्ञाया विभक्तिनिमित्तकत्वं च संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वाद् बोध्यम् । केचित्तु- न प्रातिपदिककार्ये इति 'सर्वविधप्रातिपदिककार्येष्वयं न्यायो न प्रवर्त्तते' इत्यर्थः । ननु तर्हि कीदृशप्रातिपदिककार्ये प्रवर्त्तते ; तत्राऽऽह-किञ्चेति । विशिष्यार्थेति । 'अन्वयानुपपत्तिप्रतिसन्धानाभावे यत्प्रातिपदिकं सहशलक्ष्यार्थबोधकं अत्रेदं चिन्तनीयम्- "किञ्चायं न्यायो न प्रातिपदिककार्ये" इत्यादिग्रन्थः पूर्वसन्दर्भंविरुद्धः; तथा हि 'आन्महत' इत्यात्वस्यापि प्रातिपदिकसम्बन्धिकार्यत्वेन प्रातिपदिककार्यतया तत्र न्यायाप्रवृत्त्याऽवतरणासङ्गतः । यदि तु पदकार्यभिन्नं प्रातिपदिककार्यमिति तात्पर्यम् ; तदा 'परिनिष्ठितस्ये'त्यादिना प्रातिपदिककार्ये प्रवृत्त्यभावे बीजकथनासङ्गतिः, पदकार्ये एव प्रवृत्तौ बीजकथनेनैव तद्भिन्ने प्रातिपदिककार्ये प्रवृत्त्यभावस्य सुतरां सिद्धेः । किञ्च 'प्रातिपदिककार्ये न प्रवर्त्तते' इत्यस्य न किमपि फलम्; पदकार्ये एव प्रवर्त्तत इत्युक्त्यैव 'गौर्वाहीकः' इत्यस्य सिद्धेः। अपि च पदकार्ये बीजकथनमध्यसङ्गतम् । नहि सर्वत्र अन्वयानुपपत्तिरेव लक्षणाया बीजम्, यत्र तात्पर्यानु- पपत्त्या पूर्वमेव गोसदृशतात्पर्येण गवादिनां प्रयोगस्तत्र गौणार्थत्वग्रहस्य प्रयोक्तुरपि पूर्वं सम्भवात् । तस्मात् सूत्र-वार्तिक-भाष्यप्रामाण्यादेव 'पदकार्ये एवायं न्यायः प्रवर्त्तते' इत्येवं कल्पनीयमित्या- द्याक्षिपन्ति ग्रन्थतत्त्वविदः । तत्समाधातुमुपक्रमते- केचित्त्विति । व्याख्यानं सुगमम् । मूले- एतन्मूलकः 'अभिव्यक्तपदार्था ये' इति श्लोकोऽपीति । एतन्मूलकः = गौणमुख्यन्यायमूलक इत्यर्थः । समग्रश्लोकश्चेत्थम् - १२

९० परिभाषेन्दुशेखरः [ १ प्रकरणे- मारभता वार्तिककृता, 'पूर्वंपरे'ति सूत्रे 'असंज्ञायामि'ति वदता सूत्रकृता, अन्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भाष्यकृता च । तत्र, विशिष्टरूपोपादाने, पदकार्ये च' इत्येवं त्रितयसमवहितप्रातिपदिककार्ये प्रवर्त्तते इति भावः । अत्रार्थे बीजमाह—परिनिष्ठितस्येति । गौर्वाहीक इति । अत्र हि वाहीके- ऽन्वयानुपपत्तिप्रतिसन्धानादेव गोशब्दस्य स्वार्थसदृशलक्ष्यार्थबोधकत्वेन न्यायस्य विषयाभावात्पूर्वमेवान्तरङ्गत्वात् वृद्धिप्रवृत्तिः । एवम् अग्नीषोमौ, माणवकावि'त्यत्र बोध्यम् । यत्र त्वग्निसोमपदयोरन्वयानुपपत्तिप्रतिसन्धानात्प्रागेव सदृशलाक्षणिकत्व- ग्रहस्तत्र एतन्न्यायेन इत्वादिष्यावृत्तिः सिद्धा । नन्वेवं 'गां पाठये'त्यत्रापि सुवचमित्यत आह—गां पाठयेति

