भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 338, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 338

३०८ परिभाषेन्दुशेखरः [ ३ प्रकरणे-

इयं च वाचनिक्येव । अत एव 'यस्य च भावेन' इति सप्तम्यपेक्षयाऽधि- करणसप्तम्या बलवत्त्वमनेन न्यायेन 'तत्र च दीयते' इति सूत्रे भाष्ये ध्वनितं कैयटेन च स्पष्टमुक्तम् । एतेन क्रियान्वयित्वं कारकत्वमित्यपास्तम् ; 'यस्य च भावेने'ति सप्तम्या अपि क्रियान्वयित्वात् । ये तु प्रधानीभूतक्रियासम्बन्धनिमित्तकार्यत्वेन कारकविभक्तीनां बलवत्त्वं न्यायेन तृतीयां बाधित्वा प्रथमे'त्युक्तम् ; अन्यथा प्रथमार्थस्य तिङर्थकर्त्रादावन्वयेन क्रियान्वयित्वरूपकारकत्वाभावेन तदसङ्गतिः स्यादिति भावः । अत एवेति । उक्तकारकविभक्तित्वस्वीकारात् , अस्या वाचनिकत्वस्वीकारा- च्चेवेत्यर्थः । कैयटेन च स्पष्टमुक्तमिति । तत्र हि “दीयते कार्यमि'त्युभयमपि न कार्यम् , 'तत्र भव' इत्यनेनैव सिद्धत्वात् । यच्च तत्र दीयते तत्र कार्यं वा तत्तत्र भवं भवत्येवे"- त्युक्त्वा 'तत्र भव' इति सूत्रे तत्रेत्यस्य उपपदविभक्तेरिति न्यायात् औपश्लेषिका- धिकरणसप्तम्यन्तत्वकल्पनया तादृशसप्तम्यन्तादेव प्रत्ययोत्पत्तिरित्याशयेन “यन्मासे गते सति दीयते तत्र 'तत्र भव' इत्यस्याप्राप्त्या सूत्रावश्यकत्वम् । सूत्रसत्त्वे तु तत्सामर्थ्यात् 'यस्य च भावेने'ति सप्तमीविषयेऽपि एतत्प्रवृत्तिरि'त्युक्तम् । तथा चानेन न्यायेन सौत्रविभक्तितात्पर्यनिर्णयस्तत्तद्विभक्तिसाधुत्वनिर्णयश्चेत्युभयमपि क्रियते । तत्र आद्यांशे व्याख्यानं मूलम् , द्वितीयांशस्तु वाचनिक एवेति बोध्यम् । कैयटेन च स्पष्टमुक्तमितीति । अत्र मूलं “भाष्ये ध्वनितं बलवत्त्वं कैयटेन च स्पष्टमुक्तं सङ्गच्छते" इति शेषेण योजनीयम् । वाचनिकत्वानङ्गीकारे तु प्रधानान्तरङ्गत्वन्याय- मूलकत्वाङ्गीकारे द्वयोरपि प्रधानत्वस्य अन्तरङ्गत्वस्य च समत्वेन 'उपपदविभक्तेरि'ति न्याया- प्राप्त्या तदसङ्गतिरेव स्यादिति तदर्थः । ननु अनया हि एकस्मिन् लक्ष्ये द्वयोर्विभक्त्योर्युगपत्प्राप्तौ सति विरोधे कारकविभक्तेर्बल- वत्त्वबोधनेन तत्तत्कारकविभक्तेः साधुत्वं व्यवस्थाप्यते ; 'तत्र भव' इत्यत्र तु न द्वयोर्युगपत्प्राप्तिः, लक्ष्यलक्षणभावविवक्षायां सप्तमी प्राप्नोति, अधिकरणत्वविवक्षायाञ्च अधिकरणसप्तमी प्राप्नोति इति विषयभेदसत्त्वात् तदप्राप्तेरिति भाष्यासङ्गतिरिति चेदाह-तथा चानेनेति । आद्यांशे व्याख्यानं मूलमिति । व्याख्यानञ्च 'तस्मिन्नि'ति परिभाषारूपमेव । तथा हि-तस्य च औपश्लेषिकाधिकरणबोधक-सप्तम्यन्तपदार्थोपश्लिष्टस्य विधीयमानं कार्यमव्यवहितोच्चारिते सति पूर्वस्य भवतीत्यर्थः ; तथा सति तत्र तत्र विधिप्रदेशे "अचीत्यादिसप्तमीकारकविभक्त्यर्थे उप- पदविभक्त्यर्थे वा" इति सन्देहात् एतदीयस्य उद्देश्यस्य उद्देश्यतावच्छेदकरूपेणानिश्चय एव इति तदन्यथानुपपत्त्या "असति बाधके सर्वत्र सप्तम्या कारकविभक्त्यर्थ एव तात्पर्यमिति कल्प्यत" इति 'व्याख्यानत' इति परिभाषाशेषभूत एवेति आद्यांशः फलित इति भावः । तथा चोक्तम्-'स्तुकम्रोः' इति सूत्रे 'तस्मिन्नि'ति परिभाषायां सत्यां सत्सप्तम्याश्रयणमशक्यमिति । वाचनिक एवेतीति । 'नमो वरिव' इति सूत्रभाष्यानुरोधादिति भावः ।