भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 336, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 336

३०६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- विधौ परिभाषोपतिष्ठते नानुवादे ॥ १०२ ॥ — : ❀ : — अनूद्यमानविशेषणेषु तन्नियामिका परिभाषा नोपतिष्ठत इति तदर्थः । विध्यङ्गभूतानां परिभाषाणां विधेयेनासिद्धतया सम्बन्धासम्भवेऽपि तद्विशे- षणव्यवस्थापकत्वेन चरितार्थानां तद्विशेषणव्यवस्थापकत्वे मानाभाव इति तर्कमूलेयम् । किञ्च 'उदीचामातः स्थाने' इति सूत्रे स्थानेग्रहणमस्या लिङ्गम्, अन्यथा 'षष्ठी स्थाने' इति परिभाषयैव तल्लाभे तद्वैयर्थ्यं स्पष्टमेवेति । —तन्न ; 'उदात्तस्वरितयोर्यण' इत्यादौ 'ष्यङः सम्प्रसारणम्'इति सूत्रभाष्योक्तरीत्या 'अल्लोपोऽन' इत्यादौ चैतस्या व्यभिचरितत्वात्, भाष्यानुक्तत्वाच्च । स्थानसम्बन्धो न परिभाषालभ्य इत्यर्थस्य 'षष्ठी स्थाने' इति सूत्रे भाष्ये स्पष्टमुक्तत्वेन त्वदुक्तज्ञापकासम्भवाच्च । तत्र स्थानेग्रहणं तु स्पष्टार्थमेव । किञ्च 'विधौ परिभाषे'ति प्रवाद 'इको गुणवृद्धी, अचश्च' अनूद्यमानेति । साक्षादुद्देश्येत्यर्थः, स्वोपस्थाप्यार्थस्य साक्षादुद्देश्येन सहान्वये सति स्वस्य चारितार्थ्यं सम्भवति, तत्रानूद्यमानविशेषणे स्वोपस्थाप्यार्थान्वयनियामिका सा परिभाषा न भवतीति भावः । विध्यङ्गभूतानामिति । विधेयोपकारिकाणामित्यर्थः । असिद्धतयेति । तात्पर्यविषयत्वाभावेनेत्यर्थः । यत्र तु स्वोपस्थाप्यार्थस्य स्थाने इत्यादेः 'इको यणची'त्यादौ विधेयेऽन्वयस्तात्पर्यविषयस्तत्र विधेयेन सह स्वोपस्थाप्यार्थस्य सम्बन्धो भवत्येवेति सूचितम् । तथा चायमर्थः—नाप्राप्तपरम्पराधिकपरस्परया विधेयोपकारकत्वं परिभाषाणां न भवतीति। परिभाषायाः प्रधानीभूतविधेयोपकारे सम्पादनीये यावती परम्परा नाप्राप्ता ततोऽधिकपरम्परा यत्र शास्त्रे विधेयोपकारे तत्र शास्त्रे सा न प्रवर्तते इति यावत् । यथा 'षष्ठी स्थाने' इति परिभाषायाः स्वोपस्थाप्यार्थस्य साक्षादेव विधेयेनान्वयेन 'इको यणची'त्यादौ चारितार्थ्यमिति 'उदीचामात' इत्यादौ परम्परया विधेयोपकारकत्व- विषये अस्याः प्रवृत्त्यभावात् स्थानेग्रहणं चरितार्थम् । 'तस्मिन्निति परिभाषाया 'इको यणची'त्यादौ उद्देश्यमात्रघटितपरम्परया विधेयोपकारस्थले चारितार्थ्यात् 'अल्लोपोऽन' इत्यादौ तदधिकपरम्परया विधेयोपकारस्थले तस्या अप्रवृत्त्यापत्तौ 'ष्यङ्' इति सूत्रस्थ- भाष्याविरोधः स्पष्ट एवेति दिक् । न परिभाषालभ्य इति । अन्तरङ्गत्वादेव स्थानपदार्थलाभेन सूत्रस्य निर्दिश्य- मानपरिभाषार्थकथनपरत्वव्यवस्थापनादिति भावः । ज्ञापकासम्भवाच्चेति । स्थान- पदार्थस्यान्तरङ्गत्वादेव लाभेन स्वांशे चारितार्थ्याभावादित्यर्थः । अध्याहारमूलक इति । न च तदध्याहारोऽप्येतन्मूलक एवेति वाच्यम् ; गुण-वृद्धिग्रहणानुवृत्त्यादिना