१५-१६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९१ अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्त्वे इति ‘ओत्’- सूत्रस्थभाष्यस्य लौकिकार्थवत्त्वयोग्यपदाश्रय एष न्यायस्तद्रहितशब्दाश्रये च ते इत्यर्थः । ‘गोत’ इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्त्वेन उक्तरीत्यैव एतस्य भाष्यस्य व्याख्येयत्वादित्यलम् ॥ १५ ॥ अर्थवद्ग्रहणे इत्यस्यापवादमाह— अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ १६ ॥ —: ✤ :— ‘येन विधिरि’त्यत्र भाष्ये वचनरूपेण पठितैषा, तेन ‘राज्ञा, साम्ने’- त्यादौ अल्लोपः, ‘दण्डी, वाग्मी’त्यादौ ‘इन् हन्नि’ति नियमः, ‘सुपयाः, कल्पना भाष्यकारानभिप्रेतेत्यत आह—अर्थाश्रय इति । विशिष्टरूपोपादानसत्त्वेनेति । ‘आ गोतोऽम्शसोरि’ति पाठाभिप्रायेणेदं भाष्यमिति भावः॥ १५॥ अर्थवता चानर्थकेन चेति । प्रकृत्यादित्वादभेदे तृतीया । अर्थवदनर्थकाभिन्नं यत्तत् ; तन्निष्ठचरमावयवतानिरूपकसमुदायबोधकानि अनिनस्मन्ग्रहणानीति परिभाषार्थः । यद्वा—अर्थवन्ति अनर्थकानि च तदन्तविधिं प्रयुञ्जते—अनिनस्मन्ग्रहणानि अर्थवता चानर्थकेन प्रयोज्यकर्त्रा तदन्तविधिं प्रयोजयन्तीत्यर्थः । वचनरूपेणेति । ‘अवर्मण’ इति प्रतिषेधोऽस्यामेकदेशानुमत्या ज्ञापकः; अन्यथा वर्मन्शब्दघटकस्यानोऽनर्थकत्वेन ‘नमपूर्व’ इति प्रतिषेधाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेव । कार्यत्वाभावेन तदप्राप्तेरत आह मूले—अर्थाश्रये एतदेवं भवतीत्यादिः। ‘अर्थाश्रये’ इत्यत्र अर्थपदं लौकिकार्थवत्त्वयोग्यपदपरमिति भावः ॥ १५ ॥ अत्र मूले ‘राज्ञा, साम्ने’त्यादीनि उदाहरणानि दत्तानि । अव्युत्पत्तिपक्षे तु ‘राज्ञा’ इत्यपि अनर्थकस्यैवान उदाहरणमिति चेत् ; ‘सुजम्ना’ इत्यनोऽर्थवत् उदाहरणं बोध्यम् । मूले—दण्डी, वाग्मीति । इदमुपलक्षणम्—‘दण्डिनौ, वाग्मिनौ’ इत्यस्य, तत्र ‘सौ चे’- त्यनेन दीर्घसिद्धौ नियमानुपयोगात् । एवं ‘सुपयाः’ इत्यत्रापि । अव्युत्पत्तिपक्षे ‘सुमेधा’ इत्युदा- हर्तव्यम् । सुश्रोता’ इत्यत्र श्रुधातोरसिप्रत्यये तस्य तुडागमेऽसिरनर्थकः, आगमसमभिव्याहारे आगमविशिष्टस्यैवार्थवत्त्वात् । ननु ‘यदागम’न्यायेन तुड्विशिष्टस्याऽसो ग्रहणेन तस्य चार्थवत्त्वेन अनर्थकोदाहरण- मयुक्तमिति चेन्न । श्रुधातोर्विचि गुणे तस्मात्पञ्चम्यन्तात् तसि प्रत्यये तदनुकरणे सुशब्देन समासे अनर्थकस्यास उदाहरणं बोध्यम् ।

९२ परिभाषेन्दुशेखरः [ १ प्रकरणे- सुस्रोता' इत्यादौ 'अत्वसन्तस्ये'ति दीर्घः, 'सुशर्मा', 'सुप्रथिमे'त्यादौ 'मन' इति ङीब्-निषेधश्च सिद्धः । अन्ये तु 'परिवेविषीध्वमि'त्यत्र ष्टत्वव्यावृत्तये क्रियमाणाद् 'इणः षीध्वमि'त्यत्र अङ्गग्रहणादर्थवत्परिभाषाऽनित्या, तन्मूलकमिदमित्याहुः । 'विभाषेट' इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहण- मिति भ्रमवारणाय 'अङ्गादि'ति परे ॥ १६ ॥ एवं 'कामंस्ताच्छील्य' इत्याद्यपि ज्ञापकमूह्यम् । सुप्रथिमेति । सुगता प्रथिमानं सुप्रथि- मेति विग्रहः । एतेन सुप्रथिमन्शब्दस्य पुंस्त्वात् बहुव्रीहौ 'अनो बहुव्रीहेरि'त्यनेन अन्नन्तत्वादेव निषेधसिद्धेर्मन्नन्तस्योदाहरणमिदं चिन्त्यमिति परास्तम् । परिवेविषीध्वमिति । विषूधातोर्जोहोत्यादिकाद्विधिलिङि सीयुटि सलोपे द्वित्वादौ चेदं रूपमिति बोध्यम् । नन्वसधातोर्विधिलिङि कर्मव्यतिहार आत्मनेपदे 'व्यति- षीध्वमि'त्यत्रार्थवतः षीध्वमः सम्भवादत्र ष्टत्वव्यावृत्तयेऽङ्गादित्यस्य चारितार्थ्यात्कथं ज्ञापकमिति चेन्न । 