भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

प्रथमोऽङ्कः १५ यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयस्तु निर्विकार- चित्तैकसाध्यत्वाद्दीषत्करसमुन्मूलना एव । अपि च स्त्रिय एवामीषां कृत्या- स्तेनैतेऽस्मद्गोचरा एव वर्तन्ते । यतः— सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥ १६ ॥ यमः कायचेष्टानिरोधः नियमो मनश्चेष्टानिरोधः आसनं धर्माधर्मक्षेपणम् । यद्वा वेदान्तवाक्यविचारोद्योग आसनम् । अथवा सिद्धासनपद्मासनादिकमत्रासन विव- क्षितम् । प्राणादीनां वायूनां मनसा सह संयमनं प्राणायामः । मनसो विषयादिभ्यो निवृत्तिः प्रत्याहारः । आत्मचिन्तनं ध्यानम् । आत्मचिन्तनस्यैव कञ्चित्कालमनुवृत्ति- र्धारणम् । समाधिः सम्यगाध्यानम् । ( अमी ) निर्विकारचित्तैकसाध्यत्वात् । अवि- कृतचित्तसाध्यत्वात् । ईषत्करसमुन्मूलनाः । सुखमुन्मूलयितु शक्याः । यमादीनामेशां सिद्धौ विकाररहितं चित्तमपेक्षितं चित्तविकारश्च मया सुकरस्तद्यमाद्युन्मूलनं मया नितान्तसुकरमिति भावः । अमीषाम् यमादीनाम् । कृत्याः डाकिन्यः । डाकिन्यो हि स्वीयमन्त्रतन्त्रप्रभावेण बालान्युन्मथ्य सहरन्ति तथैव कामिन्यश्चित्तविकारोत्पा- दनविधया यमान् विपादयन्तीति तासां तान्प्रति डाकिनीत्वेन रूपणम् । अस्म- द्गोचराः-अस्मद्वशगाः । कामिनीनां मदङ्गभूतत्वेन यमादीनां शक्यमुन्मूलनं मया कर्तुमिति भावः । सन्त्विति० विलोकनम् नायकयोरन्योन्यदृष्टिमेलनम् , भाषणम् अन्योन्यसंलापः, विलासः नायकस्य पुरस्ताल्लीलाप्रदर्शनम्, परिहासश्चतुरनर्मोक्तिः, केलिर्जलक्रीडादिः, परिरम्भः अन्योन्यालिङ्गनम् , अमी सन्तु पृथक् तिष्ठन्तु । कामिनीनां वनितानां स्मरणम् अपि इह शान्तप्रकृतिके पुरुषे मनसः चित्तस्य विकारायास्थैर्याय अलम् समर्थम् । दूरे तिष्ठन्तु विलोकनादयः केवलं कामिनीस्मरणेनैव पुरुषाणां चित्तानि व्याक्षिप्यन्ते तदन्न यमादीनां चित्तस्थैर्यमात्रावस्थायिनामुन्मूलनं नितान्तसरलमिति भावः आर्याभेदो वृत्तम् ॥ १६ ॥ निर्विकार चित्तमे उत्पन्न होनेवाले यम, नियम, आसन, प्राणायाम, प्रत्याहार, ध्यान, धारणा और समाधि आसानीसे नष्ट किये जा सकते हैं । जब स्त्रियां ही इनका संहार कर सकती हैं तब तो ये हमारे हाथमे ही हैं । क्योंकि— दर्शन, बातें करना, खेलकूद, दिल्लगी, क्रीड़ा, आलिङ्गन तो दूर रहें, स्त्रियों का स्मरण भी मनको विकृत करनेमें पर्याप्त होता है ॥ १६ ॥

२० प्रबोधचन्द्रोदयम् विशेषतश्चैते मदमात्सर्यदम्भोलोभादिभिरस्मत्स्वामिवल्लभैरभियुज्य- माना नरपतिमन्त्रिणोऽधर्ममेवाश्रयिष्यन्ते । रतिः—आर्यपुत्र, श्रुतं मया युष्माकं विवेकशमदमप्रभृतीनां चैकमुत्प- त्तिस्थानमिति । (अज्जउत्त, सुदं मए तुम्हाणं विवेश्रसमदमप्पहुदीणं च एक्कं उप्पत्तिट्ठाणं ति ) कामः—आः प्रिये, किमुच्यत एकमुत्पत्तिस्थानमिति । ननु जनक एवास्माकमभिन्नः । तथाहि— संभूतः प्रथममहेश्वरस्य सङ्गान्मायायां मन इति विश्रुतस्तनूजः । त्रैलोक्यं सकलमिदं विसृज्य भूयस्तेनाथो जनितमिदं कुलद्वयं नः ॥१७॥ विशेषतः प्रधानभावेन । एते यमादयः मदः गर्वः, मात्सर्यम् परगुणासहिष्णुत्वम्, दम्भः असद्गुणाभिमानः, लोभः परद्रव्यस्पृहा । आदिपदमत्र प्रमादालस्यादि- संग्राहकम् । अस्मत्स्वामिवल्लभैः—अस्मत्स्वामिनः मोहस्य वल्लभैः प्रियतमैः । अभि- युज्यमानाः आक्रम्यमाणाः प्रतिद्वन्द्विभावेनाहूयमाना इत्यर्थः । नरपतिमन्त्रिणः विवेक सचिवाः यमादय इत्यर्थः । अधर्मम् मोहपक्षम् । आश्रयिष्यन्ते भजिष्यन्ति । युष्माकम्-कामादीनाम् विवेकादीनां भवतां चोत्पत्तिस्थानं गोत्रं कुलमेक- मेवेति मया श्रुतमित्यर्थः । कामस्य विवेकस्य च मनोजन्मतया समानकुलत्वमिति मनसि कृत्वा प्रश्नोऽयम् । जनकः = पिता मनोरूपः । अभिन्नः एकः । अस्माकं विवेकादिभिः सह सगोत्रत्वं सकुलत्वं वास्तीति कि वक्तव्यमेते हि विवेकादयो वयं चैकस्यैव मनसः सुताःस्मस्तन्न समानजन्मतायां समर्थितायां सगोत्रताप्रश्नो नोदयत इत्याशयः । सम्भूत इति० प्रथमम् आदौ महेश्वरस्य ब्रह्मणः सङ्गात् सम्बन्धात् मायायाम् अनाद्यविद्यायाम् 'मनः' इति विश्रुतः प्रसिद्धः तनूजः पुत्रः सम्भूतः जातः तेन मनसा इदं प्रत्यक्षदृश्यम् सकलम् स्थावरजङ्गमात्मकम् त्रैलोक्यम् विसृज्य विशेषतः सृष्ट्वा खास करके हमारे स्वामीके भक्त मद, मात्सर्य, दाम और लोभ आदिसे सामना होने पर विवेकके मन्त्रिगण अधर्मकी ही शरण लेगे । रति—आर्यपुत्र, हमने सुना है आपका तथा विवेक आदिका कुल एक ही है । काम—हाँ प्रिये, एक ही कुल है इस सम्बन्धमे क्या कहना है? हमलोगोंके पिता ही एक है । क्योंकि— परब्रह्मका मायाके साथ संसर्ग होनेसे मन नामका एक ख्यात पराक्रम पुत्र उत्पन्न हुआ, उसीने इस त्रैलोक्यके साथ हमारे कुल तथा विवेकके वंशको जन्म दिया ॥ १७ ॥

