परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 337, कुल 373 में से
संदर्भ में पढ़ेंइत्यनयोर्विधीयत इत्यध्याहारमूलकः । अन्यत्र तु नास्याः फलमित्यन्यत्र विस्तरः ॥ १०२ ॥ ननु 'नमस्करोति देवान्, नमस्यति देवानि'त्यादौ 'नमः स्वस्ती'ति चतुर्थी दुर्वारित्यत आह— उपपदविभक्तेः कारकविभक्तिर्बलीयसी ॥ १०३ ॥ —: ❀ :— कारकविभक्तित्वञ्च क्रियाजनकार्थकविभक्तित्वम्, तच्च प्रथमाया अप्य- स्तीति सापि कारकविभक्तिरिति 'सह युक्ते' इत्यादिसूत्रेषु भाष्ये ध्वनितम् । तदर्थसिद्धौ सूत्रे पुनर्गुणवृद्धिग्रहणसामर्थ्येन ह्रस्वादिग्रहणस्यानुवर्तमानस्य आवृत्त्या च श्चेत्यत्रापि तदर्थस्य सिद्धेरिति बोध्यम् ॥ १०२ ॥ नमस्करोतीति । ननु नमःपदार्थेऽन्वयविवक्षायां चतुर्थी, कृञ्धात्वर्थफले अन्वयविवक्षायां 'कर्मणि द्वितीये'ति विषयभेदसत्त्वात्कथं तदापत्तिः । न च निपातानां द्योतकत्वेन नमःपदार्थ-नमस्कारस्यैव कृधात्वर्थफलत्वात् एकार्थान्वयप्रयुक्तविभक्तिद्वय- प्राप्त्या तदापत्तिः सुवचा । इत एव वाऽरुचेः 'नमस्यती'त्युक्तम् । अत्र हि मुण्डयती मुण्डस्येव नमःपदार्थस्य कृञर्थत्वेन विभक्तिद्वयप्राप्तिः सुलभेति वाच्यम् ; नमः- पदार्थे क्रियाकर्मभावसम्बन्धेन अन्वयविवक्षायां द्वितीया-प्राप्तिः, अन्यसम्बन्धेन अन्वय- विवक्षायां च चतुर्थी-प्राप्तिरिति द्वयोरेकविषयाभावात् तदापादनस्याशक्यत्वादिति चेन्न । 'नमः स्वस्ती'त्यस्य उद्देश्यतावच्छेदककुक्षौ सम्बन्धविशेषानुक्त्या क्रियाकर्म- भावसम्बन्धेन अन्वयविवक्षायामपि तत्प्रवृत्तेरत्र परत्वाच्चतुर्थ्यापादनस्य सुवचत्वात् । न चैवं चतुर्थ्या अपि क्रियाजनकार्थकविभक्तित्वरूप-वक्ष्यमाणकारकविभक्तित्वेन परत्वात् चतुर्थ्यापत्तिर्दुर्वारिति वाच्यम् ; क्रियाजनकत्वमात्रार्थकविभक्तेरेव कारकविभक्तित्व- स्वीकारेण नमः स्वस्ती'त्येतद्विहितविभक्तेः 'हरये नमः' इत्यादौ क्रियाजनकत्वरूपार्थ- बोधकत्वाभावेन तन्मात्रार्थकत्वरूपोक्तकारकविभक्तित्वाभावात् । 'कर्मणि द्वितीये'ति सूत्रविहितद्वितीयायास्तु कडाऽप्यर्थान्तराबोधकत्वेन कारकविभक्तित्वस्य सुवचत्वात् । अत्र च क्रियाजनकत्वेन विवक्षितोऽर्थो ग्राह्यः, तेन 'मातुः स्मरती'त्यत्र वस्तुतो मात्रादेः क्रियाजनकत्वेऽपि न क्षतिरिति बोध्यम् । ध्वनितमिति । तत्र हि “पुत्रेण सहाऽऽगतः पिते'त्यत्र 'उपपदविभक्तेरि'ति द्योतकत्वेनेति । एवञ्च द्योतकवाचकसमभिव्याहारे विनिगमनाविरहेण उभयोरपि कृधात्वर्थफलनिष्ठविषयताप्रयोजकत्वेन कृधात्वर्थफलान्वयविवक्षायामपि नमःपदप्रयोज्यविषयता- निरूपितविषयताप्रयोजकत्वरूप-नमोयोगसत्त्वादस्ति चतुर्थी-द्वितीययोर्युगपत्प्राप्तिरिति भावः । कृधात्वर्थफलत्वादिति । कृधात्वर्थत्वादित्युचितः पाठः । इत एवेति । 'सन्तुष्यतु' न्यायेनैतत् । कृञर्थत्वेनेति । साध्यत्वेन प्रतीतिविषयत्वेनेति तदर्थः ।