'उपसर्गप्रादुर्भ्यामि'ति षत्वस्यासिद्धत्वेन षीध्वमोऽभावात्तद- प्राप्त्याऽङ्गादित्यस्य चारितार्थ्याभावात् । सूत्रं तु 'आदेशप्रत्यययो'रिति षत्वे चरितार्थम् । भ्रमवारणायेति । उत्तरसूत्रेऽर्थवतः षीध्वमोऽसम्भवात्परिभाषाबाधेऽप्यत्र तद्बाधे मानाभावादिदमयुक्तमिति दिक् ॥ १६ ॥ सुप्रथिमेतीति । कर्मधारये इमनिजन्तस्य पुंस्त्वेन स्त्रीत्वाभावात् ङीपोऽप्रसक्तिः, बहुव्रीहौ 'अनो बहुव्रीहेः' इति सिद्धेरत आह—सुगता प्रथिमानमिति । परास्तमिति । यत्तु—मूले असुप्रथिमेति छेदं कृत्वा स्त्रीत्वबोधनाय बहुव्रीहि कृत्वा पश्चात् नञ्तत्पुरुषे बहु- व्रीहित्वाभावात् 'अनो बहुव्रीहेः' इत्यस्याप्राप्तौ 'मन' इति निषेध इति । तन्न ; 'अबहुयज्वरी' इत्य- निष्टरूपवारणाय तदन्तविधिद्वयस्वीकारस्य आवश्यकत्वेन 'असुप्रथिमे'त्यत्रापि तेनैवेष्टसिद्धेः । दिगिति । अत्र हैमवतीकाराः—अनया परिभाषया 'अर्थवद्ग्रहणं' इत्यस्याप्रवृत्त्या अनि- नस्मन्ग्रहणेषु अनर्थकेषु तदन्तविधिस्वीकारेऽपि 'लक्षणप्रतिपदोक्त'परिभाषाप्रवृत्त्या 'वाग्मिनौ' इत्यत्र 'इन् हन्नि'ति नियमो न स्यात्, 'दण्डिनौ' इत्यत्र 'निरनुबन्धक'परिभाषया नियमो न स्यात्, 'यशस्वी'त्यादौ 'ग्रहणवते'ति निषेधात् 'अस्माये'ति विनिर्न स्यात्, विन् तु अस्धातोः क्विबन्तात् 'अस्वी' इत्यत्र चरितार्थः । एवञ्च लक्ष्यासिद्धिस्तदवस्थैवेति चेन्न । अनया परिभाषया अनिनादिषु वर्णत्वमतिदिश्यते । परिभाषार्थस्तु—अनिनस्मन् ग्रहणानि अर्थवता चानर्थकेन च तदन्तविधिं यथा प्रयोजयन्ति तथा कार्यम्, अर्थात् एषु वर्णत्वातिदेशः कर्तव्य इति । एवं सति वर्णग्रहणे सर्वासामप्येतासामप्रवृत्त्या सर्वेष्टसिद्धेः सूपपादत्वात् । अत एव च 'अनकारा' 'असकारा' इत्यादयो भाष्यप्रयोगाः सङ्गच्छन्ते ; अन्यथा कारप्रत्ययानुपपत्तिरेव स्यादिति वदन्ति । यत्तु—अनया परिभाषयाऽल्त्वमेवातिदिश्यते, ततश्च अल्लैवानर्थकेन तदन्तविधिरित्यनेन सङ्गृहीता भवतीयं परिभाषेति । तन्न ; अल्त्वारोपे सति 'प्रत्ययलोपे प्रत्ययलक्षणम्' इति

or»or”`? In Sanskrit books from Varanasi (like Chowkhamba, etc., this is from a Chowkhamba or similar edition of Paribhashendushekhara with Tattvaprakasika and Bhuti): Wait! Look at the title at the top: "तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः" This is the famous edition of Paribhashendushekhara published by Chowkhamba (or Sampurnanand Sanskrit University / Haridas Sanskrit Granthamala), edited with Tattvaprakashika of MM Pt. Lakshmana Shastri Dravida and Bhuti of Pt. Nityananda Parvanikar! Let's verify the text of Bhuti on Paribhasha 17: In Bhuti: "अनन्तरत्वादिति । अतिसन्निहितत्वादित्यर्थः । एकयोगेति । योगपदं कार्यपरं न तु सूत्रपरम् । एकसूत्रघटकानामित्यर्थे तु 'चिण् भावकर्मणोरि'त्यत्र चिण्ग्रहणं व्यर्थं स्यात्, 'चिण् ते पदः' इत्यतस्तदनुवृत्तौ बाधकाभावात् । मन्मते तु 'चिण् ते पद' इत्यतोऽनुवृत्तचिण्पदस्य मध्ये 'न रुधः' इत्यत्र नञ्सम्बद्धत्वेन नञ्-चिणोरेकसूत्रघटकत्वाभावेऽपि नञ्सम्बद्धस्य केवलस्य चिणः '