प्रथमोऽङ्कः २१ तस्य च प्रवृत्तनिवृत्ती द्वे धर्मपत्न्यौ । तयोः प्रवृत्त्यां समुत्पन्नं महा- मोहप्रधानमेकं कुलम् । निवृत्यां च द्वितीयं विवेकप्रधानमिति । रतिः—आर्यपुत्र, यद्येवं तत्किं निमित्तं युष्माकं सोदराणामपि परस्पर- मेतादृशं वैरम् । (अज्जउत्त, जइ एवं ता किं णिमित्तं तुम्हाणं सोअराणंवि परोप्परं एआरिसं वैरम् ) कामः—प्रिये, एकाभिषप्रभवमेन सहोदराणा- मुज्जृम्भते जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां अथो भूयस्तेन मनसो नः कामविवेकादीनाम् कुलद्वयम् मोहप्रधानमेकं विवेक- प्रधानञ्चापरम् इदम् जनितम् उत्पादितम् । परमब्रह्मणो मायासंसर्गे मनोऽजायत तेन निखिलमिदमुच्चावचभेदभिन्नं विश्वं निर्माय विवेकमोहप्रधानं कुलद्वयमजन्य- तेत्यर्थः । उक्तश्चायमर्थः श्रुतौ—'तुच्छेनाभ्यपिहितं यदासीन्मनसस्तन्महिम्नाऽजाय- तैकम् । कामस्तदग्रे समवर्त्तताधिमनसो रेतः प्रथम यदासीत्' इति ॥ अत्र प्रथम- महेश्वरपदेन ब्रह्मैव विवक्षितं तस्यैवांशतो मायासंसर्गे सर्गप्रवृत्तेः । विशेषतः परि- शिष्टेऽन्यत्र च द्रष्टव्यम् ॥ १७ ॥ तस्य मनसः । प्रवृत्तिः=औदासीन्यप्रच्युतिः । निवृत्तिः = औदासीन्यम् । धर्म- पत्न्यौ स्त्रियौ । प्रवृत्तिनिवृत्त्योर्महेश्वरभोगसाधनत्वेनाप्रेततया धर्मपत्नीत्वेन रूपकम् । तयोः प्रवृत्तिनिवृत्त्योर्मध्ये । यद्येवम्—यदि भवदुक्त एव विवेकादिभिः सह भवतां संबन्धस्तदा । सोदरा- णाम्-समानपितृजातत्वेन सादेरत्वव्यपदेशः । परस्परमन्योन्यम् । वैरम् विरोधः । एकाभिषेति० सहोदराणाम् समानवंशजातानाम् वैरम् विरोधः एकाभिषप्रभवम् समानभोग्यवस्तुजनितम् एव जगति संसारे समुज्जृम्भते प्रथते इति प्रसिद्धम् प्रख्यातम् । तत्र दृष्टान्तमाह—पृथ्वीति० हि तथा भुवनक्षयकृत् संसारक्षयजनक- स्तथा तीव्रः अतिदारुणः । कुरुपाण्डवानां विरोधः पृथ्वीनिमित्तम् साम्राज्यार्थम् मनकी दो पत्नियां हैं प्रवृत्ति और निवृत्ति । उनमे प्रवृत्तिसे मोहकुलका और निवृत्तिसे विवेककुलका जन्म हुआ है । रति—आर्यपुत्र, जब ऐसी बात है तब आपलोगोंका सोदरोंके प्रति ऐसा वैर क्यों है ? काम—प्रिये, सहोदरोंमें समान वस्तुकी अभिलाषासे ही वैर बढ़ता है यह प्रसिद्ध ही है । कुरु और पाण्डवोंमें संसारको समाप्तकर देने वाला वह उग्र विरोध आखिर पृथ्वीके

२२ प्रबोधचन्द्रोदयम् तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ १८ ॥ सर्वमेवैतज्जगदस्माकं पित्रोपार्जितं तच्चास्माभिस्तातवल्लभतया सर्व- मेवाक्रान्तम् । तेषां तु विरलः प्रचारः । तेनैते पापाः सांप्रतं पितरमस्मां- श्चोन्मूलयितुमुद्यताः । रतिः—शान्तं पापम् । आर्यपुत्र, किं तादृशं पापं विद्वेषणमात्रेण तैरा- रब्धम् । भवतु । अस्योपायः को वा मन्त्रितः ? ( सन्तं पावं । अज्जउत्त, किं एरिसं पावं विद्देसणमत्तेण तेहिं आरद्धं । होदु । अस्स उवाओ कोवि मन्तिदो ? ) अभवत् । सर्वंशानां विरोधः सदैव समानवस्तुलोभमूलको भवति महाभारतप्रव- र्तकः कुरुपाण्डवयोधिरोधो हि पृथिवीलोभनिमित्तक एवाभवदतोऽस्माकमपि विरो- धस्तथैवेति भावः । आमिषपदमत्र लक्षणया भोग्यवस्तुपरम् । वसन्ततिलकं वृत्तं, लक्षणमन्यत्रोक्तम् ॥ १८ ॥ एकाभिषाभिलाषमूलकं वैरमस्माकं विवेकादिभिरिति स्वोक्तं समर्थयति—सर्व- मेवेति० अस्माकम्-मोहादिकानाम् विवेकादीनाञ्च । पित्रा जनकेन मनसा । उपा- र्जितम्-अर्जितम् , मनसा हि जनितं जगत्तदुपार्जितत्वेनोत्प्रेक्ष्यते । तच्च जगत् । अस्माभिः मोहपक्षीयैः । तातवल्लभतया-पितृस्नेहितया । सर्वम्-अविभक्तमखि- लम् । आक्रान्तम्-वशीकृतम् । तेषाम्-विवेकादीनाम् । विरलः क्वाचित्कः । प्रचारः प्रसरगम् । तेन स्वस्य देशाधिकारराहित्येन प्रचारवैरत्येन च । एते विवेकप्रभृतयः । पापाः पापकर्मणः । पितरम् जनकम् मनोरूपम् । अस्मान् मोहपक्षीयॉँश्च । उन्मू- लयितुम् उच्छेत्तुम् । उद्युक्ता प्रवृत्ताः । लोकेऽपि सपत्नीद्वयसन्ततिमध्ये तातव- ल्लभदलं धनमधिकुरुतेऽन्यच्च दलं ततो वञ्चितं तिष्ठति तच्च तेन दुःखेन पीडितं सदुपायान् कृत्वा पितरं भ्रातृँश्च वैमात्रेयानून्मूलयितुं यतत इति प्रसिद्धम् । 'शान्तं पापम्' इति श्रुतस्य वृत्तस्य शब्दस्य वा समधिकनिन्द्यताद्योतनाय प्रयुज्यते । विद्वेषणमात्रेण केवलेन द्वेषेण । एतादृशम्-पितृभ्रातॄणां चोन्मूलन रूपम् । आरब्धम्-कर्त्तुमभिलष्य व्यापृतम् । मन्त्रितः-चिन्तितः । लिये ही तो हुआ था ॥ १८ ॥ इस सारी दुनियाँको हमारे पिता मनने ही अर्जित किया, पिताके लाड़ले होनेके कारण उस पर हम अधिकार किये हैं । उनलोगोंको कम स्थान मिला है । इसलिये यह पापी विवेक आदि हमलोगोंको और पिताजीको उखाड़ फेंकना चाहते हैं । रति—पाप दूर हो, आर्यपुत्र, क्या विरोध होने भरसे उनलोगोंने इतना भारी पाप करना चाहा है। अस्तु, आप लोगोंने इसका क्या उपाय सोचा है ?

प्रथमोऽङ्कः २३ कामः—प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् । रतिः—आर्यपुत्र, तत्किं नोद्घाट्यते ? (अज्जउत्त, ता किं ण उग्घाडीअदि ?) कामः—प्रिये, भवती स्त्रीस्वभावाद्वीरुरिति न दारुणकर्म पापीय- सामुदाह्रियते । रतिः—( सभयम् ) आर्यपुत्र, कीदृशं तत् ? ( अज्जउत्त, केरिसं तम् ? ) कामः—प्रिये, न भेतव्यं न भेतव्यम् । हताशानामाशामात्रमेवैतत् । अस्ति किलैषा किंवदन्ती । अत्रास्माकं कुले कालरात्रिकल्पा विद्यानाम राक्षसी समुत्पत्स्यत इति । रतिः— ( सभयम् ) हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति वेपते मे हृदयम् । (हद्धी हद्धी । कहं अम्हाणं कुले रक्खसीति वेवदि मे हिअअम्) निगूढम्–प्रच्छन्नम् । बीजम्–अनर्थकारणम् । उद्घाट्यते–प्रकाशीक्रियते । स्त्रीस्वभावात्–नारीत्वात् । भीरुः–भयशीला । दारुणकर्म–भीषणचेष्टा । पापीय- साम्–अतिपापाचाराणाम् । पापाचारा हि विवेकादयो भीषणं कर्म चिकीर्षन्ति तेषां तत्कर्म तव समक्षं न प्रकाश्यते यतस्त्वं स्त्रीत्वान्भीता भविष्यसीति तात्पर्यम् । हताशानाम्–निन्द्यानामभाग्यानां वा । आशामात्रम्–केवलो मनोरथः । किंव- दन्ती–प्रवादः । कालरात्रिकल्पा–प्रलयनिशासमाना । समुत्पत्स्यते–जास्यते । वि- द्यायाः प्रलयरात्रिकल्पता सर्वमोहपक्चीयसंहारकरत्वेनोक्ता वेद्या । राक्षसी त्वं च तस्याः स्वरूपतो भयप्रदत्वेन मोहबन्धुभिरास्थीयते । वेपते–कम्पते । काम—प्रिये, इसमें कुछ रहस्य बात है । रति—आर्यपुत्र, फिर आप बताते क्यो नही ? काम—प्रिये, स्त्रीस्वभावके कारण तुम भीरु हो, अतः उन पापियोंके भयङ्कर कर्म तुम्हारे सामने नही बताया जाता है । रति—( भयसे ) आर्यपुत्र, सो क्या ? काम—प्रिये, डरो मत, डरो मत ! उन अभागों की यह आशामर है । ऐसी अफवाह है कि हमारे कुलमे कालरात्रितुल्य विद्या नामकी राक्षसी पैदा होगी । रति—( भयसे ) हा धिक् ! हा धिक् ! क्यों हमारे कुलमे राक्षसी !! इस बातसे मेरा हृदय काँप रहा है ।

