प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 37, कुल 274 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः १५ यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयस्तु निर्विकार- चित्तैकसाध्यत्वाद्दीषत्करसमुन्मूलना एव । अपि च स्त्रिय एवामीषां कृत्या- स्तेनैतेऽस्मद्गोचरा एव वर्तन्ते । यतः— सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥ १६ ॥ यमः कायचेष्टानिरोधः नियमो मनश्चेष्टानिरोधः आसनं धर्माधर्मक्षेपणम् । यद्वा वेदान्तवाक्यविचारोद्योग आसनम् । अथवा सिद्धासनपद्मासनादिकमत्रासन विव- क्षितम् । प्राणादीनां वायूनां मनसा सह संयमनं प्राणायामः । मनसो विषयादिभ्यो निवृत्तिः प्रत्याहारः । आत्मचिन्तनं ध्यानम् । आत्मचिन्तनस्यैव कञ्चित्कालमनुवृत्ति- र्धारणम् । समाधिः सम्यगाध्यानम् । ( अमी ) निर्विकारचित्तैकसाध्यत्वात् । अवि- कृतचित्तसाध्यत्वात् । ईषत्करसमुन्मूलनाः । सुखमुन्मूलयितु शक्याः । यमादीनामेशां सिद्धौ विकाररहितं चित्तमपेक्षितं चित्तविकारश्च मया सुकरस्तद्यमाद्युन्मूलनं मया नितान्तसुकरमिति भावः । अमीषाम् यमादीनाम् । कृत्याः डाकिन्यः । डाकिन्यो हि स्वीयमन्त्रतन्त्रप्रभावेण बालान्युन्मथ्य सहरन्ति तथैव कामिन्यश्चित्तविकारोत्पा- दनविधया यमान् विपादयन्तीति तासां तान्प्रति डाकिनीत्वेन रूपणम् । अस्म- द्गोचराः-अस्मद्वशगाः । कामिनीनां मदङ्गभूतत्वेन यमादीनां शक्यमुन्मूलनं मया कर्तुमिति भावः । सन्त्विति० विलोकनम् नायकयोरन्योन्यदृष्टिमेलनम् , भाषणम् अन्योन्यसंलापः, विलासः नायकस्य पुरस्ताल्लीलाप्रदर्शनम्, परिहासश्चतुरनर्मोक्तिः, केलिर्जलक्रीडादिः, परिरम्भः अन्योन्यालिङ्गनम् , अमी सन्तु पृथक् तिष्ठन्तु । कामिनीनां वनितानां स्मरणम् अपि इह शान्तप्रकृतिके पुरुषे मनसः चित्तस्य विकारायास्थैर्याय अलम् समर्थम् । दूरे तिष्ठन्तु विलोकनादयः केवलं कामिनीस्मरणेनैव पुरुषाणां चित्तानि व्याक्षिप्यन्ते तदन्न यमादीनां चित्तस्थैर्यमात्रावस्थायिनामुन्मूलनं नितान्तसरलमिति भावः आर्याभेदो वृत्तम् ॥ १६ ॥ निर्विकार चित्तमे उत्पन्न होनेवाले यम, नियम, आसन, प्राणायाम, प्रत्याहार, ध्यान, धारणा और समाधि आसानीसे नष्ट किये जा सकते हैं । जब स्त्रियां ही इनका संहार कर सकती हैं तब तो ये हमारे हाथमे ही हैं । क्योंकि— दर्शन, बातें करना, खेलकूद, दिल्लगी, क्रीड़ा, आलिङ्गन तो दूर रहें, स्त्रियों का स्मरण भी मनको विकृत करनेमें पर्याप्त होता है ॥ १६ ॥