भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 340, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 340

३१० परिभाषेन्दुशेखरः [ ३ प्रकरणे- उपपदार्थेन तु यत्किञ्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेत्यपास्तम् ; 'नमस्यती'त्यत्र नमःपदार्थेऽपि क्रियाकारक- भावेनान्वयात् । अत्र च नमःपदार्थस्यापि क्रियात्वं मुण्डयतो मुण्डस्येव । 'सह युक्ते' इत्यादौ च प्रधाने प्रथमासाधनार्थमियं भाष्य उपन्यस्ते- त्यन्यत्र विस्तरः ॥ १०३ ॥ ननु 'अदमुयडि'त्यादौ पूर्वस्यापि मुत्वापत्तिरत आह— अनन्त्यविकारेऽन्त्यसदेशस्य ॥ १०४ ॥ -: ❖ :- अन्त्यसदेशाऽनन्त्यसदेशयोरेकप्रयोगे युगपत्प्राप्तौ अन्त्यसदेशस्यैवेति तदर्थः ; अन्यथा धात्वादेर्नत्वसत्वे 'नेता, सोत्ते'त्यादावेव स्याताम्, न तु 'नमति, सिञ्चती'त्यादौ । अनन्त्यविकार इति च लिङ्गम् । इत्यादौ तन्निमित्त इत्यर्थलाभः । 'तत्र च दीयते' इति सूत्रे कैयटेनैषा भाष्याशयप्रदर्श- नाय दर्शिताऽपि भाष्ये कुत्रापि स्पष्टं नोपलभ्यते इति बोध्यम् । न चैवमपि 'देवा नम- स्क्रियन्त' इत्यादौ कर्मप्रत्यये फलस्यैव प्राधान्येन तत्सम्बन्धनिमित्तकचतुर्थ्यापत्तिर्दुर्वा- रेति वाच्यम् ; कर्मप्रत्यये फलस्य कथञ्चिद्विशेष्यत्वेऽपि व्यापारस्य प्रधानत्वबोधे माना- भावात् । अत एव कर्मसंज्ञोपपत्तिः ; अन्यथाऽत्र व्यापारस्याप्रधानत्वेन प्रधानीभूतव्यापार- प्रयोज्यफलाश्रयत्वप्रयुक्तायाः कर्मसंज्ञाया अप्रवृत्त्यापत्तिः । स्पष्टं चेदं 'सह युक्ते'ति सूत्रे भाष्यकैयटयोरिति वदन्ति ॥ १०३ ॥ मुत्वापत्तिरिति । न च परिभाषासत्त्वेऽपि 'अदस' इति शास्त्रस्य 'अमी'त्यादावन्त्य- वर्णवृत्तिकारप्रयोजकत्वेन एतत्परिभाषाप्रवृत्त्ययोगात् तदापत्तिर्दुर्वारेति वाच्यम् अत्र विधेयभेदेन वाक्यभेदात् मत्वविधायकैतच्छास्त्रस्य अन्त्यवृत्तिकाराप्रयोजकत्वेन अन्त्य- सदेशस्यैव मत्वविधानात् पूर्वपदस्य तत्प्राप्तेरभावात् । एवञ्च 'संनियोगशिष्ट'न्यायेन आकारे उत्वस्याप्यप्रवृत्तिरिति बोध्यम् । युगपत्प्राप्ताविति । क्वचिदिति शेषः, तेन 'अमी'त्यादौ तदसत्त्वेऽपि न क्षतिः । इति चेति । चेन अन्त्यसदेशानन्त्यसदेशयोरिति प्रागुक्तसङ्ग्रहः । तथा च इत्यर्थलाभ इति । 'कर्तृकर्मणोः कृति' इत्यादौ 'कृति सती'त्यर्थलाभ इत्यपि बोध्यम् । विशेष्यत्वेऽपीति । शाब्दप्राधान्यसत्त्वेऽपोत्यर्थः । प्रधानत्वबाध इति । अन्यानधीनत्व-लक्षणार्थ- प्राधान्यस्य बाधे इत्यर्थः ॥ १०३ ॥ परिभाषाप्रवृत्त्ययोगादिति । 'अन्त्यं विकारयति' इति व्युत्पत्त्या अन्त्यवृत्तिकारा- प्रयोजके तत्प्राप्तेरिति भावः ।