भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 268, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 268

नाटकीया विषया स्वगतम् ( आत्मगतम् ) 'अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्' । प्रकाशम्— 'सर्वश्राव्यं प्रकाशं स्यात्' अपवार्य्य— '...तद्भवेदपवारितम्' । रहस्यं तु यदन्यस्य परावृत्य प्रकाश्यते । त्रिपताककरेणान्यानपवार्यान्तराकथाम्' जनान्तिकम्— 'अन्योऽन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम्' ॥ नेपथ्यम्— 'नटानां वेषपरिग्रहस्थानम्' नाटकम्— 'नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसुसंयुतम् । प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः एक एव भवेदङ्गी शृङ्गारो वीर एव वा' अङ्गमन्ये रसाः सर्वे कार्ये निर्वहणेऽद्भुतः' [ लक्षणमिदमत्रग्रन्थे न समन्वेति, तथापि नाटकशब्देन प्राचीनैर्व्यवहृतोऽयं ग्रन्थः अङ्कः— 'प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः । भवेदगूढशब्दार्थःक्षुद्रचूर्णकसंयुत नानेकदिननिर्वर्त्य कथया संप्रयोजितः । आवश्यकानां कार्याणामविरोधाद्विनिर्मितः । प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः । अन्तर्निष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः' नान्दी— आशीर्वचनसंयुक्तास्तुतिर्यस्मात् प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीतिसंज्ञिता मङ्गल्यशङ्खचन्द्राब्जकोककैरवशंंसिनी । पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत' ॥ सूत्रधारः— 'नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं धारयते यस्तु सूत्रधारः स कथ्यते' ॥ प्रस्तावना— 'नटी विदूषको वापि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनाऽपि सा' ॥ विष्कम्भकः— 'वृत्तवर्त्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥ प्रवेशकः— 'प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा' ॥