प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 154, कुल 274 में से
संदर्भ में पढ़ें१३६ प्रबोधचन्द्रोदयम् आदिष्टा चाहं देव्या । यथा गच्छ श्रद्धे, ब्रूहि विवेकम् । कामक्रोधादीनां निर्जयायोद्योगः क्रियताम् । ततो वैराग्यं प्रादुर्भाविष्यति । अहं च यथा- समयं प्राणायामाद्यनुप्राणनेन युष्मत्सैन्यमनुग्रहीष्यामि । ऋतंभरादयश्च देव्यः शान्त्यादिकौशलेनोपनिषद्देव्या संगतस्य भगवतः प्रबोधोदयमनु- विधास्यन्तीति । तदहमिदानीं विवेकसंनिधि प्रस्थिता । त्वं पुनः किमा- चरन्ती दिवसानतिवाहयसि । मैत्री—वयमपि विष्णुभक्तेराज्ञया चतस्रो भगिन्यो विवेकसिद्धि- कारणेन महात्मनां हृदयेऽभिवर्त्तामहे । ( अम्हेवि विण्णुभत्तीए आणाइए चतस्सो बहिणीओ विवेजसिद्धिकालणेण महाप्पणं हिअए अहिवट्टम्हो ) ( संस्कृत- माश्रित्य ) तथाहि— नीचस्य मोहस्य अवज्ञाया-अगणयित्वा । प्रवर्त्तमानस्य-विजृम्भमाणस्य । ममापि समीपे स्थितयोर्धर्मश्रद्धयोः सरभसमाहरणाय मोहेन महाभैरवी प्रेषिता तत्तस्य मां प्रति तिरस्कारप्रदर्शनं महानपराध इति प्रसङ्गः । समूलमुन्मूलनम्-सान्वयविना- शम् । आदिष्टा-आज्ञप्ता । निर्जयाय-विजेतुम् । यथासमयम्-योग्य काले । प्राणाया- माद्यनुप्राणनेन-प्राणायामप्रत्याहारध्यानधारणादीनामुज्जीवनेन । युष्मत्सैन्यम्-तव परिकरम् । ऋतम्भराद्याः ऋतम्भराप्रभृतयः, ऋतम्भरा नाम प्रज्ञा निर्वीजसमाधौ जायते यस्यां जातायां शुद्धं ज्ञानमाविरस्ति, तदुक्तं योगदर्शने-'निर्विचारवैशारद्येऽ- ध्यात्मप्रसादः' 'ऋतम्भरा तत्र प्रज्ञा' 'श्रुतानुमानं प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्' । शान्त्यादिकौशलेन-शान्तिप्रभृत्युपायेन, मानिन्यो हि शान्त्याद्युपायैः पुरुषाभिमुख्यः क्रियन्त इति प्रथितमेव । ( उपनिषद्-जननी, विवेकः पिता, प्रबोधो भावी पुत्रः, उपनिषदा विवेकं योजयितुमपेद्यमाणाः शान्त्यादयः ) अनुविधास्यन्ति-सम्पाद- यिष्यन्ति । विवेकसंनिधिं प्रस्थिता-विवेकपार्श्वं चलिता । अतिवाहयसि-यापयसि । आज्ञा दी है कि-श्रद्धे, जा, विवेकसे कहदे, वह काम-क्रोध आदिको जीतनेकी तैयारी करे । इससे वैराग्यकी उत्पत्ति होगी । मै यथा समय प्राणायाम आदिसे तुम्हारे सैन्यकी सहायता किया करूंगी । ऋतंभरा आदि देवियाँ शान्ति आदिके कौशलसे विवेकके साथ देवी उपनिषद्की सङ्गति कराकर प्रबोधोदय करेंगे । अतः मैं इस समय विवेकके पास चली हूँ । तुम क्या करती हुई दिन बिताती हो ? मैत्री—हम भी विष्णुभक्तिकी आज्ञासे चारो बहनें विवेककी सफलताके लिये महा- त्माओके हृदयमें रहा करती हैं । (संस्कृत द्वारा) देखिये—