भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 23, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 23

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ७. ‘उदीच्यां माङो०’ (३.४.१९) नित्या नायं ‘माङ् माने’ इत्यस्य निर्देशः, इति सूत्रे ‘माङ्’निर्देशो ज्ञापकपरभाष्यप्रामाण्येन व्यतिहारे ज्ञापकः। माङोऽनभिधानात्। ८. ‘ददातिदधात्योर्विभाषा’ ” ✕ (३.१.१३९) इत्यत्र ‘विभाषा’ पदं ज्ञापकम्। ९. ‘संख्याया अतिशदन्ताया०’ ” अत्र कृत्रिमाया एव संख्याया ग्रहणे (५.१.२२) इति सूत्रे तिशतो- तदन्ते तिशतोर्नियमेन अभावात् र्निषेधो ज्ञापकः। निषेधवैयर्थ्याज्ज्ञाप्यते कृत्रिमाकृत्रिमे संख्ये ग्राह्ये इति भावः। १०. ‘स्थण्डिलाच्छयितरि’ ” न्यायसिद्धापीयम्, समवायिकारण- (४.२ १५) इति सूत्रे’ शयितरि’ निमित्तकारणयोर्भेदस्य सकललोक- निर्देशो ज्ञापकः। तन्त्रसिद्धत्वात्। उच्छृङ्खलास्तु-- परिभाषेयमस्वीकार्या, प्रदर्शित- फलस्य असम्भवात्, अन्येषाञ्च अभावादित्याहुः। विस्तरस्तु ४२ पृष्ठे भूतिलके द्रष्टव्यः। १९. ‘ज्यादादीयसः (६.४.१६०) ” वाचनिकी अपि इयम्, ‘अणुदित् इति सूत्रे ‘आदि’ति दीर्घो- (१.१.६९) सूत्रे ‘अप्रत्ययः’ इत्यंशस्या- च्चारणं ज्ञापकम्। नुवादकत्वात्। २०. ‘दिव उत्’ (६.१.१३१) ‘ऋत’ ” यद्यपि नेयं सूत्र-भाष्यविरुद्धा; तथापि उत्’ (६.१.१११) इति सूत्रयोः असाधारणफलाभावात् अस्वीकार्येति उकारस्य तपरकरणं ज्ञापकम्। ९८ पृष्ठे भूतिकृतः। २२. ‘अतः कृकमि०’ (८.३.४६) इति ” ✕ सूत्रे ‘कंस’ग्रहणं ज्ञापकम्। २५. ‘हृदयस्य हल्लेखः’ (६.३.५०) ” ✕ इति सूत्रे ‘लेख’-ग्रहणं ज्ञापकम् २७. ‘सुप्तिङन्तम्’ (१.४.१४) इति ” कैश्चिदेषा प्रत्याख्याताऽपीति १२० सूत्रे ‘अन्त’ग्रहणं ज्ञापकम्। पृष्ठे भूतिलके द्रष्टव्यम्। २८. ‘गतिरनन्तरः’ (६.२.४९) इति ” केचित्तु - ‘अहीने द्वितीया (६.२.४७) सूत्रे ‘अनन्तर’ग्रहणं ज्ञापकम्। इति सूत्रे ‘अनुपसर्गं इति वक्तव्यम्’ इति वार्तिकं ज्ञापकमाहुः (पृ०१२३)।

  • २१ -