२४ प्रबोधचन्द्रोदयम् कामः—प्रिये, न भेतव्यं न भेतव्यम् । किंवदन्तीमात्रमेवैतत् । रति.—अथ तया राक्षस्या किं कर्तव्यम् । ( अध ताए रक्खसीए कादव्वम् । कामः—प्रिये, अस्ति किलैषा प्राजापत्या सरस्वती— पुंसः सङ्गसमुज्झितस्य गृहिणी मायेति तेनाप्यसा- वस्पृष्टापि मनः प्रसूय तनयं लोकानसूत क्रमात् । तस्मादेव जनिष्यते पुनरसौ विद्येति कन्या यया तातस्ते च सहोदराश्च जननी सर्वं च भक्ष्यं कुलम् ॥ १६ । किंवदन्तीमात्रम्-प्रवादमात्रम्, न तु यथार्थभावेन तदुदयो जातोऽतो भयं वृथेति भावः । तया-विद्याऽभिधानया । एषा-अग्रेऽभिधीयमाना । प्राजापत्या-ब्रह्मोक्ता । सरस्वती-वाणी । पुंस इति० सङ्गसमुज्झितस्य 'असङ्गो ह्ययं पुरुषः' इति श्रुत्युक्तदिशा सङ्गरहितस्य पुंसः पुरुषस्य गृहिणी भोगसाधनत्वेन भार्या इति प्रसिद्धा, तेन पुंसा अस्पृष्टा अनालिङ्गितापि (ईक्षणमात्रकृतार्था) असौ प्रकृतिः मनः अन्तःकरणं तनयं पुत्रं प्रसूय उत्पाद्य क्रमात् क्रमवशेन लोकान् भूर्भुवःस्वरादीन् असूत अजनयत् । पुनः अनन्तरम् असौ विद्येति प्रसिद्धा कन्या पुत्री तस्मात् मनस एव जनिष्यते उत्पत्स्यते यया विद्यया तातः स्वोत्पादकं मनः ते प्रसिद्धाः सहोदराः बान्धवाः च जननी माता माया (किं बहुना) सर्वम् निरवशेषम् । कुलम् (कुलान्तःपातित्वात् आत्माऽपि) भक्ष्यम् समाप्यम्, अस्पृष्टापि पुंसा कथं जनयतीति प्रश्नस्य-चुम्बक- पाषाणेनासम्बद्धाऽपि लोहशलाका चुम्बकं यान्तमन्वेतीति दृष्टं लोके तथैवेयम- स्पृष्टायीक्षणमात्रेण जनयतीत्युत्तरं बोध्यम् । असङ्गस्य पुरुषस्य तेनास्पृष्टा माया- नाम गृहिणी मनः पुत्रमसूत तदनन्तरं च सकलं विश्वमजनि, सम्प्रति मनसः सकाशात् विद्यां नाम कन्यां जनविष्यति यया विद्यया पितुः सहोदराणां जनन्याः काम—प्रिये, मत डरो, यह तो अफवाह ही भर है । रति—आर्यपुत्र, वह राक्षसी क्या करेगी ? काम—ऐसी प्रजापत्य सरस्वती है कि— निःसङ्ग पुरुषकी पत्नी माया है, उसने पुरुषस्पर्श के बिना ही मन नामक पुत्रको जन्म देकर इस संसारको आकाशादि क्रमसे उत्पन्न किया, उसीसे विद्या नामक कन्या जन्म ले गी जो पिता, सहोदर, माता तथा पूरे कुलको खा ले गी ॥ १९ ॥

प्रथमोऽङ्कः २५ रतिः—( सत्रासोत्कम्पम् ) आर्यपुत्र, परित्राहि परित्राहि । ( अज्जउत्त, परित्ताहि परित्ताहि ) ( इति भर्तारमालिङ्गति ) कामः—( स्पर्शसुखमभानीय । स्वगतम् ) स्फुरद्रोमोद्भेदस्तरळतरताराकुलदृशो भयोत्कम्पोत्तुङ्गस्तनयुगभरासङ्गसुभगः । अधीराक्ष्या गुञ्जन्मणिवलयदोर्वल्लिरचितः परीरम्भो मोदं जनयति च संमोहयति च ॥ २० ॥ समस्तस्य कुलस्य तदन्तःपातितया स्वस्य च विनाशः करिष्यते विद्योदये आवेद्य- कानां सर्वेषामेव पदार्थानां नाशस्यावश्यंभावादिति भावः। 'द्वे विद्ये वेदितव्ये, परा चैवापरा च । अथ परा यया तदक्षरमधिगम्यते' इत्युपक्रमे मूलाविद्यातो मनो जन्म मनसो विद्याजन्म, ततो जगद्भङ्ग इति मुण्डकोक्तोऽर्थोऽत्र सङ्गृहीतो वेद्यः । शार्दूलविक्रीडितं वृत्तम् ॥ १९ ॥ सत्रासोत्कम्पम्-त्रासोत्कम्पौ च रतेः सकुलसंहारकविद्याजन्मश्रवणेन । स्फुरदिति० तरलतरा अतिचपला तारा अक्ष्णः कनीनिका तया आकुला अति- व्यग्रा दृक् नयन यस्या सा तस्या चञ्चलकनीनिकाऽऽकुलनयनायाः अधीराक्ष्याः पारिप्लवनेत्रायाः स्फुरद्रोमोद्भेदः समुद्गद्रोमाञ्चः भयेन आन्तरभीत्या उत्कम्पौ उदितवेपथू यौ उत्तुङ्गौ अत्युच्चौ स्तनौ तयोर्युगं युगल तस्य भरः भारस्तस्यासक्त्या आक्रान्त्या सुभगः रमणीयः गुञ्जन्ती मणिवलये माणिक्यविरचिते करपरिधेये भूषणे ययोस्तादृश्यों ये दोर्वल्ली हस्तलते ताभ्यां रचितः कृतः परीरम्भः ससम्भ्रमा- लिङ्गनम् मोदं हर्षं जनयति सम्मोहयति विषयान्तरस्मरणवैधुर्यं च करोति । रोमा- ञ्जोदययुतः सभयतया कम्पमानकुचयुगभारासक्तिकृतसौभगशाली । चलकनीनिका- कुलिनयनाया अधीराक्ष्याः ( अस्या मम प्रियायाः ) अयं परीरम्भः मम हर्षं प्रथयति विषयान्तरवैमुख्यं चापादयतीत्याशयः । अत्राधीराक्ष्या इति विशेषण- रति—( भयसे कांपकर ) आर्यपुत्र, रक्षा करो, रक्षा करो । (स्वामीसे लिपट जाती है) काम—( स्पर्शसुखका अनुभव करके ) ( स्वगत ) भयसे तरलाक्षी प्रियतमाका यह रोमाञ्चित, भयकम्पित स्तनके सर्वाङ्ग आलिङ्गनसे सुभग, सशब्द कङ्कण भुजाओं द्वारा विहित यह आलिङ्गन आनन्द भी देता है और हृदयको सम्मोहित भी कर रहा है ॥ २० ॥

२६ प्रबोधचन्द्रोदयम् ( प्रकाशम् । दृढं परिष्वज्य ) प्रिये, न भेतव्यं न भेतव्यम् । अस्मासु जीवत्सु कुतो विद्योत्पत्तिः । रतिः—अथ किं तस्या एव राक्षस्या उत्पत्तिर्युष्माकं प्रतिपक्षाणां सम्मता ? ( अध कि ता एव रक्खसीए उप्पत्ती तुम्हाणं पडिवक्खाणं सम्मदा ? ) कामः—बाढम् , सा खलु विवेकेनोपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्या । तत्र सर्व एते शमदमादयः प्रतिपन्नोद्योगाः । रतिः—आर्यपुत्र, कथमेतैरात्मनो विनाशकारिण्या विद्याया उत्पत्तिरे- तैर्दुर्विनीतैः श्लाघ्यते ? ( अज्जउत्त, कहं एदेहिं अप्पणो विनासकारिणीए विज्जाए उप्पत्ती एदेहिं दुव्विणीदेहिं सलाहिज्जदि ? ) मात्रप्रयोगेणैव रत्या इति विशेष्यस्याप्यवगमो बोध्यः, तथैव वृद्धव्यवहारोऽपि, अतएवोक्तं वामनेन—'विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ' । अत एव रघुवंशे— 'निधानगर्भामिव सागराम्बराम्' इति मयूरकृतसूर्यस्तुतौ च 'जम्भारातीभकुम्भो- द्भवमिव' इति च प्रयुक्तम् । 'परीरम्भः' इत्यत्र 'उपसर्गस्य घञी'ति दीर्घः । स्पष्ट- मन्यत् । शिखरिणीवृत्तम् , 'रसैरीशैश्छिन्ना यमनसभला गः शिखरिणी' इति च तल्लक्षणम् ॥ २० ॥ दृढं परिष्वज्य—तथाकरणं च रतेर्भयनिवृत्त्यर्थम् । तस्याः-विद्यायाः । युष्माकं प्रतिपक्षाणाम्-विवेकपक्षीयणाम् । सम्मता-इष्टा । बाढम्-स्वीकृत्यर्थकम् । सा-विद्या । विवेकेन-ज्ञानेन । उपनिषद्देव्याम्-उपनि- षदभिधानायाम् महिष्याम् । प्रतिपन्नोद्योगाः-कृतप्रयत्नाः । एतैः-विवेकादिभिः । आत्मनो विनाशकारिण्याः-विद्यायां जातायामाविद्यक- पदार्थमात्रनिवृत्तिस्त्रिपुटीनाशश्च भवतीति दृष्ट्या विवेकादीनामपि तया नाश एव क्रियत इति मनसि निधायेत्थमुक्तम् । दुर्विनीतैः-अविनीतैः । श्लाघ्यते-प्रशस्यते । ( प्रकाश ) ( जोरोंसे लिपटकर ) प्रिये, मत डरो, मत डरो । हमारे रहते विद्या किस तरह उत्पन्न होगी ? रति—फिर क्या उस राक्षसीकी उत्पत्ति आपके दुश्मनोंको पसन्द है ? काम—हाँ, वह विवेकसे उपनिषद् देवीमे प्रबोधचन्द्र नामक भाईके साथ जन्म ले गी । इसलिये ये शम दम आदि उद्योगशील हैं । रति—आर्य्यपुत्र, इन लोगोंने आत्मविनाशकारिणी विद्याकी उत्पत्तिकी क्यों तारीफ शुरू कर दी है ?

