प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
प्रथमोऽङ्कः ३६ इत्थियाओ जांओ सरसंपउत्तस्स वा धम्मात्थवावारप्पत्तिअस्स भत्तुणो हिअअत्थिदं विहणन्दि ) राजा—प्रिये, मानिन्याश्चिरविप्रयोगजनितासूयाकुलाया भवे- च्छान्त्यादेरनुकूलनादुपनिषद्देव्या मया संगमः । तूष्णीं चेद्विषयानपास्य भवती तिष्ठेन्मुहूर्तं ततो जाग्रत्स्वप्नसुषुप्तिधामचिरहात्प्रातः प्रबोधोदयः ॥ ३० ॥ तस्य-धार्मिककृत्यरूपेण समासक्तस्य । भर्तुः-स्वामिनः । हृदयस्थितम्-मनोगतम् । विघ्नन्ति-प्रतिबध्नन्ति । अतो मम हृदये त्वामुपनिषद्वसक्तं दृष्ट्वा नेष्योर्दिष्यति, तवेयं प्रवृत्तिः परोपकारार्थेति कृत्वापि मम नेर्ष्यासम्भवः, स्वरसतोऽपि तव तथा प्रवृत्तौ मादृश्योऽङ्गना नेष्यन्तीति प्रकरणार्थः । मानिन्या इति० चिरविप्रयोगजनितासूयाकुलायाः दीर्घकालव्यापकविरहसमुत्पा- दितेर्ष्यापूर्णायाः उपनिषद्व्याः शान्त्यादेस्तत्सख्याः कर्त्र्याः अनुकूलनात् सान्त्वनात् यदि मया विवेकेन सह सङ्गमः सहवासः स्यात् । उपनिषन्नामदेवी मम चिरं विरहेण मयि धृतेर्ष्याभावानां तत्सख्यः शान्त्यादयो यदि स्थितिबोधनेन शान्तां विधाय मया सह सङ्गमयेयुरित्यर्थः । भवती मतिः च चेत् यदि विषयान् सांसा- रिकभोगान् अपास्य विहाय मुहूर्तं क्षणं तूष्णीं निर्व्यापारम् तिष्ठेत् ततः तदा जाग्र- त्स्वप्नसुषुप्तिधामविरहात् जाग्रदाद्यभिमानस्थानाभावात् प्रबोधोदयः ज्ञानप्रकाशः प्रातः । अयमर्थः—शान्तेः सहायतयाऽनुकूलभावं गमिता विस्मृतेर्ष्यापनिषद्यदि मया सह सङ्गच्छेत, भवती मतिश्च कियन्तमपि कालं निर्व्यापारीभूय तिष्ठेत्तदा जाग्रदाद्य- भिमानस्थानाभावेन प्रबोधो जन्म लभेतेवेति । ज्ञानोदयेऽपेक्षिता सामग्री श्रवण- मननादय एव, तत्र विवेकस्योपनिषत्सङ्गः श्रवणरूपः मत्याश्च विषयान्तरवैमुख्यं मनननिदिध्यासनभावं भजते इति, शान्त्यादेरनुकूलनादिति च पात्रतायै अपेक्षितं अपने पतिके प्रयासमें रोडे अटकाती है । राजा—प्रिये, मानिनी, चिरवियोगजनित ईर्ष्या से व्याकुल उपनिषद् देवीको यदि शान्ति आदि मनाये तो वह मुझसे मिल सकती है और आप अगर कुछ समय के लिये तूष्णींभावका अवलम्बन करलें, तब जाग्रत् स्वप्न सुषुप्ति आदि के अभाव होनेसे प्रबोधका उदय हो सकता है ॥ ३० ॥
४० प्रबोधचन्द्रोदयम् मतिः—आर्यपुत्र, यद्येवं कुलप्रभोर्दृढग्रन्थिनिबद्धस्यापि बन्धमोक्षो भवति तदा तया नित्यानुबन्ध एवार्यपुत्रो भवत्विति सुष्ठु मे प्रियम् । (अज्जउत्त, जदि एवं कुलप्पहुणो दिडगंथिनिबद्धस्स वि बन्ध मोक्खो भोदि तदो ताए णिच्चानुबन्धो जेव्व अज्जउत्तो भोदु त्ति सुट्ठु मे पिअम् ) राजा—प्रिये, यद्येवं प्रसन्नासि सिद्धास्तर्ह्यस्माकं मनोरथाः । तथा हि— बद्ध्वैको बहुधा विभज्य जगतामादिः प्रभुः शाश्वतः क्षित्वा यैः पुरुषः पुरेषु परमो मृत्योः पदं प्रापितः । शान्तिदान्त्युपरतितितिक्षादिकं स्मारयति, तदित्थं बोधोदयोऽवश्यं भावीति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ ३० ॥ अत्रोद्भेदो नाम मुखसन्धेर्दशममङ्गमनुक्तं, गूढार्थभेदसूचनात् , तथा च तल्लक्षणम्— 'उद्भेदः स परिक्षेयो यत्र गूढार्थसूचनम्' इति । कुलप्रभोः—आत्मरूपस्य वंशस्वामिनः । दृढग्रन्थिनिबद्धस्य-अहङ्काररूपेण ग्रन्थिना दुरायासेन बन्धनेन बद्धस्य । बन्धमोक्षः-अहङ्कारनिवृत्तिः । तया-उपनिषदा नित्यानुबन्धः-सततसंसक्तः । यदि, भवत्युपनिषदासक्ते आत्मनो बन्धनिवृत्तिः प्रबोधोदयद्वारा जायते । तदाऽहं भवतस्तस्यां सार्वदिकीमासक्तिमपि सोढुं क्षमेति तया मत्या स्वस्य परोपकारार्थं तत्परतारूपा शक्तिरावेदिता । एवं प्रसन्ना—स्त्रीजनेषु दुर्लभमीदृशं त्यागं पत्युः पराङ्गनाऽऽसक्तिसहनरूपं