भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 147, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 147

१४६ फलदीपिका कीर्तिमद्भीरनुजैरभिष्टुतो लालितो महितविक्रमयुक्तः । शौर्यजो भवति राम इवासौ राजकार्यनिरतोऽतियशस्वी ॥४७॥ गोसंपद्धनधान्यशोभिसदनं बन्धुप्रपूर्णं वर- स्त्रीरत्नाम्बरभूषणानि महितस्थानं च सर्वोत्तमम् । प्राप्नोत्यम्बुधियोगजः स्थिरसुखो हस्त्यश्वयानादिगो राजेज्यो द्विजदेवकार्यनिरतः कूपप्रपाकृत्पथि ॥४८॥ सुसंसारसौभाग्यसन्तानलक्ष्मी निवासो यशस्वी सुभाषी मनीषी । अमात्यो महीशस्य पूज्यो धनाढ्यः स्फुरत्तीक्ष्णबुद्धिर्भवेच्छत्रयोगे ॥४९॥ शत्रून् बलिष्ठान् बलवन्निगृह्य क्रूरप्रवृत्त्या सहितोऽभिमानी । व्रणाङ्किताङ्गश्च विवादकारी स्यादास्त्रयोगे दृढगात्रयुक्तः ॥५०॥ परदारपराङ्मुखो भवेद्वरदारात्मजबन्धुसंश्रितः । जनकादधिकः शुभैर्गुणैर्महनीयां श्रियमेति कामजः ॥५१॥ हन्त्यन्यकार्यं पिशुनः स्वकार्यपरो दरिद्रश्च दुराग्रही स्यात् । स्वयंकृतानर्थपरंपरार्तः कुकर्मकृच्चासुरयोगजातः ॥५२॥ चञ्चच्चामरवाद्यघोषनिबिडामान्दोलिकां शाश्वतीं लक्ष्मीं प्राप्य महाजनैः कृतनतिः स्याद्धर्ममार्गे स्थितः । प्रीणात्येष पितॄन् सुरान्द्विजगणांस्तत्तत्प्रियैः पूजनैः स्वाचारः स्वकुलोद्वहः सुहृदयः स्याद्भाग्ययोगोद्भवः ॥५३॥

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक) · पृष्ठ 147, कुल 684 में से · BharatKosha