फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 181, कुल 684 में से
संदर्भ में पढ़ेंआठवाँ अध्याय भावाश्रय फल इस अध्याय में सूर्य आदि ग्रहों के भाव फल बताये गये हैं। लग्नेऽर्केऽल्पकचः क्रियालसतमः क्रोधी प्रचण्डोन्नतो मानी लोचनरूक्षकः कृशतनुः शूरोऽक्षमो निर्घृणः। स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमान् दारिद्र्योपहतो विनष्टतनयो जातस्तुलायां भवेत् ॥१॥ विगतविद्याविनयवित्तं स्खलितवाचं धनगतः सबलशौर्यश्रियमुदारं स्वजनशत्रुं सहजगः । जनयतीमं सुहृदि सूर्यो विसुखबन्धुक्षितिसुहृद् भवनमुक्तं नृपतिसेवा जनकसंपद्व्ययकरम् ॥२॥ सुखधनायुस्तनयहीनं सुमतिमात्मन्यटविगं प्रथितमुर्वीपतिमरिस्थः सुगुणसंपद्विजयगम् । नृपविरुद्धं कुतनुमस्तेऽध्वगमदारं ह्यवमतं हतधनायुः सुहृदमर्को विगतदृष्टिं निधनगः ॥३॥ विजनकोऽर्के ससुतबन्धुस्तपसि देवद्विजमनाः ससुतयानस्तुतिमतिश्रोबलयशाः खे क्षितिपतिः । भवगतेऽर्के बहुधनायुर्विगतशोको जनपतिः पितुरमित्रं विकलनेत्रो विधनपुत्रो व्ययगते ॥४॥