कत्तुं तत्परा । मनोरथाः—प्रबोधोदयद्वारात्मामहङ्कारनिवृत्तिप्रमुखा आन्तरिकभावाः । सिद्धाः—सञ्जातकल्पाः । बद्ध्वैक इति० यैः अहङ्कारादिभिः जगतामादिः संसारप्रथमः प्रभुः समर्थः शाश्वतः अविनाशी पुरुषः आत्मरूपः बद्ध्वा अहङ्कारोत्थापितेऽहम्भावबन्धने आसज्य पुरेषु शरीरेषु बहुधाऽनेकधा विभज्य नानारूपतामापाद्य क्षिप्त्वा प्रवेश्य मति—आर्यपुत्र, यदि इस प्रकार दृढ बन्धन में निबद्ध कुलप्रभुका बन्धमोक्ष हो तो आप अपने व्यापारमें संलग्न रहे । राजा—प्रिये,यदि आप इस प्रकार प्रसन्न हों तो हमारे मनोरथ पूर्ण ही है। क्योंकि— बद्ध होकर अनेकता प्राप्त करके जगत् के प्रभु शरीररूप नगरमें डाल दिये जाते हैं और मृत्युको प्राप्त होते हैं, उनहो ब्रह्मभिन्न सिद्ध करके विद्याके द्वारा प्रायश्चित्त करके
प्रथमोऽङ्कः ४१ तेषां ब्रह्मभिदां विधाय विधिवत्प्राणान्तिकं विद्यया प्रायश्चित्तमिदं मया पुनरसौ ब्रह्मैकतां नीयते ॥ ३१ ॥ तद्भवतु । प्रस्तुतविधानाय शमादीन् योजयामः । ( इति निष्क्रान्तौ मतिविवेकौ ) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये प्रथमोऽङ्कः ॥ १ ॥ मृत्योः पदं जननमरणस्थानं संसारं प्रापितः मया विवेकेन तेषां पूर्वोक्तगुणकानाम् ब्रह्मभिदाम् ब्रह्मप्रतियोगिकभेदकरणास् विद्यया आत्मज्ञानेन विधिवत् शास्त्रोक्त- प्रकारेण इदं प्राणान्तिकं प्रायश्चित्तं विधाय असौ आत्मा पुनः भूयः ब्रह्मैकताम् ब्रह्माभेदम् । नीयते प्राप्यते । येऽहङ्कारादयो ब्रह्मरूपतया जगदादेः शाश्वतस्य प्रभो- श्चात्मनोऽहङ्कारावेशनेन देहाद्यात्मकतां समायोज्य देहसम्बन्धद्वारकं जननमरण- सम्बन्धं व्यधुस्तेषां पाप्मनामहङ्कारादीनां प्राणान्तिकं प्रायश्चित्तं शास्त्रप्रक्रियया विधाप्य विद्याप्रकाशद्वारा विवेकोऽहं तमात्मानं पुनर्ब्रह्मात्मतां प्रापयामीति भावः पूर्वोक्तमेव वृत्तम् ॥ ३१ ॥ अत्र भेदो नाम मुखसन्धैरेकादशमङ्गमुक्तं, तलक्षणं यथा—‘भेदः प्रोत्साहकरणम्’ । प्रस्तुतविधानाय—प्रक्रान्तस्यात्मवन्धनिवृत्तिरूपस्य कार्यस्य विधानाय सम्पादनाथ । शमादीन्-शमदमप्रभृतीन् । इति मैथिलपण्डित-श्रीरामचन्द्रमिश्रप्रणीते प्रबोधचन्द्रोदय'प्रकाशे' प्रथमाङ्क—'प्रकाशः' । फिर उसे ब्रह्मात्मत्व प्राप्त कराया जाता है ॥ ३१ ॥ इसलिये प्रस्तुत कार्य सिद्ध करनेके लिये शमादिको व्यापारित करता हूँ । ( मति तथा विवेकका प्रस्थान ) प्रथम अङ्क
द्वितीयोऽङ्कः ( ततः प्रविशति दम्भः ) दम्भः—आदिष्टोऽस्मि महाराजमहामोहेन । यथा—वत्स दम्भ, प्रति- ज्ञातं सामात्येन विवेकेन प्रबोधोदयाय । प्रेषिताश्च तेषु तेषु तीर्थेषु शम- दमादयः । स चायमस्माकमुपस्थितः कुलक्षयो भवद्भिरवहितैः प्रति- कर्तव्यः । तत्र पृथिव्यां परमं मुक्तिक्षेत्रं वाराणसीनाम नगरी । तद्द्वांस्तत्र गत्वा चतुर्णामप्याश्रमाणां निःश्रेयसविघ्नार्थं प्रयततामिति । तदिदानीं वशीकृतभूयिष्ठा मया वाराणसी । संपादितश्च स्वामिनो यथानिर्दिष्ट आदिष्टः—आज्ञप्तः । महाराजमहामोहेन–इह मोहस्य सर्वत्रानुल्लङ्घनीयशासन- त्वेन महाराजत्वारोपः । आज्ञास्वरूपमभिधत्ते—यथेति० सामात्येन–मन्त्रिसहितेन । ननु न केवलया प्रतिज्ञया किमपि सिद्ध्यति, तत्राह–प्रेषिताश्चेति० एवञ्च प्रतिज्ञा- पूरणौपयिकप्रयत्नस्यापि प्रारम्भेनोपेक्षा कर्तुमुचितेति व्यञ्जितम् । स च–प्रबोधोदय- निमित्तकश्च । उपस्थितः–समीपागतः, प्राप्तावसर इति यावत् । कुलक्षयः–वंशनाशः, प्रबोधोदये मायानिवृत्त्या मायिकवंशनाशः स्वाभाविक एवेति दृष्ट्येत्थमुक्तम् । भवद्भिः–दम्भादिभिः । अवहितैः–सावधानैः । प्रतिकर्तव्यः–निरोद्धव्यः । परमं मुक्ति- क्षेत्रम्—उत्कृष्टं मोक्षस्थलम् , तत्र तारकोपदेशेन