९४ परिभाषेन्दुशेखरः [ १ प्रकरणे-१८-१९ प० विचारः, नन्वलुगधिकारः प्रागनङः, उत्तरपदाधिकारः प्रागङ्गाधिकारादित्य- नुपपन्नमेकयोगनिर्दिष्टत्वात् ; तथा 'दामहायनान्ताच्च' इत्यादौ 'संख्या- व्ययादेरि'त्यतः संख्यादेरित्यनुवर्ततेऽव्ययादेरिति निवृत्तमिति चानुपपन्न- मत आह— क्वचिदेकदेशोऽप्यनुवर्तते ॥ १८ ॥ —: ० :— एकत्रार्थे योगः = सम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्व- निर्दिष्टयोरित्यर्थ' इति 'पक्षात्तिरि'ति सूत्रे कैयटः । तावन्मात्रांशे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम् । स्पष्टा चेयं 'दाम- हायनान्ताच्चे'ति सूत्रे 'औतोऽम्शसोरि'ति सूत्रे च भाष्ये, पूर्वा च ॥१८॥ ननु 'त्यदादीनाम' इत्यादिना 'इममि'त्यादावनुनासिकः स्यादत आह— ————— पूर्वपरिभाषातोऽनुवर्त्तमानस्य 'एकयोगे'ति पदस्यात्रार्थविशेषं प्रतिपादयति— एकत्रार्थ इति । कैयट इति । अत्रारुचिबीजन्तु—'अरुगधिकार प्रागनङः' इत्यादिभाष्यानुपपत्तिर्द्वन्द्वनिर्दिष्टत्वाभावात् । किञ्च 'औतोऽम्शसोरि'त्यत्र 'वा सुपी'त्यतः सुपीत्यनुवर्तते वेति निवृत्तमनया परिभाषयेति भाष्यासङ्गतिरिति दिक् ॥१८॥ इममित्यादाविति । नन्वौजसोः फलसम्भवेऽम्पर्यन्तमनुधावनं व्यर्थमिति चेन्न । 'इमावि'त्यत्र ओकारस्यानुनासिकत्वाभावेन 'इमे' इत्यत्रैकारस्यानुनासिकत्वेऽपि परस्य ईकारस्याऽऽधिव्यात्तद्गुणकस्य निरनुनासिकस्य एकारस्य 'आद्गुण' इत्यनेन विधानात्तत्र फलासम्भवात्, विभक्तिविधायककार्येषु द्वितीयाया एव प्राथम्याच्च । ————— विनिर्भवति 'यट्वी' इति रूपं भवति ; तन्न स्यात् । एतादृशप्रयोगे चोक्तभाष्यमेव मानम् । किञ्च—अत एव 'अल्लोपोजः' इत्यत्र अदिति तपरग्रहणं चरितार्थम् । अनितेः क्विपि दीर्घे 'आन्' इत्यत्रानो वर्णत्वातिदेशेऽपि अल्त्वानतिदेशेन 'अनल्विधावि'त्यस्याप्राप्त्या स्थानिवद्भावे वान्त्वातिदेशेन प्राप्ताऽल्लोपवारणाय तपरकरणस्य साफल्यादित्यवधेयम् ॥ १६ ॥ इति दिगिति । अस्यां ज्ञापकानि 'एचोऽयवायावः' इत्यादीनि । अत्र हि 'इको यणचि' इत्यस्मात् 'अची'त्यनुवर्तते । एकयोगनिर्दिष्टानां सहैवानुवृत्तौ सूत्रं व्यर्थम्, सर्वत्र प्रवृत्तिर्वा । न च 'वान्तो यि प्रत्यये' इति सूत्रं व्यर्थं सत् नियमार्थं भविष्यति वाच्यम् ; ज्ञापनोत्तरं विधित्वे सम्भवति नियमत्वायोगात् ॥ १८ ॥

