भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 155, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 155

चतुर्थोऽङ्कः १३७ ध्यायन्निमां सुखिनि दुःखिनि चानुकम्पां पुण्यक्रियेषु मुदितां कुमताबुपेक्षाम् । एवं प्रसादमुपयाति हि रागलोभ- द्वेषादिदोषकलुषोऽप्ययमन्तरात्मा ॥ ५ ॥ तदेवं चतस्रोऽपि भगिन्यो वयं तदभ्युदयकारणेनैव वासरान्नयामः । कुत्रेदानिं प्रियसखी महाराजमालोकयति । श्रद्धा—देव्या एतदेवमुक्तम् । अस्ति राढाभिधानो जनपदः । तत्र चतस्रो भगिन्यः-मैत्रीकरुणामुदितोपेक्षाः । विवेकसिद्धिकारणेन-विवेकस्याभि- मतं साधयितुम् । ध्यायन्निमामिति० अन्तरात्मा जीवः सुखिनि सुखयुक्ते जीवे इमाम् मैत्रीम् , दुःखिनि खिन्ने च जीवे अनुकम्पाम् कृपाम् करुणावृत्तिम् , पुण्या क्रिया येषां ते पुण्यक्रियाः सुकृतिनस्तेषु मुदिताम् सन्तोषरूपाम् , कुमतौ कुकार्यकरे उपेक्षाम् उदासीनतारूपाम् ध्यायन् चिन्तयन् एवम् अनेन प्रकारेण रागलोभद्वेषादिदोषक- लुषः तैस्तैर्दोषैर्मलिनीकृतोऽपि प्रसादम् निर्मलत्वलक्षणां शुद्धिं निर्दोषताम् उपयाति । अयमर्थः—अन्तरात्मा रागादिदोषदूषितोऽपि चतसृभिराभिर्वृत्तिभिरुपेतः कतकरजो- मिश्रितजलवदपेतमलः स्वाभाविकीं निर्मलतां प्राप्नोति, उपेक्षया कुमतिसंसर्ग- निरासाद्रागादयः परास्ताः, पुण्यक्रियेषु मुदिताऽऽलम्बनात् संगतिमाहात्म्यान्मोह- निरासः, दुःखिषु करुणया क्रोधादिविनाशः, सुखिनि मैत्र्या द्वेषप्रशमः, तदेवं मैत्र्या- दिभिश्चित्ते निर्मलतामापादिते निर्मलत्वमात्मनो भासत इति । उक्तश्चायमर्थः सूत्र- रूपेण योगदर्शने—'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव- नातश्चित्तप्रसादनम्' इति । वसन्ततिलकं वृत्तम् , लक्षणमन्यत्रोक्तम् ॥ ५ ॥ वयम्-मैत्र्यादयः । तदभ्युदयकारणेन-विवेकसमुन्नतये । प्रियसखी-भवती मैत्री । महाराजमालोकयति-महाराजस्य विवेकस्य दर्शनं प्राप्नोति, महाराजोऽधुना कुत्रा- स्तीति भावः । देव्या-विवेकपत्न्या मत्या । एतत-महाराजस्य स्थानम् । जनपदः-देशः । सुखियोंके ऊपर मैत्री, दुःखियोंके ऊपर करुणा, धर्मात्माओंमें मुदिता और दुर्बुद्धियों पर उपेक्षा इसप्रकार वृत्ति रखनेसे रागद्वेषकलुष होकर भी यह अन्तरात्मा प्रसाद प्राप्त करता है ॥ ५ ॥ इस प्रकार हम चारों बहनें विवेकके अभ्युदयके लिये ही दिन बिता रही हैं । तुम इस समय महाराजसे कहाँ मिलोगी ? श्रद्धा—देवीने इस विषयमें इस प्रकार कहा है । 'राढा नामका एक देश है, वहाँ