मोक्षस्यानायासलभ्यतयोत्कृष्टता । वाराणसी काशी, वाराणस्या निर्वचने श्रुतिर्यथा—अथ हैनमत्रिः प्रपच्छ याज्ञव- ल्क्यम्—य एषोऽनन्तोऽव्यक्त आत्मा तं कथहं विजानीयामिति ? स होवाच याज्ञ- वल्क्यः–सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन् प्रतिष्ठितः, वरणायामस्यां च मध्ये प्रतिष्ठित इति । का वरणा ? काऽसीति ? सर्वानिन्द्रियकृतान्दोषानस्यत इत्यनेनासी भवति' । तत्र- काश्याम् । चतुर्णामप्याश्रमाणाम्–ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ-संन्यासनामकानाम् । निःश्रेयसविघ्नार्थम्–मोक्षप्रतिबन्धार्थम् । प्रयतताम्–यत्नं करोतु । ( एतावदन्तमा- ( दम्भका प्रवेश ) दम्भ—महाराज मोहका आदेश है—'वत्स, दम्भ, सामात्य विवेकने प्रबोधोदयकी प्रतिज्ञा की है, तीर्थोंमें शम आदिको भेज दिया गया है, इस प्रकार हमारे कुलका क्षय उपस्थित है, तुम लोग सावधानीसे उसका प्रतिकार करो।' पृथ्वी पर सर्वोत्कृष्ट मुक्तिक्षेत्र वाराणसी है । इसलिये तुम वहाँ जाकर चारो आश्रमोंमें निःश्रेयसको विघ्नित करनेकी कोशिश करो । तदनुसार हमने अधिकांश भावमें वाराणसी पर अधिकार कर लिया है ।
द्वितीयोऽङ्कः ४३ आदेशः । तथा हि मदधिष्ठितैरिदानीम्— वेश्यावेश्मसु सीधुगन्धिललनावक्रासवामोदितै- र्नीत्वा निर्भरमन्मथोत्सवरसैरुन्निद्रचन्द्राः क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात्प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तैर्जगद्वञ्च्यते ॥ १ ॥ ( विलोक्य ) कोऽप्ययं पान्थो भागीरथीमुत्तीर्य सांप्रतमित एवाभि- देशस्यावर्त्तनम् ) तत्-आदेशस्य पालनीयत्वात् । वशीकृतभूयिष्ठा-अधिकांशेना- धीनतां गमिता । सम्पादितः-पूर्णः कृतः। स्वामिनः-महामोहाख्यस्य प्रभोः । मदधि- ष्ठितैः-मया नियम्यमानैः मया स्वाधिकारे रक्ष्यमाणैरित्यर्थः, इदं धूर्त्तैरित्यग्रे वक्ष्य- माणस्य विशेषणम् । यतो धूर्त्तः सर्वतः स्वजालं विस्तार्य स्थितमतो मया स्वामि- कार्यं कृतकल्पम्, मम दम्भस्यानुचराणामनुच्छेद्यजालेभ्यो बहिर्गमनस्याशक्य- क्रियत्वादिति भावः । वेश्यावेश्मस्विति० वेश्यावेश्मसु वाराङ्गनागृहेषु सीधु मद्यं तस्य गन्धो यत्र तादृशानां ललनावक्त्राणाम् आसवा मद्यानि तैरामोदितैः लब्धप्रसादैः सुरागन्धवद्- रमणीमुखार्पितमदिरापानमत्तैः धूर्त्तैः वञ्चकर्ममानुजीविभिः निर्भरमन्मथोत्सवरसैः सततप्रवृत्तरतिक्रीडाऽऽनन्दैः उन्निद्रचन्द्राः प्रकाशयुक्तशशाङ्कोद्भासिताः क्षपाः रात्रीः नीत्वा क्षपयित्वा दिवा दिने सर्वज्ञाः सर्वशास्त्रज्ञा इति दीक्षिता यज्ञप्रवृत्ता इति चिरात् बहोः कालात् प्राप्ताग्निहोत्राः अग्निहोत्रिणः इति ब्रह्मज्ञाः आत्मज्ञानवन्त इति तापसाः तपश्चर्य्यारता इति च प्रकारैरैरेभिः जगत् संसारः वञ्च्यते प्रतार्यते । ममानु- जीविनो वञ्चकाः निशासु वेश्या सद्मनि गत्वा तन्मुखार्पितमद्यं च पीत्वा सुरत- क्रीडाप्रसक्ता भूत्वा दिने वञ्चनाचातुर्येण स्वस्य सर्वज्ञतां दीक्षितभावं गृहीताग्निहोत्र- व्रतत्वं ब्रह्मज्ञभूयम् विधीयमानतपस्यत्वं च प्रचार्र्य विश्वं वञ्चयन्तीत्यर्थः । वञ्चन- पटुत्वेनात्मनः खरूपं गोपयित्वा तैस्तैः प्रकारैरात्मानं ख्यापयन्तीति भावः । शार्दूल- विक्रीडितं वृत्तम् ॥ १ ॥ पान्थः-पथिकः, यात्रीत्यर्थः । भागीरथीम्-गङ्गाम् । उत्तीर्य-नावा तीर्त्वा । स्वामीका आदेश हमने पूरा कर दिया है । क्योंकि हमारे आदमी अब वेश्याओके घरोमे मद्यगन्धयुक्त स्त्रीजनके मुखासवसे मस्त होकर सानन्द कामक्रीडासे चांदनी राते बिताकर दिनमे अपनेको सर्वज्ञ, दीक्षित, अग्नि- होत्री, ब्रह्मज्ञ तथा तपस्वी घोषित करके दुनियाँको ठग रहे है ॥ १ ॥ ( देखकर ) यह कोई पान्थ भागीरथी पार कर इस समय इधर ही आरहा है,
