फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 280, कुल 684 में से
संदर्भ में पढ़ेंचौदहवाँ अध्याय : रोगनिर्णय २७९ जन्म के पहिले, मृत्यु के बाद की स्थिति । स्वोच्चे स्वमित्रे सति सौम्यवर्गे व्ययाधिपे चोर्ध्वगतिं ससौम्ये विपर्ययेऽधोगतिमेव केचित्- ऊर्ध्वास्यशीर्षोदयराशिभेदात् ॥२२॥ कैलासं रविशीतगू भृगुसुतः स्वर्गं महीजो महीं वैकुण्ठं शशिजो यमो यमपुरं सद्ब्रह्मलोकं गुरुः । द्वीपान् भोगिवरः शिखी तु निरयं सम्प्रापयेत्प्राणिनः सम्बन्धाद्व्ययनायकस्य कथयेत्तत्रान्त्यराश्यंशतः ॥२३॥ धर्मेश्वरेणैव हि पूर्वजन्म वृत्तं भविष्यज्जननं सुतेशात् । तदीशजातिं तदधिष्ठितर्क्षं दिशं हि तत्रैव तदीशदेशम् ॥२४॥ स्वोच्चे तदीशे सति देवभूमिं द्वीपान्तरं नीचरिपुस्थलस्थे । स्वर्क्षे सुहृद्भे समभे स्थिते वा सम्प्राप्नुयाद्भारतवर्षमेव ॥२५॥ आर्यावर्तं गीष्पतेः पुण्यनद्यः काव्येन्द्रोश्च ज्ञस्य पुण्यस्थलानि । पङ्गोर्निन्द्या म्लेच्छभूस्तीक्ष्णभानोः शैलारण्यं कीकटं भूमिजस्य ॥२६॥