परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 335, कुल 373 में से
संदर्भ में पढ़ें१०१-१०२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३०५ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ॥ १०१ ॥ -: ❦ :- षाष्ठद्वित्वस्य द्विप्रयोगत्वसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्व- बोधनेनेदं न्यायसिद्धम् । अत एव ‘जुहुधी’त्यादौ द्वित्वे कृते धित्वसिद्धिरिति । तदपि न ; भाष्येऽदर्शनात् । किञ्च तेन सिद्धान्तेन प्रत्येकं द्वयोस्तत्त्वबोधनेऽपि समुदायस्य तत्त्व- बोधने मानाभावः । अत एव ‘दयतेर्दिगी’ति सूत्रेऽस्तेः परत्वाद् द्वित्वे कृते परस्यास्तेर्भूभावे पूर्वस्य श्रवणं प्राप्नोतीत्याशङ्क्य विषयसप्तम्याश्रयणेन परिहृतं भाष्ये । अन्यथा त्वदुक्तरीत्या एकाज्द्विर्वचनन्यायेन समुदायस्यैव आदेशापत्तौ तदसङ्गतिः स्पष्टैव । तस्मादुत्तरखण्डमादायैव यथायोगं तत्तत्- कार्यप्रवृत्तिर्बोध्या । ‘भूसुवोर्’त्यस्य तदन्ताङ्गस्येत्यर्थात् प्राप्तस्य गुणनिषेधस्य बोभूत्विति नियम इति न तद्विरोधः । तस्माद्धन्तेर्यङ्लुकि ‘वध्यादि’त्यादि माधवा- द्युदाहृतं चिन्त्यमेवेत्यन्यत्र विस्तरः ॥ १०१ ॥ यदपि ननु ‘वृद्धिर्यस्याचामादिर्’त्यत्र इक्परिभाषोपस्थितौ शालीया- द्यसिद्धिरत आह— धित्वसिद्धिरिति । समुदायस्य धातुत्वाभावात्तदुत्तरस्य आगन्तुकत्वेन अर्थवत्त्वा- भावाच्च तदप्राप्तिरिति भावः । उत्तरखण्डेति । “परस्यास्तेर्भूभावे कृते” इति पूर्वोक्तभाष्यप्रामाण्यान्नानर्थकेति वचने ‘अनभ्यासविकार’ इति पर्युदासाच्च आगन्तुकस्याप्युत्तरखण्डस्य अर्थवत्त्वादि कल्प्यते । प्रत्येकं तत्कल्पने तु बोधावृत्तिप्रसङ्ग इति भावः । न चैवं ‘प्रणिजगादे’त्यत्र नेरुपसर्गस्य गदधातुपरकत्वाभावान्णत्वाप्राप्तिरिति वाच्यम् ; ‘नेर्गदे’त्यत्र षष्ठ्यर्थक- सप्तम्याश्रयणेन गदादिनिरूपितोपसर्गस्य नेरित्यर्थेन व्यवधानेऽपि तत्प्रवृत्तेः सुवचत्वात् । अत एव ‘प्रण्यगददि’त्यत्राङ्व्यवधानेऽपि णत्वसिद्धिः । न तद्विरोध इति । परिभाषाभावेऽपीति शेषः । चिन्त्यमिति । किन्तु लिङीत्यस्य ‘आर्धधातुके’ इत्यनेन सामानाधिकरण्याद्विषयसप्तम्यन्तत्वेन द्वित्वात्पूर्वं वधादेशे ‘दीर्घो- ऽकित’ इति दीर्घे ‘वावध्यादि’ति—केचित् । अन्ये तु—‘नुगत’ इत्यन्तरङ्गत्वान्नुकि ‘जंवध्यादि’ति प्राहुः । अपरे तु—अनुनासिकान्तत्वस्य विनाशोन्मुखत्वेन अकृतव्यूहपरिभाषया नुको- ऽप्रवृत्त्या दीर्घे ‘जावध्यादि’ति वदन्ति ॥ १०१ ॥ शालीयाद्यसिद्धिरिति । यस्य समुदायस्याचां मध्ये आदिरिक्स्थानिका वृद्धि- स्तद्वृद्धसंज्ञमित्यर्थे लैगवायनशब्दादावेव सा स्यादिति भावः । ३९