४४ प्रबोधचन्द्रोदयम् वर्तते । तथा च यथैषः— ज्वलन्निवाभिमानेन ग्रसन्निव जगत्त्रयीम् । भर्त्सयन्निव वाग्जालैः प्रज्ञयोपहसन्निव ॥ २ ॥ तथा तर्कयामि । नूनमयं दक्षिणराढाप्रदेशादागतो भविष्यति । तदे- तस्मादार्यस्याहंकारस्य वृत्तान्तमनुस्मरिष्यामि । (इति परिक्रामति) (ततः प्रविशत्यहंकारो यथानिर्दिष्टः) अहंकारः—अहो, मूर्खबहुलं जगत् । तथाहि— नैवाश्रावि गुरोर्मतं न विदितं कौमारिलं दर्शनं तत्त्वं ज्ञातमहो न शालिकगिरां, वाचस्पतेः का कथा । साम्प्रतम्-अधुना, इत एवाभिवर्त्तते-अस्मदध्युषितप्रदेशमेवागच्छति । ज्वलन्निवेति० अभिमानेन स्वगौरवभावनया ज्वलन् दीप्यमानः इव जगत्त्रयीम् लोकत्रितयम् ग्रसन् कवलीकुर्वन् इव वाग्जालैः शब्दाडम्बरैः भर्त्सयन् निन्दन् इव प्रज्ञया बुद्ध्या उपहसन् उपहासं कुर्वन् इव दृश्यत इति शेषः ॥ २ ॥ 'तथा तर्कयामि' इत्यतः पूर्वम् 'यथैष ज्वलन्निवाभिमानेनेत्यारभ्य प्रज्ञयोपह- सन्निवेत्यन्तं वाक्यं योज्यं ततश्च यथैष प्रोक्तगुणकस्तथा तर्कयामीत्यन्वयार्थः, तर्क- प्रकारं चाग्रे वक्ष्यति—नूनमिति० । नूनम्-निश्चयेन । दक्षिणराढाप्रदेशात्-वाराणस्या परभागेऽवस्थिताद्गौडराष्ट्रात् । गौडराष्ट्रमहङ्कारवसतिरिति प्रसिद्धिमनुरुध्येत्थ- मुक्तम् । एतस्मात्-आगच्छतः पथिकात् । वृत्तान्तम्-समाचारम् । अनुस्मरिष्यामि- ज्ञास्यामि, यथानिर्दिष्टः-अभिमानेन ज्वलन्, जगत्त्रयीं ग्रसन्, वाग्जालं प्रसारयन् स्वां प्रज्ञां च प्रशंसन्नित्यर्थः । मूर्खबहुलम्—प्रायेणाज्ञानम्, पशुतुल्यमित्यर्थः । नैवाश्रावीति० गुरोः मीमांसकैकदेशिनः प्रभाकरस्य मतम् सिद्धान्तः नैव अश्रावि जिस प्रकार यह— अभिमानसे दमक रहा है, सारे त्रिलोकको ग्रस्तकर रहा है, अपने वाग्जालसे ललकार रहा है, बुद्धि से संसारको हस रहा है ॥ २ ॥ उससे पता चलता है कि निश्चय ही—यह दक्षिण राढ़ा प्रदेशसे आ रहा है । इसलिये इससे आर्य अहङ्कारकी खबर जान लूंगा । (जाता है) (यथोक्तरूपमे अहङ्कारका प्रवेश) अहङ्कार--अहो, संसारमें अधिक मूर्ख ही है, क्योंकि— न गुरुमत सुना, न कुमारिलदर्शन देखा, न शालिकमिश्रकी बातोंका तत्त्व जाना,
सूक्तं नापि महोदधेरधिगतं माहाव्रती नेक्षिता सूक्ष्मा वस्तुविचारणा नृपशुभिः स्वस्थैः कथं स्थीयते ॥ ३ ॥ ( विलोक्य ) एते तावदर्थावधारणविधुराः स्वाध्यायाध्ययनमात्र- श्रुतम् , कुमारिलस्य भट्टमुख्यस्य मीमांसकस्य दर्शनम् शास्त्रम् न विदितम् नाधि- गतम् , अहो आश्चर्यम् शालिकगिराम् प्रभाकरमतानुवर्त्तिनः प्रकरणपञ्चिकाकर्तुः शालिकमिश्रस्य वाचाम् तत्त्वं रहस्यम् न ज्ञातम् नाधिगतम् , वाचस्पतेर्न्यायभाष्य- शारीरकभाष्यादिव्याख्यातुर्वाचस्पतिमिश्रस्य का कथा का चर्चा ? महोदधेर्भाष्य- सागरस्य सूक्तम् सरलम् वचनम् अपि न अधिगतम् ज्ञातम् , ( दुरुक्तानि फक्किका- भूतानि तु दूरे सन्तु ) माहाव्रती महाव्रतम् पशुपतिमतं तदीया सूक्ष्मा परिपक्व- बुद्धिविभवमात्रवेद्या वस्तुविचारणा पदार्थप्रक्रिया न ईक्षिता न दृष्टा, (तत्) नृप- शुभिः नरैरपि पशुकल्पैर्ज्ञानशून्यैः कथं केन प्रकारेण स्वस्थैः पण्डितवद्धीरभावमव- लम्ब्य स्थिरैः स्थीयते भूयते ? नरपशव इमे गुरोर्मतं न श्रुतवन्तोऽपि, विशेषजिज्ञासा तु दूरे तिष्ठतु, कुमारिलप्रचारितं भट्टमतं न ज्ञातवन्तः, शालिकमिश्रमतस्य तत्त्वं न ज्ञातुमक्षमन्त, वाचस्पतिमत्तज्ञानस्य कथाऽपि दूरापास्ता, पाशुपतमतसम्बद्धां सूक्ष्मां वस्तुविचारणामपि नास्पृशन्नथ व्याकरणमहाभाष्यस्य सरलमध्यर्थं नावाधार- यन्नथाप्येते पण्डिता इव स्वस्थभावमवलम्ब्य तिष्ठन्तीति महदद्भुतस्थानमित्यर्थः । प्रभाकरमतस्य पृथक् प्रोक्तावपि पुनः शालिकनामग्रहणमीषद्वान्तरभेदमन्तराधाय- कृतम् , महोदधिपदं महाभाष्यपरं तद्विपये-'भाष्याब्धिः क्वातिगम्भीरः' इति कैय- टेनोद्घोषितत्वात् , महाव्रतपदं पाशुपतसतपरं तत्र महाव्रतस्य निरूपितत्वात् , इत्थं किञ्चिदप्यविज्ञाय स्वस्थतयावस्थानं पशुत्वद्योतकमिति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् , तलक्षणमन्यत्रोक्तम् ॥ ३ ॥ विलोक्य दृष्ट्वा, वैदिकान् दृष्ट्वाऽयमुपहासः प्रवृत्तो बोध्यः। एते शुद्धवैदिकाः। स्वा- ध्यायाध्ययनमात्रनिरताः-पदपारायणमात्रपरायणाः। अर्थावधारणविधुराः-वेदार्थनि- श्चयरहिताः, किमेभिर्मन्त्रैरभिप्रेयत इत्यविदन्तः पदपाठमात्रप्रवृत्ताः इत्यर्थः। वेद- विप्लावकाः-वेदविनाशकारिणः, स्वाध्यायाध्ययनस्यार्थावधारणप्रयोजनकत्वेनार्था- वाचस्पतिकी बात ही क्या ? महोदधिरूप भाष्यका अवलोकन नही किया, पाशुपत दर्शनकी बारीक विचारधाराका ज्ञान नहीं प्राप्त किया, फिर भी ये नृपशु शान्तिपूर्वक कैसे बैठे हुए है ॥ ३ ॥ ( देखकर ) ये लोग अर्थावधारण कर नही सकते है, केवल वेदपरायण करते हैं अतः वेदके दुश्मन
४६ प्रबोधचन्द्रोदयम् निरता वेदविप्लावका एव । ( पुनरन्यतो गत्वा ) एते च भिक्षामात्रगृहीत- यतिव्रता मुण्डितमुण्डाः पण्डितंमन्या वेदान्तशास्त्रं व्याकुलयन्ति । (विहस्य) प्रत्यक्षादिप्रमासिद्धविरुद्धार्थावबोधिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥ ४॥ वधारणविमुखजनकृतं वेदाध्ययनमनर्थज्ञकृतपाठस्य सम्प्रदायदूषकत्वेन नितान्ता- नर्थावहं वेदविनाशकारणञ्च जायत इत्याशयः । अन्यतः=अन्यभागे, अत्र भागे संन्यासिनां दर्शनमतस्तानाक्षिपति-एते चेति० भिक्षामात्रगृहीतयतिव्रताः=भिक्षां केवलमासादयितुं स्वीकृतसंन्यासवेशाः, न तु वास्तविकविरागवशाद्गृहीतप्रव्रज्याः । मुण्डितमुण्डाः=मुण्डितशिरसः । पण्डितं- मन्याः=आत्मानं पण्डितं मन्यमानाः । वेदान्तशास्त्रम्=आत्मविचारविद्याम् । व्या- कुलयन्ति=कदर्धयन्ति, दूषयन्तीत्यर्थः, अनधिकारिकृतचर्चाय निरतिशयसिद्धान्त- मर्मव्यथकतया मूर्खवेदान्तविडम्बकसंन्यासिजनानां वेदान्तशास्त्रव्याकुलताकरत्वं बोध्यम् । अग्रिमश्लोकोऽपि वेदान्तनिन्दामुखेनामीषां वेदान्तिनामेव निन्दामभि- प्रेतीति रहस्यम् । प्रत्यक्षादीति० प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्, तत् आदिः प्रथमः सर्वोपजीव्यतया मुख्यभूतश्च येषाम् ते प्रत्यक्षादयः, आदिपदेनानुमानोपमानशब्दा- नुपलब्ध्यर्थापत्तीनां ग्राहकम्, तदुद्भवाः प्रमाः अनधिगताबाधितार्थज्ञानानि, तैः सिद्धान् प्रमितान् विरुद्धाः भिन्ना येऽर्थाः तेषाम् अवबोधिनः ज्ञापकाः । प्रत्यक्षप्रम- याऽनुमानादिप्रमया च सिद्धेभ्योऽर्थेभ्यो विरुद्धं पदार्थमभ्युपगच्छन्त इत्याशयः । ( तादृशाः ) वेदान्ताः उपनिषदः यदि शास्त्राणि लोकशिक्षायै गृहीताविद्याः ( भवे- युस्तदा तादृशार्थप्रतिपादकत्वाविशेषात् ) बौद्धैः बुद्धमतोपजीविभिः सौत्रान्तिकयोगा- चारमाध्यमिकवैभाषिकाख्यया प्रख्यातैः । किम् अपराध्यते विप्रतीपमाचर्यते ? यद्- मीषां शास्त्रत्वं द्विष्यतेऽथ दूष्यते चेति । वेदान्ताः प्रपञ्चमिथ्यात्वमातिष्ठमानाः प्रत्य- क्षादिसिद्धं प्रपञ्चमपलयन्तीति ते प्रत्यक्षादिसिद्धविरुद्धप्रपञ्चासत्यत्वबोधकाः, अथापि ही हैं । ( फिर दूसरी ओर जाकर ) ये केवल भीखके लिये सन्यासका वेश लिये हुए है, मस्तक घुटवाये हैं, अपनेको पण्डित मानते है, इनके द्वारा वेदान्तशास्त्र व्याकुल किया जाता है । ( हसकर ) प्रत्यक्षादि प्रमाणसे सिद्ध जो अर्थ है उनके विरुद्ध विषयोंको बताने वाले वेदान्त यदि शास्त्र है तो फिर बौद्धोंने कौन सा अपराध किया है ? ॥ ४ ॥
