परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 339, कुल 373 में से
संदर्भ में पढ़ें१०३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३०९ वदन्ति ; तेषामुभयोरपि क्रियासम्बन्धनिमित्तकत्वेन तदसङ्गतिः स्पष्टैव, ‘नमो वरिव’ इति सूत्रे ‘नमस्यति देवानि’त्यादौ चतुर्थीवारणाय भाष्ये उपन्यासस्यासङ्गतेश्च । एतेन क्रियाकारक सम्बन्धोऽन्तरङ्ग इति तन्निमित्ता विभक्किरन्तरङ्गा, परे तु—द्वितीयांशः प्रधानन्यायमूलक एव । अत एव ‘सह युक्ते’ इति सूत्रस्थाप्रधान- ग्रहणप्रत्याख्यानं सङ्गच्छते । निरुक्तरीत्या त्वदुक्तकारकविभक्तिस्थले ‘पुत्रेण सहा- ऽऽगतमानये’त्यादौ कथञ्चिद्दोषवारणेऽपि ‘पुत्रेण सहाऽऽगतस्य पितुर्धनमि’त्यादौ पित्रादि- शब्दात्तृतीयावारणस्याशक्यत्वमेव । एवं ‘राज्ञः पुरुषमन्तरा न गच्छती’त्यादौ सम्बन्ध- प्रतियोगिवाचकादेव षष्ठीति सिद्धान्तासिद्धिप्रसङ्गः, सम्बन्धस्य उभयनिष्ठत्वेन सम्बन्धि- वाचकात् षष्ठीविधानेऽविशेषाद् द्वाभ्यामपि षष्ठीप्रसङ्गस्य दुर्वारत्वात् । मन्मते तु पित्रादिपदात् पुरुषादिपदाच्च जायमानविभक्तेः प्रधानक्रियासम्बन्धनिमित्तकतया कारक- विभक्तिवेनोक्तपरिभाषया स्वानुयोगिकसम्बन्धबोधकोक्ततृतीयाषष्ठीरूपोपपदविभक्त्य- पेक्षया प्राबल्यबोधनेन बाधात् पितृपुरुषादिपदान्न तृतीयाषष्ठ्यादिविभक्त्यापत्ति- सम्भवः । अत्र कारकविभक्तित्वं च सापेक्षतया भिन्नं भिन्नम् । स्वार्थस्य यादृशपरम्परया प्रधानीभूतक्रियासम्बन्धित्वं ततो न्यूनपरम्परया प्रधानीभूतक्रियासम्बन्धवत्त्वं स्वापेक्षया कारकविभक्तित्वम्, तदपेक्षया च स्वस्या उपपदविभक्तित्वमिति पर्यवस्यति । न चैवं ‘नमस्यति, नमस्करोती’त्यादावपि नमस्काररूपफलसम्बन्धनिमित्तत्वस्योभयत्र साम्याद् द्वितीयायाः प्राबल्यमनुपपन्नमिति वाच्यम् ; उभयोः फलसम्बन्धित्वमात्रेण साम्येऽपि कर्मसंज्ञायां प्रधानीभूतव्यापारस्यापेक्षितत्वेन द्वितीयायाः फलापेक्षयाऽपि प्रधानभूत- व्यापारापेक्षितत्वेन बलवत्त्वस्य सुवचत्वात् । न च ‘यस्य च भावेने’ति सप्तम्यपेक्षयाऽधि- करणसप्तम्याः कारकविभक्तित्वप्रयुक्तबलवत्त्वकथनमनुक्तम्, उभयोरपि प्रधानीभूतक्रिया- सम्बन्धनिमित्तकत्वादिति वाच्यम् ; आद्यांशरूपायां ‘व्याख्यानत’ इति परिभाषाशेष- भूतायाम् ‘उपपदविभक्तेरि’ति परिभाषायां कारकविभक्तिपदेन कारकत्वव्याप्यकर्त्रादि- षट्कान्यतमार्थबोधकविभक्तेर्ग्रहणेनादोषात् । निरुक्तद्वितीयांशबोधकैतत्परिभाषायां तु ‘सह युक्ते’त्यादिसूत्रभाष्यविरोधेन तादृशकारकविभक्तित्वस्यास्वीकार एव । वस्तुतस्तु—‘तत्र भव’ इत्यत्र व्याख्यानादधिकरणसप्तमीस्वीकारेण अन्यसप्तम्यन्ता- त्तदप्रवृत्तेः फलान्तराभावेन चैतत्परिभाषान्तरस्य नोपयोगः । अत एव ‘द्विर्वचनेऽचि’- सर्वा अपि परिभाषा ज्ञापकन्यायसिद्धा इति मतानुसारेणाऽऽह—परे त्विति । निरुक्त- रीत्येति । अन्यथेत्यादिः । अशक्यमेवेति । क्रियाजनकार्थकविभक्तित्वरूप-कारकविभक्तित्वा- भावात् । स्वानुयोगिकेति । पित्रादिरूप-प्रकृत्यर्थानुयोगिकेत्यर्थः । स्वार्थस्येति । विभक्त्यर्थ- स्येति तदर्थः ।