प्रथमोऽङ्कः २७ कामः—प्रिये, कुलक्षयप्रवृत्तानां पापकारिणां कुतः स्वपरप्रत्यवाय- गणना । पश्य पश्य— सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनु प्रयाति नाशम् ॥ २१ ॥ अत्र परिकरो नाम द्वितीयं नाट्याङ्गमनुपन्यस्तं वेद्यम्—'तद्बाहुल्यं परिकरः' इति च तल्लक्षणम्। कुलक्षयप्रवृत्तानाम्-वंशनाशसमुद्यतानाम्। पापकारिणाम्-पापिनाम् । स्वपरप्रत्यवायगणना—स्वस्य परेषां च प्रत्यवायः कष्टजनकदुरदृष्टविशेषस्तद्गणना तत्र विषये विचारः । ये स्ववंशमेव विनाशयितु प्रवृत्तास्ते कुतः परस्य स्वस्य भवन्तं विनाशं चेतयेयुस्तेषां तादृशविनाशस्यैवेष्टत्वादित्याशयः। सहजेति० सहजमलिनाः स्वभावतो मालिन्ययुक्ताः वक्रभावः कौटिल्यं तं भज- न्तीति वक्रभावभाजाः कुटिलाश्चेति सहजमलिनवक्रभावभाजस्तेषाम् स्वभावमलिन- कुटिलानाम् भव उत्पत्तिः प्रभवस्य उत्पादकस्य आत्मनः स्वस्य च नाशस्य हेतुः कारणं भवति जायते । स्वभावतो मलिनाः कुटिलाश्च जायमाना एव स्वप्रभवं स्वं च विनाशयन्तीत्याद्यपादद्वयार्थः । तत्र दृष्टान्तमाह—जलधरेति० धूमः जलधरपद- वीम् मेघभावम् अवाप्य प्राप्य ज्वलनविनाशमग्नेरुपशमम् अनु पश्चात् नाशम् अवसानम् प्रयाति। अयमर्थः—धूमो मलिनः कुटिलगतिश्च भवतीति प्रत्यक्षमेव, स हि वह्नेरुत्पद्यते, उत्पद्यमानश्चासौ मेघरूपतां प्रतिपद्यते प्राकृतिकनियमवशात् , मेघभावेन स्थितश्चासौ स्वप्रभवस्याग्नेः स्वरूपस्य धूमस्य च नाशं प्रयोजति वृष्टयो- भयोरपि शाम्यत्वादिति । धूमो मेघतां प्राप्नोति, तत्र कालिदासोऽपि प्रमाणम्— 'धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः' इति। प्रभवत्यस्मादिति प्रभवः, तथा च पाणिनीयं सूत्रमपि—'भुवः प्रभवः' इति। अत्र दृष्टान्तालङ्कारेण—यमादेर्धूमस्य च परस्परं बिम्बप्रतिबिम्बभावेनौपम्यात्तेपाद्यथा धूमो वृष्टिमुत्पाद्याश्रयमग्निं विनाशय स्वयमपि नश्यति तथा यमादयोऽपि विद्यामुत्पाद्य स्वकारणं नाशयित्वा स्वयमपि नश्यन्तीत्यर्थो व्यज्यते। अत्र परिन्यासो नाम नाट्याङ्गम्—तल्लक्षणं यथा—'तस्य काम—प्रिये, कुलक्षयमे प्रवृत्त इन पापियोंको स्व-परका क्या ज्ञान है ? देखो— स्वभावमलिन तथा कुटिल पदार्थोंका जन्म जनक तथा जन्य दोनोके विनाशका कारण हुआ करता है। जब धूम मेघ बन जाता है, तब वह आगके साथ ही धूमका भी विनाश कर देता है ॥ २१ ॥

२८ प्रबोधचन्द्रोदयम् (नेपथ्ये) आः पाप दुरात्मन्, कथमस्मानेव पापकारिण इत्याक्षि- पसि। ननु रे ! गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ २२ ॥ इति पौराणिकीं गाथां पुराणविद् उदाहरन्ति। अनेन चास्माकं जन- केनाहङ्कारानुवर्तिना जगत्पतिः पितैव तावद्बद्धः। मोहादिभिश्च स एव बन्धः सुदृढतां नीतः। कामः—( विलोक्य ) प्रिये, अयमस्माकं कुले ज्यायान् मत्या देव्या सह विवेक इत एवाभिवर्तते। य एषः— दार्ढ्यं परिन्यासः' इति। पुष्पिताग्रावृत्तम्, अयुजि नयुगरेफतो यकारो युजि च नजौ जरजाश्च पुष्पिताग्रा' इति तल्लक्षणम् ॥ २१ ॥ अस्मान्–विवेकादीन्। आक्षिपसि–निन्दसि। गुरोरिति० अवलिप्तस्य गर्वोद्धतस्य कार्याकार्यम् इदं कर्त्तव्यमिदमकर्त्तव्यमिति अजानतः अबुद्ध्यमानस्य उत्पथप्रतिपन्नस्य उन्मार्गगामिनः गुरोः पित्रादेरपि परि- त्यागः विधीयते क्रियते। यदि गुरुरपि गर्वी कार्याकार्यविवेकादत्त उन्मार्गगश्च जायते तदा तस्यापि त्यागः कर्त्तव्य इत्यर्थः ॥ २२ ॥ पौराणिकीम्–पुराणगताम्। गाथाम्–उक्तिम्। उदाहरन्ति–कथयन्ति। अनेन- मनसा। अस्माकम्–विवेकादीनाम्। अहङ्कारानुवर्त्तिना–अहङ्कारानुगमनपरायणेन। जगत्पतिः–संसारस्वामी। पिता–परमेश्वरः। बद्धः बन्धनं नीतः। परमेश्वरसकाशादु- त्पन्नं मनो विषयोन्मुखीकरणद्वारा तस्यैव बन्धनं जनयतीत्यभिप्रेत्यायं ग्रन्थः। मोहा- दिभिश्च स एव बन्धो दृढतां नीतो यो मनसा जनितोऽतो मन एव बन्धकारणमतस्तस्यो न्मार्गगामिन उच्छेदाय यत्नो नास्माकं पापं प्रयोजयिष्यत्युक्तपुराणोक्तेरिति भावः। ज्यायान्–श्रेष्ठतमः। मतिर्नाम विवेकपत्नी। अभिवर्त्तते–आयाति। (नेपथ्ये) अरे पाप, दुरात्मन्, क्यों हमलोगोंको ही पापी बताकर कोस रहा है ? अरे ! अवलिप्त हो जानेपर कर्त्तव्याकर्त्तव्य ज्ञानसे वञ्चित तथा उत्पथप्रवृत्त गुरुका भी त्याग कर देना चाहिये ॥ २२ ॥ पुराण जानने वाले ये पौराणिक गाथा बताते हैं। इस हमारे जनकने अहङ्कारके साथ मिलकर जगत्पिताको ही बांध रखा है। मोह आदिने उसी बन्धनको दृढ़ किया है। काम—( देखकर ) हमारे कुलका श्रेष्ठ पुरुष विवेक देवी मति के साथ इधर ही आ रहा है। जो यह—