द्वितीयोऽङ्कः ४७ तदेतद्वाङ्मात्रश्रवणमपि गुरुतरदुरितोदयाय । ( पुनरन्यतो गत्वा ) एते च शैवपाशुपतादयो दुरभ्यस्ताक्षपादमताः पशवः पाषण्डाः । अमीषां संभाषणादपि नरा नरकं यान्ति । तदेते दर्शनपथाद्दूरतः परिहरणीयाः । ( पुनरन्यतो गत्वा ) एते च— गङ्गातीरतरङ्गशीतलशिलाविन्यस्तभास्वद्वृसी- संविष्टाः कुशमुष्टिमण्डितमहादण्डाः करण्डोज्ज्वलाः । ते शिष्टपरिगृहीता विद्याः, बौद्धा अपि बाह्यपदार्थानामसत्त्वं ब्रुवते परन्तेषां मतानि नास्तिकमत्वेनानर्थप्रतिपादकतया चोपेक्ष्यन्ते, तत्र कारणीभूतं बौद्धानामपराधं नावधारयाम इति भावः ॥ ४ ॥ एतद्वाङ्मात्रश्रवणम्-वेदान्तिवचनाकर्णनम् , मात्रपदमाचारस्यात्यन्तहेयत्वं ध्व- नयति । गुरुतरदुरितोदया य-महत्तरपापोपपादकम् । अन्यतः-अन्यस्यां दिशि, सार्व- विभक्तिकस्तसिः । शैवाः-शिवभक्ताः पाशुपताः = शैवपाशुपताः आदयो येषां ते तथा । पाशुपतमतविषये प्रोक्तम्—'पशुः पाशः पतिश्चेति कथ्यते तन्त्रयं क्रमात् । पाशः प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ सम्बन्धो मलकम्र्म्माभ्यां शिवः प्रेरक ईश्वरः' । 'पतिर्विश्वस्य निर्माता पशुःपाशविलक्षणः' । अधिकमन्यतो बोध्यम् । दुरभ्यस्ताक्ष- पादमताः-असम्यग्गृहीतन्यायमत्ताः । इमे पाशुपतादयो न्यायमतनिष्ठापितं वेद- प्रामाण्यमङ्गीकुर्व्वन्तोऽपि तत्प्रकारग्रहणे विरुद्धमाचरन्तीति ते अक्षपादमत्तस्यायथा- वद्ग्रहणाद्दुरभ्यस्ताक्षपादमता उक्ताः । पाषण्डाः-मिथ्याचाराः, ज्ञानाचारयोर्भेद एव पाषण्डत्वमिति साम्प्रदायिकाः । पशवः-सर्वमविशेषेण पश्यन्तीति पशवो मिथ्यादृष्टयः । अमीषाम्-पाषण्डानाम् । संभाषणात्-वार्त्तालापात् । दर्शनपथात्- दृष्टिपातवर्त्मनः । परिहरणीयाः त्यक्तव्याः, यथाऽमी न दृष्टौ पतेयुस्तथा वर्त्तितव्य- मिति भावः । गङ्गातीरेति० गङ्गायास्तीरे तटे तरङ्गैरङ्गाजलवीचिभिः शीतला या शिला प्रस्तर- अतः इनकी बाते सुनना भी महापातकका कारण है । ( फिर दूसरी ओर जाकर ) ये शैव पाशुपत आदि बुरे ढङ्गसे अक्षपाद मतको जानने वाले पाखण्ड पशु हैं । इनसे बातें करनेसे भी लोग नरकगामी होते हैं । ( फिर दूसरी ओर जाकर ) ये-गङ्गातटमें तरङ्गशीतल शिलापर बिछे हुए आसन पर बैठकर कुशमुष्टिसे दण्डको मण्डित करके कमण्डलु लिये अक्ष सूत्रके प्रत्येक दाने पर अंगुली घुमाते हुए ये दाम्भिक ।
२. द्वितीय अङ्क: दम्भ-अहंकार विलास एवं पाखण्ड दर्शन
४८ प्रबोधचन्द्रोदयम् पर्यायग्रथिताक्षसूत्रवलयप्रत्येकबीजग्रह- व्यग्राग्राङ्गुलयो हरन्ति धनिनां वित्तान्यहो दाम्भिकाः ॥ ५ ॥ ( पुनरन्यतो गत्वा ) एते त्रिदण्डव्यपदेशजीविनो द्वैताद्वैतमार्गपरि- भ्रष्टा एव । ( अन्यतो गत्वा विलोक्य ) अये, कस्यैतद्द्वारोपान्तनिखाताति- खण्डस्तत्र विन्यस्तायां कौशलपूर्वकमास्तीर्णायाम् भास्वत्यां प्रकाशशालिन्यां वृस्या- मासने संविष्टाः उपविष्टाः कुशमुष्टिमण्डितमहादण्डाः दर्भराशिशोभितदण्डधराः करण्डोज्ज्वलाः कमण्डलुभिः शोभाभृतः पर्यायेण क्रमेण ग्रथितम् पिनद्धम् यदक्षसूत्र- वलयम् मणिमालारूपम् तस्य प्रत्येकं बीजग्रहे मणिग्रहणे व्यग्राः चञ्चलाः अग्राङ्गु- लयः अङ्गुल्यग्रभागाः येषां ते तथोक्ताः दाम्भिकाः दम्भभाजः धनिनां समृद्धि- जुषाम् वित्तानि धनानि हरन्ति गृह्णन्ति, अहो आश्चर्यम् । अमी दम्भवृत्तयो गङ्गा- सीकरशीतलीकृतानि भास्वराण्यासनान्यधितिष्ठन्तः कुशसनाथदण्डधराः कमण्डलु- कृतशोभाभृद्भुजाः मणिमयाक्षमालाऽऽवर्त्तनव्यग्राङ्गुलयश्च सन्तो धनिनां धनानि वञ्चकवृत्त्याऽनया तान्प्रतार्य हरन्ति, न च तेऽमीषां वञ्चनावृत्तिमिमां बुध्यन्त इत्या- श्चर्यमित्यर्थः । ब्रुवन्तोऽस्यां सीदन्तीति वृसी, उपदेशकासनम् । कारण्डपदं कमण्डलु- परम् , तथा चोक्त कमण्डलुप्रकरणे स्मृतौ—'वेणुमान् स कमण्डलुः, करण्डः स्यात्' इति । एते हि त्रिदण्डिनो धनिजनवञ्चनायैव सुरधुनीतीरे भव्याण्यासनान्यध्यष्य कमण्डलूश्चाग्रतो निधाय तपोऽम्रं जनयितुमिव मणिमयाक्षमाला आवर्त्तयन्ति, नैतेषां वास्तविकी तपस्तृष्णा, तथात्वे तैरेकान्तस्य स्थानस्यान्वेषणं कृतं स्यादिति विवक्षितं बोध्यम् । पूर्वोक्तलक्षणं शार्दूलविक्रीडितं वृत्तम् ॥ ५ ॥ त्रिदण्डव्यपदेशजीविनः-त्रिदण्डिताया व्याजेन जीविकार्जनासक्ताः, न तु वस्तुतो विरक्ताः । द्वैताद्वैतमार्गपरिभ्रष्टाः, ते हि द्वैताद्वैतमतं भास्करप्रवर्त्तितमातिष्ठन्तेऽतः द्वैतमपि नातिष्ठन्ते न वाऽद्वैतम् , उभयस्वरूपं च किञ्चन न संभवति तेजस्तिमिर- योरिव परस्परविरुद्धयोर्द्वैताद्वैतयोः सामञ्जस्यासंभवादतः द्वैतादद्वैताच्चापि परिभ्रष्टा- श्च्युता एत इत्यर्थः । भास्करप्रवर्त्तितमतस्य द्वैताद्वैतरूपत्वं ग्रन्थान्तरतोऽवसेयम् । द्वारोपान्तेति ० द्वारोपान्ते द्वारदेशे निखातानि रोपितानि यानि प्रांशूनि उच्चानि वंशकाण्डानि वंशस्तम्भाः तेषु ताण्डवितानि वायुचञ्चलतया प्रवृत्तनृत्यानि धौतानि परिधानवस्त्राणि सितानि सूक्ष्माणि अम्बराणाम् उत्तरीयादिप्रकारकाणाम्। सहस्राणि लोग धनिकोंके धनका हरण कर रहे है ॥ ५ ॥ ( फिर दूसरी ओर जाकर ) य ह किसका आश्रम मण्डल है जिसके दरवाजे पर गड़े हुए वंशस्तम्भों पर डाले गये
द्वितीयोऽङ्कः ४६ प्रांशुवंशकाण्डताऽण्डिताऽण्डवितधौतसितसूक्ष्माम्बरसहस्रमितस्ततो विन्यस्तकृष्णा- जिनदृषदुपलसमिच्चषालोलूखलमुसलमनवरतहुताज्यगन्धधूमश्यामलित- गगनमण्डलममरसरितो नातिदूरे विभात्याश्रममण्डलम् । नूनमिदं कस्यापि गृहमेधिनो गृहं भविष्यति । भवतु । युक्तमस्माकमतिपवित्रमेतद्- द्वित्रिदिवसनिवासस्थानम् । ( प्रवेशं नाटयति । ) ( विलोक्य च ) अये, मृद्विन्दुलाञ्छितललाटभुजोदरोरः- कण्ठोष्ठपृष्ठचिबुकोरुकपोलजानुः । यत्रेत्येकं गृहविशेषणम् । इतस्ततः यत्र तत्र । विन्यस्तानि स्थापितानि कृष्णा- जिनानि आसनभावेनोपयुज्यमानानि मृगचर्माणि, दृषत्, उपलम्, ( एतौ प्रस्तरखण्डभेदौ यज्ञोपयोगिनौ ) समित् काष्ठम्, चषालः पात्रभेदः, उलूखल- मुसले स्वनामख्याते अवहननसाधनायापेक्ष्यमाणे, यत्रेति द्वितीयं गृहस्यैव विशेषणम्, अनवरतम् सततम् हुतस्य हवनकर्मीकृतस्य आज्यस्य घृतस्य गन्धो यत्र तेन धूमेन श्यामलितं कृष्णीकृतं गगनमण्डलं यत्रेति तृतीयं तद्विशेषणम् । अमरसरितः-देवापगाया गङ्गायाः । नातिदूरे-अनतिविप्रकृष्टम् । इयं चतुर्थं विशेष- णम् । आश्रममण्डलम्-आश्रमः आसमन्तात् श्राम्यन्ति तपसा कार्यं क्लेशयन्ति यत्रेति विग्रहेण श्रोत्रियभवनपरम् , तन्मण्डलम् तदाकारं भवनमित्यर्थः । नातिदूर- शब्दे-नैकशब्दवत्सुप्सुपेति समासो बोध्यः, नञा समासे त्वनतिदूरे इति स्यात् । अतिपवित्रम्-अतिशयपूतम् । इदम्-गृहमेधिनो गृहम् । द्वित्रदिवसनिवासस्थानम्- अस्थायिवासोपयुक्त स्थलम् । मृद्विन्द्विति० मृदुना बालेन इन्दुना चन्द्रमसा ( अत्र बालचन्द्राकृतिचन्दनचिह्नं बालचन्द्रत्वेनोपचर्यमाणं बोध्यम् ) लाञ्छितानि ललाटः भालदेशः, भुजो बाहुः, उदरं कुक्षिः, उरो वक्षः, कण्ठो गलदेशः, ओष्ठम् अधरः, पृष्ठम् पश्चाद्भागः, चिबुकम् हनुः, कपोलौ मुखपार्श्वे, जानू जङ्घे च यस्य सः, तत्तदङ्गेषु बालचन्द्राकृतिचन्दन- स्वच्छ वस्त्र हिलडोल रहे है, जहाँ कृष्णाजिन, प्रस्तरखण्ड, समिधा, चषाल, ऊखल, मुसल पड़े हैं और जो सतत होमके होने रहनेके कारण धूम निकलता रहता है और सुगन्धि फैलती रहती है । अवश्य ही यह किसी गृहमेधी का घर होगा । अस्तु, इस पवित्र स्थानमे हम दो चार रोज ठहर सकते हैं । ( देखकर ) अरे, ललाट, बाहु, उदर, कण्ठ, ओष्ठ, पीठ, गाल आदि स्थानों पर चन्द्राकार चन्दन ४ प्र० च०
