भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 155, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 155

१५४ फलदीपिका सुवचनशून्यो विफलकुटुम्बः कुजनसमाजः कुदशनचक्षुः । मतिसुतविद्याविभवविहीनो रिपुहृतवित्तः प्रभवति निःस्वे ॥५९॥ अरिपरिभूतः सहजविहीनो मनसि विलज्जो हतबलवित्तः । अनुचितकर्मश्रमपरिखिन्नो विकृतिगुणः स्यादिति मृतियोगे ॥६०॥ मातृवाहनसुहृत्सुखभूषाबन्धुभिर्विरहितः स्थितिशून्यः । स्थानमाश्रितमनेन हृतं स्यात् कुस्त्रियामभिरतः कुहूयोगे ॥६१॥ दुःखजीव्यनृतवागविवेकी वञ्चको मृतसुतोऽप्यनपत्यः । नास्तिकोऽल्पकुजनं भजतेऽसौ घस्मरो भवति पामरयोगे ॥६२॥ सुखभोगभाग्यदृढगात्रसंयुतो निहताहितो भवति पापभीरुकः । प्रथितप्रधानजनवल्लभो धन- द्युतिमित्रकीर्तिसुतवांश्च हर्षजः ॥६३॥ स्वपत्नीवियोगं परस्त्रीरतीच्छा दुरालोकमध्वानसंचारवृत्तिः । प्रमेहादिगुह्यार्तिमुर्वीशपीडां वदेद्दुष्कृतौ बन्धुधिक्कारशोकम् ॥६४॥ दीर्घायुष्मान् दृढमतिरभयः श्रीमान्विद्यासुतधनसहितः । सिद्धारम्भो जितरिपुरमलो विख्याताख्यः प्रभवति सरले ॥६५॥ पित्रार्जितक्षेत्रगृहादिनाशकृत् साधून् गुरून्निन्दति धर्मवर्जितः । प्रत्नातिजीर्णाम्बरधृच्च दुर्गतो निर्भाग्ययोगे बहुदुःखभाजनम् ॥६६॥