प्रथमोऽङ्कः २६ रागादिभिः स्वरसचारिभिरात्तकान्ति- र्निर्भर्त्स्यमान इव मानधनः कृशाङ्गः । मत्या नितान्तकलुषीकृतया शशाङ्कः कान्त्येव सान्द्रतुहिनान्तरितो विभाति ॥ २३ ॥ तन्न युक्तमिहास्माकमवस्थातुम् । ( इति निष्क्रान्तौ ) विष्कम्भः ( ततः प्रविशति राजा विवेको मतिश्च ) रागादिभिरिति० स्वरसचारिभिः स्वेच्छया व्यवहारिभिः रागादिभिः रागद्वेषलो- भादिभिः निर्भर्त्स्यमानः तिरस्क्रियमाण इव आत्तकान्तिः हृततेजाः कृशाङ्गः दुर्बलतनुः मानधनः अभिमानमात्रविभव इव नितान्तकलुषीकृतया अत्यन्तपीडितया कान्त्या स्वप्रभया रागादिभिरिति शेषः, मत्या स्वस्त्रिया सान्द्रतुहिनान्तरितः निबिडनीहारा- वृतः शशाङ्कः चन्द्रः कान्त्या स्वप्रभया इव विभाति। अयमाशयः-यथा नीहारावृतश्चन्द्र- माः स्वकान्त्या विभाति दुर्बलः पूर्णप्रकाशविकलश्च तथैवाय विवेकोऽपि यथेच्छाचारि- रागादिभिः हृतप्रभो निन्दित इव कथञ्चित्थमपि मानं रक्षन् पूर्णरूपेण स्वप्रभावस्थाप- नासमर्थतया कृशकाय इवोपलक्ष्यमाणे मत्या दुर्बलदेहलतया युक्तो विभातीति । विवेकोऽपि नीहाररूपयाऽविद्ययाऽऽव्रियत इति ध्वनिः। शेषमतिस्पष्टम्। वसन्त- तिलकं वृत्तम् , तल्लक्षणं यथा—'उक्त वसन्ततिलकं तभजा जगौ गः' इति ॥ २३ ॥ तत्—तस्मात् , विवेकसंनिधानात् । अस्माकम्-कामरत्यादिमोहपक्षीयाणाम् ! एतेन विवेकसंनिधाने कामरत्योर्निष्प्रभावत्वं व्यञ्जितम् । विष्कम्भः-मिश्रविष्कम्भः, तथा च लक्षणम्— अङ्कशेषकथांशानां भूतानां भाविनामपि । संक्षेपेण समस्तानां विष्कम्भः सूचनात्मकः ॥ रागादि यथेच्छाचारियोंने इसकी कान्ति हरली हैं, उपेक्षित होकर यह अभिमानी दुर्बल हो रहा है, इसकी सहचारिणी मति भी कलुषित हो रही है, इस तरह यह घने कुहरेमे पड़े हुए चन्द्रमाके—समान प्रतीत होता है ॥ २३ ॥ इस समय हमलोगोंका यहां रहना अच्छा नहीं है । ( दोनोंका प्रस्थान ) विष्कम्भ ( राजा विवेक तथा मतिका प्रवेश )

३० प्रबोधचन्द्रोदयम् राजा—( विचिन्त्य ) प्रिये, श्रुतं त्वयास्य दुर्विनीतस्य कामबटोर्मद- विस्फूर्जितं वचो यदस्मानेव पापकारिण इत्याक्षिपति । मतिः—आर्यपुत्र, किमात्मनो दोषं लोको विजानाति । ( अज्जउत्त, किं अप्पणो दोसं लोगो चिआणादि ) राजा—पश्य— असावहङ्कारपरैर्दुरात्मभि- र्निबध्य तैः पापशठैर्मदादिभिः । विरसोऽनुचितस्तत्र सूच्यः स्याद्वस्तुविस्तरः । शुद्धो मिश्रस्तु स द्वेधा मध्यपात्रप्रयोजितः ॥ शुद्धो भवति, मिश्रस्तु नीचमध्यप्रयोजितः । प्रधानादपरं मध्यं नायकादेरुदात्तवाक् ॥ नीचं स्यादनुदात्तोक्तेर्विना परिजनादिकम् । उदात्तवाक्-संस्कृतवाक् अनुदात्तवाक्-प्राकृतभाषा । विवेको नामश्रवणम् , मतिस्तत्र सहायिका काचना संभावना विपरीतभाव- नयोर्निवर्त्तिका बुद्धिवृत्तिर्मननात्मिका । श्रवणं प्रति मननस्याङ्गत्वेनेह मत्या विवेक- पत्नीत्वव्यपदेशः । तयोरेव विवेकमत्योरत्र पात्रीकरणमाध्यात्मिककथाविस्तृतये कृतं तत्र विवेकस्य राजत्वं मत्याश्च तत्पत्नीत्वं वेद्यम् । दुर्विनीतस्य—विनयशून्यस्य । मदविस्फूर्जितम्-गर्वयुक्तम् । अस्मान्-विवेका- दीन् । लोकः-साधारणो जनः । यतः साधारणो जनः स्वं दोषं न विजानाति तेनैव कामोऽपि स्वं दोषं नावैति येनास्मानेव पापकारितयाऽऽक्षिपति, तत्र तस्य साधारण- जनत्वमेव कारणमित्यर्थः । आसाविति० अहङ्कारः अहङ्कर्त्ताऽहम्भोक्तेत्येवरूपो मनोभावः परः प्रधानं येषु तैरहङ्कारानुवर्त्तिभिः दुरात्मभिः दुष्टान्तःकरणशालिभिः पापाश्च शठाश्च तैः पापशठैः मदादिभिः मदमात्सर्यलोभप्रभृतिभिः कर्त्तृभिः असौ विख्यातसद्गुणः चिदानन्दमयः चित्स्वरूपः आनन्दस्वरूपश्च निरञ्जनः निर्गताखिलवासनः जगत्प्रभुः संसारनियन्ता राजा— ( सोचकर ) प्रिये, तुमने इस पापी कामकी मनवाली बातें सुनी जिनके द्वारा यह हमलोगोंको ही पापी कहकर शिकायत करता है । मति—आर्यपुत्र, क्या अपना दोष लोग खुद देख पाते हैं । राजा—देखो-पापी ठग तथा दुरात्मा मद आदिसे परिवृत अहङ्कारने बांधकर चिदा-

प्रथमोऽङ्कः ३१

चिरं चिदानन्दमयो निरञ्जनो जगत्प्रभुर्दीनदशामनीयत ॥ २४ ॥ त एते पुण्यकारिणो वयं तु तन्मुक्तये प्रवृत्ताः पापकारिण इत्यहो जितं दुरात्मभिः । मतिः—आर्यपुत्र, यतोऽसौ सहजानन्दसुन्दरस्वभावो नित्यप्रकाशः प्रस्फुरत्सकलत्रिभुवनप्रचारः परमेश्वरः श्रूयते । तत्कथमेतैर्दुर्विदग्धैर्बद्ध्वा महामोहसागरे निक्षिप्तः । ( अज्जउत्त, जदो सो सहजआणन्दसुन्द्वनसहावो णिच्चप्पआसो पप्फुरन्तसअलतिहुअणप्पआरो परमेस्सरो सुणीअदि । ता कहं एदेहि दुव्विणीदेहिं वधिअ महामोहसाअरे णिक्खित्तो ) (अविद्यासम्बन्धवशादखिलव्यवस्थापकः ) चिरञ्चिन्ध्य बहुकालं बद्धभावम् अवि- द्यायुक्ततामापाद्य दीनदशाम् हीनां दशां स्वरूपच्युतिम् अनीयत प्रापितः । चिदा- नन्दमयो निरञ्जनश्चासावविद्यासम्बन्धेन स्वरूपाच्यावयित्वा बद्ध इवाज्ञानीव दुःखीव च कृत इत्याशयः । परमेश्वरस्यापि मायासम्बन्धाद्वद्धताप्रत्ययो यैर्जनित- स्तेऽमी मोहादयोऽस्मानेव पापानाचक्षते तदिदं तेषां दौरात्मं पश्येति प्रघट्टकार्थः । वंशस्थं वृत्तम्—तल्लक्षणं यथा—'वदन्ति वंशस्थमिदं जतौ जरौ' इति ॥ २४ ॥ अत्र विलोभनं नाम सुखसन्धेश्चतुर्थमङ्गमुक्तं बोध्यं तल्लक्षणं यथा—'गुणाख्यानं विलोभनम्' त एते—परमेश्वरबन्धकारिण इमे मोहादयः । पुण्यकारिणः—सत्पथ- प्रवृत्ताः । काक्वा पापकारिताऽतिशयध्वनिः । तदुन्मुक्तये—तद्वन्धव्यपगमाय । प्रवृत्ताः सव्यापाराः । जितम्—विजयः प्राप्तः । दुरात्मभिः—दुष्टैः ॥ असौ—परमेश्वरः । सहजानन्दसुन्दरस्वभावः—स्वाभाविका नन्दरमणीयप्रकृतिः, परमेश्वरो हि नित्यानन्दरूपतया रम्यरूपः, यतस्तत्र दुःखस्य लेशोऽपि न प्रभवत्यु- देतुमिति । नित्यप्रकाशः—अव्याहतज्ञानः, अक्षतदीधितिर्वा, प्रस्फुरत्सकलत्रिभुवन- प्रचारः—संसारव्यापी । एतैः—मोहादिभिः । दुर्विदग्धैः—दुष्टैर्धूर्तेः । बद्ध्वा बन्धनं प्राप- य्य । निक्षिप्तः—पातितः । अयमाशयः—सान्द्रानन्दनिर्भरो जगद्व्यापकोऽव्याहतज्ञानश्च परमेश्वरः कथमेभिर्धूर्तेर्मोहादिभिर्वञ्चयित्वा मोहसागरे पातित इत्याश्चर्यमिति ।

नन्दमय नित्य निष्कलङ्क उस जगत्प्रभुको दीनदशा प्राप्त करा दी है ॥ २४ ॥ इस तरह यह पुण्यात्मा है और उनकी मुक्तिके लिये प्रयत्न करने वाले हम पापी हैं ? धन्य है यह दुरात्मा ! मति—आर्यपुत्र, सुनती हूँ कि वह परमेश्वर सकल त्रिभुवनव्यापी तथा नित्यानन्द- स्वरूप है फिर इन दुरात्माओंने उन्हें मोह समुद्रमें कैसे डाल दिया ?

