परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 96, कुल 373 में से
संदर्भ में पढ़ें६६ परिभाषेन्दुशेखरः [ १ प्रकरणे- एवं 'जराया जर'िति विग्रहे 'जराजरसे' इत्यत्र पूर्वत्र शाब्दीयविषयताया अभावेन न जरसादेशः । पूर्वस्य निर्दिश्यमानत्वाभावे च 'पादः पद'िति सूत्रस्थभाष्यमेव मानम् । तत्र हि 'सुपादि'ति समुदायस्यादेशवारणाय 'पाद उपधाया ह्रस्वत्वं वक्तव्यम'िति वार्तिककृतोक्ते, 'न वक्तव्यं निर्दिश्यमानस्यादेशा भवन्तीत्येव सिद्धम'ित्युक्तम् । 'सुपात्पद' इत्यत्र 'पाच्छब्दान्तं यदङ्गं तदवयवोपधाया ह्रस्व' इत्यर्थकवचनेन वार्तिकमते 'सुपात्पद' इति रूपम्, भाष्यमते तु पूर्वस्य निर्दिश्यमानत्वेन 'सुपत्पद' इति रूपमिति फलभेदात् प्रत्याख्यानासम्भवेन तत्कल्पनात् । नन्वेवमपि जराशब्दस्य 'नित्यवीप्सयोर'िति द्वित्वे 'अतिजराजरसे'त्यत्राष्ट- मिकद्वित्वस्य अनस्तमितावयवभेदस्य सर्वसम्मतत्वेनोत्तरस्यापि शाब्दीयविषयता- श्रयत्वात् समुदायस्य तद्धटितत्वेनोक्तनिर्दिश्यमानत्वानापत्तिरिति चेन्न । इष्टापत्तेः; 'अतिजराजरसे'ति रूपस्यैव तत्रैष्टत्वात् । अत एव 'पादः पद'िति सूत्रस्थोक्तभाष्यं सङ्गच्छते । तन्मते 'अतिपात्पद' इत्यत्र पदद्वित्वे भाष्य-वार्तिकयोः फलभेदेन तत्प्रत्या- ख्यानमसङ्गतं स्यात् । किञ्च-'इ म अ' इत्येव सिद्धे ककारोच्चारणमकच्सहितस्या- प्ययमादेश इत्यर्थज्ञापनाथम् । 'अश्वचनं साकच्चार्थम'ित्यादिभाष्यमप्यत एव सङ्गच्छते; अन्यथा स्थाने द्विर्वचनस्थले समुदायस्यादेशार्थं तदावश्यकत्वेन ज्ञापक- परभाष्यासङ्गत्यापत्तिः । अत एव मूलकृता स्थाने द्वित्वेऽपि समुदायस्य निर्दिश्य- मानत्वाभावेन तत्र विशेषाभावात् 'त्रेस्त्रयङ् न कृतः, जराया असुङ् न कृत' इत्याद्युक्तम् । इत्याद्युक्तम् । 'देवीमब्रवीदिति देवद्रयङि'त्यत्र निरुक्तशाब्दबोधीयविषयताया देवीशब्दे एव सत्त्वेन तादृशविषयताश्रयाघटितत्वेन च निर्दिश्यमानत्वादद्रयादेशसिद्धिः । ननु यदागम-न्यायस्य निरुक्तार्थे लक्षणाग्राहकत्वस्वीकारे साक्षादानुपूर्व्यंव- च्छिन्नमुख्यविशेष्यताप्रयोजकत्वरूप-वक्ष्यमाणविशिष्टरूपोपादानत्वस्य जराशब्दादौ न जरसादेश इति । प्रत्ययस्याङ्गांशे उत्थिताकाङ्क्षतया अङ्गे एवान्वयेन तत्प्राप्तेरिति भावः । सप्तम्यन्त-पञ्चम्यन्तपदयोर्निर्दिश्यमाने एवान्वये तु पूर्वस्य प्राप्तिरेव नास्तीति बोध्यम् । अत्रेदं बोध्यम्-पदद्वित्वस्थले समुदायस्यैव निर्दिश्यमानत्वमित्येकं मतम् ; उत्तरपद- स्यैव निर्दिश्यमानत्वमित्यपरम्, इदमेवादृतं शेखरकृता । अत एव 'प्रतिपत्तिलाघवाय जराया असुङ् न कृतः, त्रेस्त्रयङ् न कृत' इति शेखरग्रन्थे 'प्रतिपत्तिलाघवाये'ति कथनं सङ्गच्छते; अन्यथा पदद्वित्वस्थले समुदायस्य निर्दिश्यमानत्वे जरसादेशपक्षे समुदायस्यादेशः, असुङ्पक्षे चान्त्यस्य स्यादिति प्रयोगे विशेषसत्त्वेन प्रतिपत्तिलाघवायेत्येतन्मात्रोक्तिः कथं सङ्गच्छेत ? डित्त्व- सामर्थ्यमूलक'ङिच्चे'ति प्रवृत्तौ ज्ञानगौरवं स्यादिति तदर्थः । तत्राऽऽद्यमतानुसारेण आशङ्कते— नन्वेवमिति । शेखरकृन्मतानुसारेण समाधत्ते—इष्टापत्तेरिति । अनेन टीकाकृतामपीदमेव सम्मतमिति प्रतिभाति । अत एव चाग्रिमाण्यपि लक्षणानि तदनुसारेणैव प्रदर्शितानि । तन्मतोपष्ट- म्भकानि प्रमाणान्याह—अत एवेत्यादिः । यदागमपरिभाषाया लक्षणाग्राहकत्वाङ्गीकारे पा-पदप्रयोज्या स्वावयवमात्रघटितत्व- सम्बन्धावच्छिन्ना पात्वेन साक्षादवच्छिन्ना प्रकारता जाता, न तु तेनावच्छिन्ना मुख्यविशेष्यतेति विशिष्टरूपोपादानाभावेन 'अर्थवद्ग्रहणे'परिभाषा न प्रवर्ततेत्याशयेन आशङ्कते—नन्विति ।