१ प्र० १९ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९५ भाव्यमानेन सवर्णानां ग्रहणं न ॥ १९ ॥ —: ❖ :— अणुदित्सूत्रे 'अप्रत्यय' इत्यनेन सामर्थ्यात्सूत्रप्राप्तं, जातिपक्षेण प्राप्तं, गुणाभेदकत्वेन च प्राप्तं नेत्यर्थः । अत एव अणुदित्सूत्रे प्रत्ययाऽऽदेशाऽऽगमेषु भाव्यमानेन सवर्णानां ग्रहणं नेति । विधेयताप्रयोजकेन पदेन स्वावृत्तिश्रावणप्रत्यक्ष- विषयतावच्छेदकधर्मवतां ग्रहणं नेत्यर्थः । एतेन—'त्यदादीनाम' इत्यकारेण सवर्ण- सामान्यस्यानेन निषेधाद् ग्रहणाभावेन सूत्रं व्यर्थमेव स्यादित्यपास्तम् । स च धर्म- स्तद्व्यक्तित्व-तत्पुरुषीयत्वातिरिक्तः स्वरत्वव्याप्योदात्तत्वादिभिन्नश्च ग्राह्यः, तेन तत्तल्लक्ष्यघटकानां तत्तत्पुरुषोच्चारितानां त्वकारव्यक्तीनां विधायकाऽद्भूतेऽपि न क्षतिः । एवं 'बहुवचने झल्येदि

ति or 'ज्यायानि'ति! Let's check how the typesetter printed it: Line 13: 'ज्यायानि'त्यस्य Line 14: 'ज्यायानि'त्यस्य Line 32: 'ज्ययानि'ति Line 33: 'ज्यायानि'ति Look at the image: Line 13: 'ज्यायानि'त्यस्य Line 14: 'ज्यायानि'त्यस्य Line 32: 'ज्ययानि'ति रूपम् । Line 33: 'ज्यायानि'ति रूपमिति

Let's double-check line 6: 'चोः 'कुरि'त्यादौ भाव्यमानेनापि सवर्णग्रहणम्, विधेये उदिदु- Wait, look at 'चोः 'कु': Is there an opening quote before 'कु'? Line 6: 'चोः 'कुरि'त्यादौ Look: 'चोः 'कुरि'त्यादौ -> 'चोः कुः' इति आदौ -> 'चोः 'कुरित्यादौ or 'चोः कु'रित्यादौ? In image: 'चोः 'कुरि'त्यादौ (single quote before चोः, single quote before कु, single quote after र्/रि).

Let's check line 18: दुर्द्धर इति वाच्यम्; ईकारस्य ह्रस्वा

२० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९७ नन्वेवम् 'अदसोऽसेरि'त्यादिना 'अमू' इत्यादौ दीर्घविधानं न स्यादत आह— भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति ॥ २० ॥ —: ० :— 'दिव उत्', 'ऋत उत्' इति तपरकरणमस्या ज्ञापकम् । दीर्घविधानं न स्यादिति । 'अदसोऽसेरि'ति सूत्रे ह्रस्वोकारेण 'भाव्यमान'परि- भाषया दीर्घस्याग्रहणादिति भावः । प्राचीनोक्तसमाहारद्वन्द्वस्तु न युक्त इत्यन्तरङ्गपरि- भाषायां निरूपयिष्यते । दिव उदिति । न च ज्ञापितेऽपि स्वांशे चारितार्थ्याभावः ; प्रमाणत आन्तरतम्याद्वकारस्य स्थाने ह्रस्वोकारस्यैव प्राप्तेः । न च 'अक्षद्यूभ्यामि'त्यत्र ह्रस्वविधानार्थं तदिति वाच्यम् , 'निरनुबन्धक'-परिभाषया दिव्धातौ एतत्प्रवृत्तेरिति वाच्यम् ; दिवशब्दात् क्यजन्तात्

९८ परिभाषेन्दुशेखरः [ १ प्रकरणे- 'तित्स्वरितमि'ति सूत्रे भाष्ये स्पष्टैषा ॥ २० ॥ ननु 'गवे हितं गोहितमि'त्यादौ प्रत्ययलक्षणेन अवाद्यादेशापत्तिरत आह— तत्सामर्थ्यात्पूर्वं गुणे दीर्घोकारादेशे 'गूहत्' इत्यादिसिद्धिस्तत्फलमिति वाच्यम् ; ह्रस्वोकारविधानस्य गुणमात्रबाधकत्वे तु 'नाभ्यस्तस्याचो'त्यत्र 'गुह्' इत्यस्य पाठेन अजादौ प्रत्यये परे गुहो गुणनिषेधेनैव सिद्धेः ह्रस्वोकारविधानेन गुणाबाधकत्व- कल्पनात्, उपधाग्रहणस्य 'मितां ह्रस्व' इत्युत्तरेत्राऽऽवश्यकत्वेऽपि उच्छब्दाकरणरूपं तक्रन्यायाप्रवृत्तिरूपं च लाघवं बोध्यमिति वदन्ति । तन्न ; गुहेर्ण्यन्ताच्चङि उपधा- कार्यत्वात्प्राबल्येन गुणे ऊत्वे 'णी चङी'ति ह्रस्वाभावार्थं दीर्घविधानस्य सूत्रकृता भाष्यकृता च कृतत्वेन तद्विरोधाभावा