३२ प्रबोधचन्द्रोदयम् राजा—प्रिये, सततधृतिरप्युच्चैः शान्तोऽप्यवाप्तमहोदयोऽ- प्यधिगतनयोऽप्यन्तःस्वच्छोऽप्युदीरितधीरपि । त्यजति सहजं धैर्यं स्त्रीभिः प्रतारितमानसः स्वयमपि यतो मायासङ्गात्पुमानिति विश्रुतः ॥ २५ ॥ मतिः—आर्यपुत्र, नूनमन्धकारलेखया सहस्ररश्मेस्तिरस्कारो यथा तथा मायया स्फुरन्महाप्रकाशसागरस्य देवस्याप्यभिभवः । (अज्जउत्त, णं खु अन्धकारलेहाए सहस्सरस्सिणो तिरक्कारो जहा तथा माआए स्फुरन्तमहाप्प- आससाअरस्स देवस्स वि अहिहवो ) सततेति० सततधृतिः सनातनधैर्यः अपि उच्चैः उन्नतः अपि शान्तः शान्तियुक्तः अपि, अवाप्तमहोदयः प्राप्तकामोऽपि, अधिगतनयः नीतिज्ञः अपि, अन्तःस्वच्छः विम- लान्तःकरणः अपि, उदीरितधीः समयोचितज्ञानः अपि, स्त्रीभिः वनिताभिः प्रतारित- मानसः वञ्चितबुद्धिः सहजम् स्वाभाविकम् धैर्यम् गभीरत्वम् त्यजति जहाति, यतः यस्मात् कारणात् मायासङ्गात् अविद्यासम्बन्धवशात् पुमान् इति विश्रुतः प्रसिद्धः । अयमाशयः-सदाधैर्यधारी महान् शान्तिमत्तया प्रथितः प्राप्तप्रकामसमृद्धिः समभ्य- स्तनीतिशास्त्रो निर्मलान्तःकरणोऽपि लोको ललनावाञ्चितचित्ततया व्यक्षिप्यमाणः सन् स्वभावसिद्धमपि धीरत्वं मुञ्चति, अन्यस्य का कथा परमेश्वरस्याप्यविद्यासम्बन्धव- शादेव परिच्छिन्नप्रमातृतया पुमानिति या प्रसिद्धिरतत्रापि ललनाभूताऽविद्यैवकारण- मिति । हरिणीवृत्तम्, ‘नसमरसला गः षड्वेदैर्हयैर्हरिणी मता’ इति तल्लक्षणम् ॥२५॥ अत्र युक्तिर्नाम मुखसन्धेः पञ्चममङ्गयुक्तं वेदितव्यम् । तल्लक्षणं यथा—‘युक्तिः संशयितार्थस्य निर्णयः परिकीर्त्तितः’ इति । अत्र मत्या संशयितार्थस्य निर्णया- त्समन्वयः । नूनम्-निश्चयेन । अन्धकारलेखया-तमसः पङ्क्त्या सहस्ररश्मेः-सूर्यस्य । तिर- स्कारः-आच्छादनम् । स्फुरन्महाप्रकाशसागरस्य-प्रकाशीभवदनन्ततेजोराशेः। देवस्य-, राजा—प्रिये, अबाध धैर्य, शान्त महान् उदयको प्राप्त, नीतिके ज्ञाता, स्वच्छ, बुद्धिमान् होकर भी स्त्रियों द्वारा छले जाने पर स्वाभाविक धीरतासे च्युत हो जाते हैं, इसीलिये परमेश्वर भी मायासंसर्गसे पुमान् कहाने लगे हैं ॥ २५ ॥ मति—आर्यपुत्र, जिस प्रकार सूर्य का अभिभव अन्धकार द्वारा होता है उसी प्रकार माया द्वारा ब्रह्मका अभिभव हुआ ।

प्रथमोऽङ्कः ३३ राजा—प्रिये, अविचारसिद्धेयं वेश्याविलासिनीव माया असतोऽपि भावानुपदर्शयन्ती परपुरुषं वञ्चयति । पश्य— स्फटिकमणिवद्भास्वान्देवः प्रगाढमनार्यया विकृतिमलया नीतः कामप्यसङ्गतविक्रियः । न खलु तदुपश्लेषादस्य व्यपैति रुचिर्मनाक् प्रभवति तथाऽप्येषा पुंसो विधातुमधीरताम् ॥ २६ ॥ परमेश्वरस्य । अभिभवः-तिरोहितप्रकाशत्वम्, अयमाशयः—यथाऽन्धकारः सूर्यं तिरोभावयति-स्वरूपाच्युतावपि प्रच्छन्नतेजसं विदधाति, तथैवाविद्यापि परमेश्वरस्य स्वरूपमविपाद्यापि बाह्य प्रकाशं तिरोभावयतीति । अत्र प्राप्तिर्नाम मुखसन्धेः पञ्चमङ्गोक्त तल्लक्षण यथा—'अर्थानामानुकूल्येन सुखाप्तिः प्राप्तिरिष्यते' इति । अविचारसिद्धा-यावदविचारंकवस्थिता, विचारे जाते मायासम्बन्धानादिदं विशेषणम् । वेश्याविलासिनी-वारवनिता । वारवनिता अपि विचारदृष्टयाऽरम- णीयत्वेन तदौपम्यम् । असतः-कृत्रिमान्, अविद्यमानाँश्च । वेश्या हि कृत्रिमान् भावान् प्रणयसूचकांश्चेष्टाविशेषान्प्रकाशयति मायापि असतः अत्यन्तासतो गगन- कमलिनीकल्पान् पदार्थान् प्रदर्शयतीति परमार्थः । परपुरुषम्-स्वपतिभिन्नं पुमां- सम् , परमुत्कृष्टं पुरुषं परमेश्वरमिति च, तत्राद्योऽर्थो वेश्यापक्षे चरमश्च मायापक्ष इति विवेकः । स्फटिकमणिवदिति० स्फटिकमणिवद् भास्वान् प्रकाशशाली देवः परमेश्वरः ( प्रपञ्चात्मना क्रीडनप्रवृत्ततया देवपदम् ) अनया प्रत्यक्षप्रभावया अनार्यया तुच्छ- स्वभावतया नीचतया असङ्गतविक्रियः अनुपपद्यमानविकारोऽपि प्रगाढम् भृशा कामपि अनिर्वाच्याम् विकृतिम् उपरकतारूपाम् विक्रियाम् नीतः प्रापितः । तदुप- श्लेषात् मायासंसर्गवशात् अस्य परात्मनः मनागपि ईषदपि रुचिः स्वरवरूप- प्रकाशः न खलु अपैति दूरीभवति, ( यद्यप्येवं ) तथापि एषा माया पुंसः परमेश्व- रस्य अधीरताम् स्वरूपच्युतिलक्षणाम् दशाम् विधातुम् प्रभवति यतते, स्फटिकमणि- राजा—प्रिये, अविचारसिद्धा यह माया वेश्या की तरह अवत्तमान भावोंको प्रदर्शित करके परपुरुषको छला करती है, देखो— स्फटिक मणिकी तरह भास्वर ये परमेश्वर इस अभागी अविद्याके द्वारा अविक्रिय होनेपर भी विक्रियाको प्राप्त कराये जाते हैं, अविद्यासम्पर्क होनेपर भी परमेश्वरकी स्वाभाविक रुचि नष्ट नहीं होने पाती, फिर भी यह अविद्या पुरुषको अधीर कर देती है ॥ २६ ॥ ३ प्र० च०

