प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 153, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १३५ भ्रूभङ्गभीमपरिपारटलदृष्टिपात- मुद्गाढकोपकुटिलं च तथा व्यलोकि । सा वज्रपातहतशैलशिलेव भूमौ व्याभुग्नजर्जरशिरोऽस्थि यथा पपात ॥ ४ ॥ मैत्री—दिष्ट्या मया दृष्टा क्रुद्धशार्दूलमुखाद्विभ्रष्टा मृगीव क्षेमेण संजीविता प्रियसखी । (दिट्ठिआ मए दिट्ठा कुद्धसद्दूलमुहादो विब्भट्ठा मिईव क्खेमेण संजीविदा पिअसही) श्रद्धा—ततो देव्या समुपजाताभिनिवेशमुक्तमेवमस्य दुरात्मनो महा- मोहहतकस्य मामप्यवज्ञाय प्रवर्तमानस्य समूलमुन्मूलनं करिष्यामीति । वशहृदयया । देव्या-विष्णुभक्त्या । भ्रूभङ्गेति० (विष्णुभक्त्या देव्या सा भैरवी) भ्रुवोः भङ्गः कौटिल्यम् तेन भीमः भयङ्करः, परिपाटलः श्वेतरक्तश्च दृष्टिपातो यत्र कर्मणि तत्तथा, उद्गाढकोपकुटिलम् समधिकक्रोधवक्रं च तथा तेन प्रकारेण व्यलोकि दृष्टा, यथा सा भैरवी वज्रपातहत- शैलशिला अशनिपतनातहतपर्वतशिखर इव व्याभुग्नजर्जरशिरोऽस्थि व्याभुग्नं कुटि- लीभूतं जर्जरं चूर्णितञ्च शिरोऽस्थि यत्र तथा भूमौ पपात । कुटिलभ्रूयुतरक्तदृष्ट्या देव्या विलोकनप्रभावेण दिवः पतन्त्यास्तस्या भैरव्याः शिरोऽस्थिचूर्णं वज्राहतशिलेव च सा भूमावपतत् इत्यर्थः ॥ ४ ॥ 'ततः परम्' इत्यारभ्य 'पपात' इत्यन्तेन विष्णुभक्तेरुत्कर्षप्रतिपादनात् उदा- हरणाख्यं चतुर्थमङ्गमपन्यस्तं वेद्यं तथा च तल्लक्षणम्-'उत्कर्षेणान्वितं वाक्यमुदाहरण- मिष्यते' इति । क्रुद्धशार्दूलमुखात्-कुपितव्याघ्रवदनात्, विभ्रष्टा-च्युता, क्षेमेण- कुशलपूर्वकम् । यथा कुपितेन व्याघ्रेण धृता मृगी कदाचिदेव भाग्यवशात्ततो भ्रष्टा जीवति तथैवाकस्मादेव भवत्या जीवितमिति धन्यं तव सौभाग्यमिति भावः । समुपजाताभिनिवेशम्-सक्रोधम् । एवम्-दृष्टेन प्रकारेण । महामोहहतकस्य- भौंहें टेढ़ी करके रक्त नेत्रोंसे कोपकुटिल रूपमें देवीने इस प्रकार देखा कि वह वज्राहत शिलाखण्डकी तरह गिरी, उसका सिर जर्जर हो गया और उसकी हड्डी चूर चूर हो गई ॥४॥ मैत्री—भाग्यवश मैं कुपित शार्दूलमुखपतित मृगीके समान सकुशल जीती हुई सखीको देख सकी । श्रद्धा—इसके बाद आवेशमे आकर देवीने कहा कि यह दुष्ट महामोह मुझे भी अप मानित करके प्रवृत्त हो रहा है इसलिये उसका समूल उन्मूलन कर दूँगी। देवीने मुझे