प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 267, कुल 274 में से
संदर्भ में पढ़ेंसुभाषितानि
'प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम्' ॥ 'एकाभिषप्रभवमेव सहोदराणामुज्जृम्भते जगति वैरमिति प्रसिद्धम् ।' 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते' ॥ 'सैर्ष्यं प्रायेण योषितां भवति हृदयम्' । 'मूर्खबहुलं जगत्' । 'ब्रीहीञ्जिहासति सितोत्तमतण्डुलाढ्यान् । को नाम भोस्तुषकणोपहितान् हितार्थी' ॥ 'लघीयस्यपि रिपौ नानवहितेन जिगीषुणा भवितव्यम्' । 'अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय । विश्वेश्वराराधनवीजजातात्तत्त्वावबोधादपरोभ्युपायः' ॥ 'प्रायः सुकृतिनामर्थेदेवा यान्ति सहायताम् । अपन्थानं तु गच्छन्त सोदरोऽपि विमुञ्चति'॥ 'निर्दहति कुलमशेषं ज्ञातीनां वैरसंभवः क्रोधः' । 'यद्यप्यभ्युदयः प्रायः प्रमाणादवधार्यते । कामं तथाऽपि सुहृदामनिष्टाशङ्किमानसम्' ॥ 'समानान्वयजातानां परस्परविरोधिनाम् । परैः प्रत्यभिभूतानां प्रसूते सङ्गतिः श्रियम्' ॥
प्रबोधचन्द्रोदयगतानि छन्दांसि
१. अनुष्टुप्— श्लोके षष्ठं गुरुर्ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः' ॥ २. आर्या—'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या' ॥ ३. इन्द्रवज्रा । ४. उपेन्द्रवज्रा । ५. उपजाति । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' 'उपेन्द्रवज्रा जतजास्ततो गौ' 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' ६. पृथ्वी—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' । ७. मन्दाक्रान्ता—'मन्दाक्रान्ता जलधिषडगै म्भौ नतौ ताद्गुरू चेत्' ८. शालिनी—'मात्तौ गौ चेच्छालिनी वेदलोकैः' । ९. वंशस्थम्—'जतौ तु वंशस्थमुदीरितं जरौ' १०. वसन्ततिलका—'उक्तावसन्ततिलका तभजा जगौ गः' ११. शार्दूलविक्रीडितम्—'सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्' ॥ १२. शिखरिणी—'रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी' ॥