३४ प्रबोधचन्द्रोदयम् मतिः—आर्यपुत्र, किं पुनः कारणं येन सा तथोदारचरितं दुर्विदग्धा प्रतारयति । ( अज्जउत्त, किं पुणो कारणं जेण सा तथा उदारवरिदं दुव्विदग्धा प्रतारोदि ) राजा—न खलु प्रयोजनं कारणं वा विलोक्य माया प्रवर्तते । स्वभावः खल्वसौ स्त्रीपिशाचीनाम् । पश्य— संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । यथा जपाकुसुमसंनिधानात् रक्तोऽपि स्वभाविकं शैत्यं न जहाति तथा परमेश्वरोऽपि मायामन्त्रध्वशात्कर्तृत्वादिरूपरूपितोऽपि स्वरूपान्न व्यवते, तथाप्यस्या मायायाः प्रयासो न विरमति, वैफल्येऽपि प्रवृत्तिरस्या न दूरीभवति, तदियमतिदुरन्तेति भावः । परमेश्वरस्य देवत्वं क्रीडनप्रवृत्तिमुपलक्ष्योक्तं तत्र च 'तदैक्षत बहुस्यां प्रजाये- ये'ति श्रुतिः प्रमाणम् । असङ्गतविक्रियः' इत्युक्त्या यथा स्फटिके नोपाधिवर्णस्य कदापि सङ्क्रान्तेः सम्भवस्तथाऽत्रापि नोपरागसम्भावनेति प्रतिपाद्यते । तदेव प्रदर्श- यितुमुक्तं—'न खलु तदुपश्लेषा'दिति । पूर्वोक्तमेव वृत्तम् ॥ २६ ॥ अत्र समाधानं नाम मुखसन्धेः सप्तममङ्गं प्रदर्शितं, 'स्फटिकमणिवद्भास्वान् देवः' इत्यनेन बीजानुसन्धानात् , तथा च तल्लक्षणम्—'यद्वीजस्यानुसन्धानं तत्स- माधानमित्यते' इति । उदारचरितम्-महोत्त्वस्वभावम् । दुर्विदग्धा-धूर्त्ता । प्रयोजनम्—फलं, प्रवृत्त्युद्देश्यं कार्यं वा । कारणम्—प्रवृत्तिहेतुभूतम् । यथा पयसः प्रसरणं स्वभावस्तन्न न कस्यापि फलस्य कारणस्य वाऽपेक्षा तथा मायाया अपि बन्धनं स्वभाव इति । स्त्रिय एव पिशाच्यः स्त्रीपिशाच्यस्तासाम् स्त्रीपिशाची- नाम् , अत्र स्त्रीणां पिशाचीत्वोक्तिस्तासां निष्कारणपरोपतापक्त्वदुस्सयजत्वाद्विख्योत- नाय । स्वभावस्याकारणजन्यतया तत्कारणगवेषणं वृथेति भावः । नमोहयन्तीति० सम्मोहयन्ति-मोहयुक्तं कुर्वन्ति, मदयन्ति-अभिमानमुत्पाद- यन्ति, विडम्बयन्ति-उपहसन्ति, निर्भर्त्सयन्ति-ताडयन्ति, रमयन्ति-प्रमोदयन्ति, मति—क्या कारण है कि वह अभागी अविद्या उस प्रकार उदारचरित, पुरुषको भी धोखेमें डाल देती है ? राजा—माया किसी कारण वा प्रयोजनको देखकर माया नहीं प्रवृत्त होती है, वह उन स्त्रीपिशाचियोंका स्वभाव ही है । देखो— मोहित करती हैं, मदयुक्त बनाती हैं, धिक्कारती हैं, खुश करती हैं, तक़लीफ देती हैं,

प्रथमोऽङ्कः ३५ एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २७ ॥ अस्ति चापरमपि कारणम् । मतिः—आर्यपुत्र, किं नाम तत्कारणम् ? (अज्जउत्त, किं णाम तक्कारणं ? ) राजा—एवमनया दुराचारया विचिन्तितं यदहं तावद्गतयौवना वर्षी- यसी । अयं पुराणपुरुषः स्वभावादेव विषयरसविमुखः । ततः स्वतनयमेव रमेश्वरे पदे निवेशयामीति, तमेव मातुरभिप्रायमासाद्य नितान्ततत्प्र- सन्नतया तद्रूपतामिवापन्नेन मनसा नवद्वाराणि पुराणि रचयित्वा । सादयन्ति-खेदयन्ति एता वामनयनाः सुन्दरदृशः नराणां पुरुषाणां सदयं दयायुतं यं प्रविश्य वञ्चनया स्वाधीनभावं नीत्वा किन्न नाम न समाचरन्ति सर्वमकार्यं र्यं च विदधतीत्यर्थः । अत्र स्त्रीसामान्यस्य पुरुषवशीकारपूर्वकाकार्यकृतिकुशलता- नेपादनद्वारा मायायाः परमेश्वरवशीकारपूर्वकं तद्बन्धनं समर्थितं भवतीति ध्यम् । वसन्ततिलकं वृत्तम् ॥ २७ ॥ अत्र विधानं नाम मुखसन्धेरष्टममङ्गं प्रतिपादितम् , तल्लक्षणं यथा-‘सुखदुःखकरं द्विधानं परिकीर्त्तितम्’ इति । अनया-मायया । दुराचारया-दुष्टचरित्रया । विचि- तम्-तर्कितम् । गतयौवना-पुरुषप्रेमनिदानभूतयौवनशून्या, गतावस्था वा, रापि सर्वविधावस्थारहिताऽनादित्वादिति बोध्यम् । वर्षीयसी-अतिवृद्धा, पुरुष- रात्मा, ( अयं पुरुषः परमेश्वरः ) पुराणपुरुषः-वृद्धः पुमान् विषयरसविमुखः- यिकसुखभोगविरक्तः । तदेवं दम्पत्योर्वार्धक्यं जातमित्यावेदितम् । स्वतनयम्- पुत्रं मनोनामकम् । पारमेश्वरे पदे-जगत्कर्तृत्वनियन्तृत्वादिरूपे परमेश्वरकर्त्तव्ये । वेशयामि-स्थापयामि । अन्यापि वर्षीयसी वृद्धपतिश्च चतुरा वनिता स्वतनयं कार्याधिकारे निवेशयति तदनुरूपमनया मायया चिन्तितमित्यर्थः । अत्र चिन्ति- तँत्यस्य निवेशयामीत्यन्तवाक्यार्थः कर्म । तम्—पूर्वोक्तम् । मातुः—जनिकाया प्रायाः । अभिप्रायमासाद्य-इच्छामवेत्य । नितान्तप्रत्यासन्नतया-सततसन्निहित- यमे प्रवेश करके स्त्रियाँ पुरुषोंका क्या नही कर देती है ? ॥ २७ ॥ और भी कारण है । मति—आर्यपुत्र, वह क्या कारण है ? राजा—इस दुष्टा मायाने सोचा कि मै गतयौवना वृद्धा हुई, ये पुराण पुरुष भी ावतः विषय विमुख हो गये हैं, इसलिये अपने पुत्रको ही पारमेश्वर के पदपर बिठा दूं । ने अपनी माता अविद्याके इस अभिप्रायको समझ कर सतत आत्मसमीपवर्ती रहनेके ण उसीका रूप बनाकर नवद्वार यह शरीररूप पुर बना डाला ।

३६ प्रबोधचन्द्रोदयम् एकोऽपि बहुधा तेषु विच्छिद्येव निवेशितः । स्वचेष्टितमथो तस्मिन्विदधाति मणाविव ॥ २८ ॥ मतिः- (विचिन्त्य) आर्यपुत्र, यादृशी माता पुत्रोऽपि तादृश एव जातः । (अज्जउत्त, जादिसी मादा पुत्तको वि तादिसो जेव्व जादो ।) राजा-ततोऽसावहंकारे चित्तस्य ज्येष्ठपुत्रेण नप्त्रा परिष्वक्तः । ततश्चासावीश्वरः । तया । तद्रूपताम्-परमेश्वरसादृश्यम् । आपन्नेन-प्राप्तेन । अन्योऽपि मात्रा लालितः कुमारः पित्रा यौवराज्येऽधिक्रियमाणः सन् सततं तन्न्यासङ्गः सन् तद्विधेयानि कार्याणि करोति, तदनुकृत्यायं व्यवहारारोपः । नवद्वाराणि-नवसङ्ख्यकद्वारवन्ति, नवीनतमप्रवेशमार्गयुतानि । अत्र तत्तदिन्द्रियच्छिद्रयुक्तस्य देहस्यैव पुरात्मना रूपणं, देहे हि नवच्छिद्राणि मन्यन्ते नासाकर्णादीनि । एकोऽपीति० तेषु देहरूपपुरेषु एकोऽपि वस्तुतोऽभिन्नोऽपि परमात्मा विच्छिद्य पृथग्भावमापाद्य इव बहुधा नानाभावेन निवेशितः स्थापितः, बिम्बप्रतिबिम्बभावेन व्यवस्थापितः, यथैकस्यापि सूर्यस्य रजतपात्रावस्थापितजलशते शतं प्रतिबिम्बानि भवन्ति तद्वदात्मनोऽप्येकस्यैव तत्तद्देहेषु प्रवेश इति बोध्यम् । अथो अनन्तरं तस्मिन् देवे स्वचेष्टितं मनसा क्रियमाणं कर्तृत्वादिरूपम् मणौ इव विदधाति करोति । यथा जपादिरुपाधिः स्वधर्मं रक्तत्वादिकं मणौ प्रतिभासयति तद्वन्मनोऽपि स्वधर्मं कर्तृ- त्वभोक्तृत्वादिकं परमात्मरूपे पुरुषे प्रतिभासयतीति परपादद्वयार्थः ॥ २८ ॥ यादृशी-वञ्चनादि यावद् गुणोपेता । माता-अत्र माया । तादृशः-मातृगुणसजा- तीयगुणोपेतः । जातः-पुत्रोऽत्र मनोरूपः । ततः-पुरप्रवेशानन्तरम् । असौ-पुरुषः । चित्तस्य-बुद्धितत्त्वस्य । ज्येष्ठपुत्रेण- प्रधानेन सुतेन । नप्त्रा-पुत्रपुत्रेण । पुरुषस्य पुत्रो मनोरूपस्तत्पुत्रश्चाहङ्कार इति तत्र नप्तृत्वारोपः । और उन द्वारोंमें एक होकर भी भिन्न-भिन्न रूप मे निविष्ट हो गया है और जैसे मणिमे भिन्न-भिन्न तरहके प्रतिबिम्ब होते है उसी तरह भिन्न-भिन्न तरहकी चेष्टाये किया करती है ॥ २८ ॥ मति-आर्यपुत्र, जैसी माँ थी, बेटा भी ठीक वैसा ही निकला। राजा-अहङ्कार चित्तका बडा लडका है, उससे मिलने पर आत्मा ईश्वर कहलाने लगा ।