२१ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ९९ वर्णाश्रये नास्ति प्रत्ययलक्षणम् ॥ २१ ॥ -: ० :- भाष्यमते 'तिसृणां धनं त्रिधनमि'त्यादौ तिस्रादेशापत्तिश्चेति वाच्यम्; साक्षात् लुप्तप्रत्ययाव्यवहितपूर्वत्वनिष्ठप्रकारतानिरूपितविशेष्यता यत्राङ्गपर्याप्तिधर्मा- वच्छिन्ना, तत्र 'न लुमते'त्यस्य प्रवृत्तिस्वीकारेण अव्यवहितपूर्वत्वस्याङ्गविशेषित- निर्दिश्यमानेऽन्वयेन तन्निष्ठविशेष्यताया अङ्गपर्याप्तिधर्मावच्छिन्नत्वात् 'निर्जरधनम्, त्रिधनमि'त्यादौ 'न लुमते'ति निषेधस्य प्रवृत्तेः सुलभतया विभक्तिपरकत्वाभावेन तदप्राप्तेः। 'गोहितमि'त्यत्र तु अजव्यवहितपूर्वत्वस्यैव विशेषणत्वेन तन्निष्ठविशेष्य- ताया अङ्गपर्याप्तिधर्मावच्छिन्नत्वाभावान्न 'न लुमते'त्यस्य विषयः। एवम् 'उत्क्रामे'- त्यादावपि बोध्यम्। न च 'एचोऽयवायाव' इत्यस्य शब्दानित्यत्ववारणाय 'अजव्यवहितपूर्वत्व- विशिष्टस्यैजन्तस्यार्थबोधनायोच्चारणप्रसङ्गे अयादिघटितमुच्चारणीयमि'त्यर्थस्य करणेन 'गोहितमि'त्यत्र 'न लुमते'त्यस्य प्रवृत्तिः सुलभेति वाच्यम्; एवमर्थस्वीकारे अगा- गमपक्षे 'गो+अ+अग्रमि'ति स्थिते अगागमघटकाजव्यवहितपूर्वत्वविशिष्टस्य 'गो' इत्येतस्यैजन्तस्य आगमसमभिव्याहृतस्य निरर्थकस्यार्थबोधनाय प्रसङ्गाभावेन तत्र अवाद्यनापत्त्या अग्रन्यासस्थापनपरभाष्यविरोधापत्तेः, 'गो-ए' एतत्समुदायघटकस्य 'गो' इत्येतन्मात्रस्यापगमे शब्दानित्यत्वस्य तदवस्थत्वाच्च। न च 'गो+ङे, हित+सु' इत्यवस्थायामेव अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते' इति न्यायेन इत्संज्ञालोपौ बाधित्वा लुकि कृते प्रत्ययलक्षणेऽपि अच्परकत्वाभावादवादेशाप्राप्ति- रिति वाच्यम्; ज्ञापकसाजात्यादित्संज्ञालोपविषये अन्तरङ्गानपीति न्यायस्याप्रवृत्तेः। भाष्यमत इति । तन्मते प्राधान्येन अप्राधान्येन वा अलाश्रये विधौ प्रत्ययलक्षण- सूत्राप्रवृत्तेः पूर्वत्र दोषाभावादिति भावः । त्रिधनमित्यादाविति । त्रिधनमिति परमत्रिधन- मित्यस्योपलक्षणम् । एतेन-त्रिरूपनिर्दिश्यमानस्य अङ्गरूपतया तत्पर्याप्तोद्देश्यताया लुप्त- प्रत्ययाव्यवहितपूर्वत्वेन साक्षादवच्छिन्नतया निषेधप्राप्तेः सुलभतया इदमसङ्गतमिति परास्तम् । अङ्गपर्याप्तिधर्मावच्छिन्नेति । साक्षात् परम्परया वा तेन धर्मेणावच्छिन्नेति तदर्थः । ज्ञापकसाजात्यादि । अत्र केचित्-लाघवात् संज्ञामात्रविषये तन्न्यायाप्रवृत्ति- रित्येव ज्ञाप्यताम् । अत्र एव इहापि किञ्चित्तपो भाष्यं सङ्गच्छते । अन्यथा सम्बुद्धिसंज्ञां बाधित्वा पूर्वं लुकि पश्चात् प्रत्ययलक्षणेऽपि सम्बुद्धिपरत्वाभावेन गुणाप्राप्त्या तदसङ्गतिरेव स्यात् । प्रत्यय- लक्षणे सम्बुद्धिसंज्ञा तु न भविष्यति, प्रत्ययोद्देश्यककार्ये तदप्राप्तेरित्याहुः । तन्न; सामान्येन संज्ञाविषये तन्न्यायाप्रवृत्त्यङ्गीकारे 'राजपुरुषः' इत्यत्र पूर्वं भसंज्ञाप्रवृत्त्या नलोपानापत्तेः । तस्मात् पूर्वोक्तभाष्यानुरोधात् ज्ञापकसाजात्याच्च प्रत्ययस्य पर्याप्त्याऽपर्याप्त्या वा संज्ञायां कर्तव्यायाम् उक्तन्यायो न प्रवर्तेत इत्येव कल्पनं युक्तमित्येतत्फलितमाह-इत्संज्ञालोपविषय इत्यादिः ।

