भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 388, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 388

बीसवां अध्याय : अन्तर्दशाफल ३८७ शौर्ये सवीर्ये सहजानुकूल्यं सन्तोषवार्ताश्रवणं च शौर्यम् । सेनापतित्वं लभतेऽभिमानं जनाश्रयं सद्गुणभाजनत्वम् ॥४॥ बन्धूपकारं कृषिकर्मसिद्धि स्त्रीसङ्गमं वाहनलाभमेति । क्षेत्रं गृहं नूतनमर्थसिद्धि स्थानंप्रशस्तं च सुखेशदाये ॥५॥ पुत्रप्राप्तिं बन्धुविलासं नृपतीनां साचिव्यं वा धीशदशायां बहुमानम् । प्राज्यैर्भोज्यैर्मृष्टमिहाश्नाति ददाति श्रेयस्कार्यं सज्जनशस्तं स विदध्यात् ॥६॥ रिपून्निहन्ति साहसैररीश्वरस्य वत्सरे । अरोगतामुदारतामधृष्यतामतिश्रियम् ॥७॥ सम्पाद्य वस्त्राभरणानि शय्यां प्रीतो रमण्या रमतेऽतिवीर्यः । करोति कल्याणमहोत्सवादीन् सन्तोषयात्रां च मदेशदाये ॥८॥ ऋणविमोचनमुच्छ्रितिमात्मनः कलहकृत्यनिवृत्तिमुपैति सः । महिषपश्वजभृत्यजनागमं वयसि रन्ध्रपतेर्बलशालिनः ॥९॥ स्त्रीपुत्रपौत्रैः सहबन्धुवर्गै- र्भाग्यंश्रियं चानुभवत्यजस्रम् ।