प्रथमोऽङ्कः ३७ जातोऽहं जनको ममैष जननी क्षेत्रं कलत्रं कुलं पुत्रा मित्रमरातयो वसु बलं विद्याः सुहृद्बान्धवाः । चित्तस्पन्दितकल्पनामनुभवन्विद्वानविद्यामयीं निद्रामेत्य विघूर्णितो बहुविधान् स्वप्नानिमान्पश्यति ॥२९॥ मतिः—आर्यपुत्र, एवं दीर्घतरनिद्राविद्रावितप्रबोधे परमेश्वरे कथं प्रबोधोत्पत्तिर्भविष्यति । ( अज्जउत्त, एवं दीहतरणिद्दाविद्वाविअप्पओहे पलमेस्सले कहं प्पवोहोप्पत्ती भविस्सदि ) जातोऽहमिति० विद्वान् सर्वविषयकनित्यज्ञानवान् (अपि) अविद्यामयीम् मायारूपाम् निद्राम् (बोधवैधुर्यप्रदत्वेनाज्ञानावस्थाया निद्रासादृश्यकृतस्तत्त्वव्यव- हारः ) एत्य प्राप्य विघूर्णितः भ्राम्यन् चित्तस्पन्दितेन मनसो दृष्टानुभूतश्रुतपूर्वेषु विषयेषु सञ्चारणेन या कल्पनाऽनुपस्थितविषयकस्वाप्नपदार्थगोचरः प्रत्ययप्रवाहः ताम् अनुभवन् कुर्वन् (पुरुषः) अहं जातः उत्पन्नः, मम एषः अमुकः जनकः उत्पादयिता, इयं मम जननी, इदं मम क्षेत्रम् कृप्याभूमिः, इदं मम कलत्रम् स्त्री, इदम् मम कुलम् वंशः, इमे मम पुत्राः सुताः, इदं मम मित्रं सुहृत् , इमे मम अरातयः शत्रवः, इदं मम वसु धनम् , इदं मम बलम् सामर्थ्यम्, इमाः मम विद्याः शास्त्रज्ञानानि, अयम् मम सुहृत् प्रियः, इमे मम बान्धवाः भ्रात्रादयः, इमान् धृतदाकारान् बहुविधान् नानाप्रकारान् स्वप्नान् स्वप्नावस्थायाम् उत्पद्यमानान् इवालीकविषयकान् भ्रमान् उद्भावयतीत्यर्थः । अन्योऽपि निद्राचुम्बितनेत्रो भ्राम्य- न्मना नानाविधान्स्वप्नान् पश्यति, तद्वदयमपि पुरुषोऽविद्यामयीं निद्रामुपैत्य मानसिककल्पनामयान् इमान् स्वप्नान् आलोकमानस्तैस्तैर्भावैर्बद्ध इव व्यवहर- न्स्वरूपं विस्मारितो लौकिको भवतीति भावः । जातोऽहमित्यादयो हङ्कारविक्षेपाः पुंसि बुद्धितत्त्वसम्बन्धनिबन्धन एवेति पुरुषस्य तदुपरागात्परत एव ते ते स्वप्ना इति बोध्यम् । शार्दूलविक्रीडित वृत्तं, तल्लक्षणं यथा—'सूर्याश्वैर्मसजास्ततः सगुरवः शार्दूलविक्रीडितम्' इति ॥ २९ ॥ दीर्घतरनिद्रा-चिरकालिकः स्वापः, तेन विद्रावितप्रबोधे दूरीकृतस्वाभाविकज्ञाने । मै पैदा हुआ, ये मेरे मा बाप हैं, ये है खेत, स्त्री, कुल, पुत्र, मित्र, धन तथा विद्याविभव । इस तरह मनःकल्पित नाना प्रकारके अविद्यामय अनुभवोंको करता हुआ अविद्यामें मग्न वह नाना प्रकारके स्वप्नोंको देखा करता है ॥ २९ ॥ मति—इस प्रकारकी,। निद्रासे जब प्रबोध दूर भगा दिया गया है तब प्रबोधोदय कैसे हो पावेगा ?

राजा—( सलज्जमधोमुखस्तिष्ठति ) मतिः—आर्यपुत्र, किमिति गुरुतरलज्जाभरनमितशेखरस्तूष्णीं भूतोऽसि, न प्रतिभणसि । ( अज्जउत्त, किंति गुरुअरलज्जाभरणमिदसेहरो तूण्हींभूदोऽसि, न प्पदिभणसि ) राजा—प्रिये, सेर्ष्यं प्रायेण योषितां भवति हृदयम् । तेन सापराध- मिवात्मानं शङ्के । मतिः—आर्यपुत्र, अन्यास्ताः स्त्रियो याः स्वरसप्रवृत्तस्य वा धर्मार्थ- व्यापारप्रस्थितस्य वा भर्तुर्हृदयस्थितं विघ्नन्ति । ( अज्जउत्त, अण्णा ता कथम्-केन प्रकारेण । प्रबोधोत्पत्तिः-ज्ञानोदयः । यो हि पुरुषो जाग्रत्स्वप्नसुषुप्ती- स्तित्स्रोऽपि दशाः स्वापरूपेणैवोपयुञ्जानः सततं स्वप्नानिवानीकविषयानत्यन्ता- सम्बद्धांश्च भावान्स्वस्मिन्पश्यति ततो ज्ञानं सुदूरापेतं कथं सन्निधास्यति तस्येति चिन्तातात्पर्यम् । अत्र जाग्रदवस्थायां पश्यति स्वप्नानित्याश्चर्योक्तेः परिभावनाव्यं मुखसन्धेर्नव- ममङ्गमुक्तम्—तल्लक्षणं यथा-‘परिभावनमित्याहुराश्चर्यार्थनिवेदनम्’ इति । गुरुतरलज्जाभरनमितशेखरः—अतिशयत्रपानम्रीकृतमस्तकः । तूष्णींभूतः-मूकी- भूतः । प्रतिभणसि-प्रत्युत्तरं ददासि । अत्र विवेको राजा स्वस्योपनिषद्रूपवनितान्तर- सङ्गप्रसङ्गेन लज्जानतमुखो भवतीति बोध्यम् । सेर्ष्यम्-ईर्ष्याख्यभावयुक्तम् । योषि- ताम्-रमणीनाम् । सापराधम्-कृतापराधम् । अयमाशयः-त्वयि धृतासङ्गं मामुप- निपद्देवी कान्तान्तरप्रसक्तं मन्यमानेर्ष्याकलुषितचित्ता भविष्यतीति हेतोरहं तस्याः समीपे स्वं सापराधमिवोन्प्रेक्षे इति । अन्याः-मद्भिनाः । स्वरसप्रवृत्तस्य-स्वेच्छयागन्तुकामस्य । धर्मार्थव्यापारप्रवृ- राजा—( लज्जासे अधोमुख हो जाता है ) मति—आर्यपुत्र, गुरुतर लज्जासे नतमस्तक होकर गुम क्यों हो रहे है ? उत्तर क्यों नहीं देते ? राजा—प्रिये, स्त्रियोंके हृदय ईर्ष्यालु हुआ करते है, इसीलिये मै कृतापराध अपनेको पा रहा हूँ । मति—आर्यपुत्र, वे और स्त्रियां होंगी जो स्वेच्छावश या धर्मार्थ व्यापारमें प्रवृत्त