१०० परिभाषेन्दुशेखरः [ १ प्रकरणे- वर्णप्राधान्यविषयमेतत् । तत्त्वं च ‘प्रत्ययलोप’ इति सूत्रे स्थानिव- दित्यनुवृत्त्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययस्येतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्त्यर्थमित्येतत्सिद्धम् । वर्णप्राधान्यं च वर्णस्येतरा- अत एव ‘लुकि न स्थानिवद्’इत्यस्य ‘पञ्चेन्द्र’ इत्युदाहरणं भाष्योक्तं सङ्गच्छते ; अन्यथा ङकार-पकारयोरित्संज्ञालोपाभ्यां प्रागेव ङीषो लुकि अङ्मात्रस्थानिका- देशाभावेन स्थानिवद्भावाप्राप्त्या तदसङ्गतिः स्पष्टैव । अत एव ‘ञित्स्वरे प्रत्यय- लक्षणप्रतिषेध’ इति वार्तिकमपि सङ्गच्छते । परिभाषायां प्रमाणमाह—तत्त्वमिति । वर्णाश्रये प्रत्ययलक्षणाप्रवृत्तिमत्त्व- मित्यर्थः । प्रत्ययस्येतराविशेषणत्वरूपमिति । स्वावयवनिष्ठविशेष्यता निरूपितप्रकारता- नाश्रयत्वरूपमित्यर्थः, तेन ‘वारी’त्यादौ सुबन्तसमुदाये सुपो विशेषणत्वेऽपि स्वाव- यवेऽविशेषणत्वेन उक्तप्राधान्येन प्रत्ययलक्षणसिद्धिः । वर्णस्येतराविशेषणत्व रूपमिति । स्वावयवनिष्ठविशेष्यता निरूपितप्रकारतानाश्रयत्वमित्यर्थः, तेन ‘गोहितम्’ त्यत्र अच्- पदार्थस्य एचि विशेषणत्वेऽपि प्राधान्यमेव । अत्र स्वावयवी च प्रत्ययो ग्राह्यः, तेन ‘टिढ्ढे’ति सूत्रेऽतः प्रातिपदिके विशेषणत्वेऽपि न वर्णप्राधान्यक्षतिः । एतेन लाघवात् साधुत्वविधायकशास्त्रापेक्षयैव लुकः प्राबल्यं बोध्यते इत्येव ज्ञाप्यत इत्यपि कैयटोक्तं परास्तं वेदितव्यम् ; राजपुरुष इत्यत्र भसंज्ञाप्रवृत्त्या नलोपानापत्तेः । लोपविषये तदप्रवृत्तौ मानमाह—अत एव लुकि न स्थानिवदिति । वार्तिकमपि सङ्गच्छत इति । अन्यथा ‘गर्गा, बिदा’ इत्यादौ इत्संज्ञातः पूर्वं यञो लुकि ‘ञित्स्वरा’ऽप्राप्त्या तत्प्रतिषेधार्थं क्रियमाणं वार्तिकं व्यर्थमेव स्यादिति भावः । न चेत्संज्ञाविषये तन्न्यायाप्रवृत्ति- रित्येतज्ज्ञापने फलाभाव इति वाच्यम् ; ‘दैवदारवम्’ इत्यत्र फलसम्भवात् । तत्र देवदारुशब्दात् ‘ओरञ्’ इत्यनेन फलेऽर्थे अञि ‘तस्य फले लुक्’ इत्यनेन लुकि ‘ञितश्च तत्प्रत्ययात्’ इत्यनेन स्वार्थेऽञ् सिद्धयति ; अन्यथा स न सिद्धयेत् । ननु परिभाषास्वीकारे ‘अतृणेद्’ इत्यादौ इमादिर्न स्यात्, तत्र ‘हलादौ पिति’ इति विशेषणतया वर्णस्याऽऽश्रयणादत आह मूले—वर्णप्राधान्यविषयमेतदिति । अर्थात्सिद्धमेतत् । वार्तिककारमते ‘अनल्विधावि’ति निषेधे प्राप्ते विध्यर्थं प्रत्ययलक्षणसूत्रम् । यदि तु वर्णा- प्राधान्येऽपि अनया तस्याप्रवृत्तिः ; तर्हि प्रत्ययलक्षणसूत्रं व्यर्थमेव स्यात् । वैपरीत्यं तु न ; लक्ष्यानुरोधादिति भावः । ननु भाष्यकारमते स्थानिवद्भावेन सिद्धे प्रत्ययलक्षणसूत्रं नियमार्थम्, तन्मते वर्णाश्रये प्रत्ययलक्षणसूत्रस्य प्राप्तिरेव नेति ‘वर्णाश्रय०’ इति परिभाषा व्यर्थैवेति चेत्–सत्यम् । भाष्यमते तस्या अनङ्गीकारात्, वार्तिकमते एवास्या परिभाषायाः सत्त्वात्, तन्मते अल्विधावपि विध्यर्थ- त्वात् प्रत्ययलक्षणसूत्रस्य । अत एव ‘अतृणेद्, मित्रशीः’ इत्यादीनां सिद्धिः, तत्र वर्णप्राधान्य- विषयकाल्विधौ प्राप्तप्रत्ययलक्षणसूत्रस्य निषेधार्थमियं परिभाषा स्वीक्रियते वार्तिककृता; तदाह

विशेषणत्वरूपं प्रत्ययनिरूपितविशेष्यतारूपं च, तेन 'गोहितमि'त्यादौ अवादि न, 'चित्रायां जाता, चित्रे'त्यादौ अण्योऽकारस्तदन्तान् ङीबिति ङीप् च न । इयमल्विधौ स्थानिवत्त्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भाष्ये ॥ २१ ॥ नन्वतः 'कुकमी'त्यत्र कमिग्रहणेन सिद्धे कंसग्रहणं व्यर्थमत आह— उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ २२ ॥ —: ० :— इदमेवास्या ज्ञापकमिति कैयटादयः । कंसेस्तु न, कंसोऽनभिधानात् । 'प्रत्ययस्य लुगि'त्यादौ भाष्ये स्पष्टा । 'ण्वुल्तृचावि'त्यादौ भाष्ये व्युत्पन्नानीत्यपि । वस्तुतस्तु—प्रत्ययप्राधान्यमुक्तवर्णप्राधान्यभिन्नत्वम्, तेन 'गोहितमि'त्यत्र प्रत्य- यस्य स्वावयवे विशेषणत्वेऽप्युक्तप्राधान्याभावान्न दोषः । प्रत्ययनिरूपितविशेष्यतारूपम्= स्वावयविनिष्ठप्रकारतानिरूपितविशेष्यत्वरूपम् । अस्योदाहरणं चित्रेति, आद्योदा- हरणं गोहितमिति । वस्तुतस्त्वाद्यलक्षणेनैव द्विविधवर्णप्राधान्योदाहरणसङ्ग्रहे द्वितीय- लक्षणं निष्फलमिति तत्त्वम् ॥ २१ ॥ कमिग्रहणेनेति । धातुग्रहणे तदादिविधिना कमादावुत्तरपदे इत्यार्थादिति भावः । अव्युत्पन्नानीति । प्रकृतिप्रत्ययविभागज्ञानापूर्वकंपाणिनिशास्त्रप्रवृत्त्यभाववन्तीत्यर्थः । उणा- दय इत्यस्य उणाद्यन्तानीत्यर्थः । इदमेवेति । कंसग्रहणमेवेत्यर्थः । अनभिधानादिति । 'कमेः सः कंस' इति भाष्योक्तेरिति भावः । प्रत्ययस्य लुगित्यादाविति । तत्र हि प्रत्ययग्रहणाभावे 'कंसोयपरश्वव्योः' इत्यत्र प्रकृतेर्लुगन्निवृत्त्यर्थमवश्यं 'छ्यतोरि'ति वाच्यमित्युक्त्वा, कंसावयव-सस्य परश्ववयवो- कारस्य लुग् स्यादित्याशङ्क्य अनया परिहृतम् । 'सर्पिषा, यजुषे'त्यादौ षत्वादि कार्यं तु कारुवायादिशब्दानां व्याकरणान्तरीयरीत्या ज्ञातसाधुत्वकानामस्मिन्नपि व्याकरणे साधुत्वाभ्यनुज्ञानायाऽऽरब्धे 'उणादयो बहुलमि'ति सूत्रे बहुलग्रहणेन साधनीयम् । ण्वुल्तृचावित्यादाविति । तत्र हि तृचश्चकारः 'अप्तृन्नि'त्यत्र विशेषणार्थः, अन्यथा 'मातरावि'त्यादावपि 'प्राप्नोती'त्युक्त्वा, नप्त्रादिग्रहणस्य नियमार्थत्वेन मूले— अल्विधौ स्थानिवत्त्वाप्राप्तावपीत्यादिः । भाष्यमते 'अतृणेडे'त्यादीनाम्, वार्तिक- मते 'सुदृषत्प्राकारः' इत्यादीनाञ्च सिद्धिप्रकारोऽन्यतोऽवसेय इत्यलम् ॥ २१ ॥