५० प्रबोधचन्द्रोदयम् चूडाग्रकर्णकटिपाणिविराजमान- दर्भाङ्कुरः स्फुरति मूर्त इवैष दम्भः ॥ ६ ॥ भवतुपसर्पाम्येनम् । (उपसृत्य) कल्याणं भवतु भवताम् । (दम्भो हुंकारेण निवारयति) (प्रविशति बटुः) बटुः—(ससंभ्रमम्) ब्रह्मन्, दूरत एव स्थीयताम् । यतः पादौ प्रक्षाल्य एतदाश्रमपदं प्रवेष्टव्यम् । अहङ्कारः—(सक्रोधम्) आः पाप, तुरुष्कदेशं प्राप्ताः स्मः यत्र श्रोत्रि- यानतिथीनासनपाद्यादिभिरपि गृहिणो नोपतिष्ठन्ति । चिह्नं धारयन्नित्यर्थः । चूडाग्रे शिरोदेशे कर्णयोः श्रवणयोः कटौ कटिप्रदेशे पाण्योर्ह- स्तयोश्च विराजमानः शोभमानो दर्भाङ्कुरो नवकुशो यस्य तादृशश्च मूर्त्तः शरीरधारी दम्भ इव एषः पुरो दृश्यमानो जनः स्फुरति प्रकाशते । तं तं वञ्चनाप्रकारं बिभ्रदयं जनो मूर्त्तो दम्भ इव राजत इत्यर्थः । वसन्ततिलकं वृत्तम् ॥ ६ ॥ उपसर्पामि-समीपं गच्छामि । हुङ्कारेणेति० सर्वंनमस्याथ मह्यमाशिषः प्रयुञ्जानः कोऽपि महापराधीति तस्मै हुङ्कारप्रयोगः । बटुः-दम्भशिष्यः । ब्रह्मन्निति सोपहासं सम्बोधनं, वास्तविकायां तु ब्रह्मत्वबुद्धौ दूरतः स्थीयतामिति कथनमनवसरप्राप्तं स्यादिति बोध्यम् । तुरुष्कदेशम्-यवनजनपदम् । श्रोत्रियान्-वेदाध्यायिनः । अतिथीन्-अभ्याग- तान् । आसनपाद्यादिभिः-आसनं विष्टरः, पाद्यं पादार्थमुदकम्, तदादिभिः तत्प्र- भृतिस्तत्प्रथमैरुपचारैः । गृहिणः-गृहस्थाः । नोपतिष्ठन्ति-न सत्कुर्वन्ति । नूनं तुरु- ष्कदेशोऽयं यन्नैतावत्यप्यतिथिसपर्या गृहस्थैर्न क्रियते इति भावः । लगाये तथा शिखा, कान, कटि देश और हाथोंमे कुश लिये हुये यह तो शरीरधारी दम्भ-सा लग रहा है ॥ ६ ॥ अस्तु—मै इसके पास जाता हू । (समीप जाकर) जय हो । (दम्भ हुंकार द्वारा वारण करता है) (बटुका प्रवेश) बटु—(घबडाहटके साथ) महाराज, अलग ही रहना, क्योंकि पाँव धोकरके इस आश्रममे प्रवेश करनेका नियम है । अहङ्कार—(क्रोधसे) आः पाप, क्या हम तुर्कोंके देशमे पहुंच गये है जहाँ पर श्रोत्रिय अतिथियोंको आसन पाद्य आदि से भी सत्कृत नही किया जाता है ।
द्वितीयोऽङ्कः ५१ दम्भः—( हस्तसंज्ञया समाश्वासयति ) बटुः—एवमाराध्यपादा आज्ञापयन्ति दूरदेशादागतस्यार्यस्य कुलशी- लादिकं न सम्यगस्माकं विदितम् । अहंकारः—आः कथमस्माकमपि कुलशीलादिकमिदानीं परीक्षित- व्यम् । श्रूयताम्— गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढापुरी भूरिश्रेष्ठकनाम धाम परमं तत्रोत्तमो नः पिता। तत्पुत्राश्च महाकुला न विदिताः कस्यात्र तेषामपि प्रज्ञाशीलविवेकधैर्यविनयाचारैरहं चोत्तमः ॥ ७ ॥ आराध्यपादाः—मम गुरवो दम्भाः । अज्ञातकुलस्य भवतः कथं सत्कारो विधी- यतामिति प्रतीक्षैवास्माकं सत्कारप्रवृत्तौ विलम्बे कारणमिति तदुक्तेराशयः । कुलम्-वंशः । शीलम्-स्वभावः । परीक्षितव्यम्—कोटिनिर्धारणपूर्वकं प्रश्नादिना निर्धारणीयम् । गौडमिति० अनुत्तमम् सर्वोत्कृष्टम् गौडम् राष्ट्रम् देशः, तत्र गौडे अपि निरुपमा असमाना राढा तदभिख्यया प्रथमाना पुरी नगरी, तत्र राढा पुर्याम् अपि भूरिश्रेष्ठ- कनाम तदभिधानम् परमम् उत्कृष्टम् धाम गृहम्, तत्र धामनि उत्तमः सर्वश्रेष्ठः नः पिता जनयिता । तत्पुत्राः तस्य मम पितुः सुताः महाकुलाः । सद्वंशप्रसूताः ( वयम् सर्वे भ्रातरः ) अत्र वाराणस्यां कस्य न विदिताः ज्ञाताः, तेषाम् अस्माकं सर्वेषां सोदराणामपि मध्ये च प्रज्ञाशीलविवेकधैर्यविनयाचारैः बुद्धिस्वभावज्ञान- गम्भीरत्वनम्रताचरित्रचातुर्यैः अहम् अहङ्कारः उत्तमः श्रेष्ठः अस्मीति शेषः । यस्य मम विश्वविदिते गौडराष्ट्रे समुद्भवः, तद्राष्ट्रालङ्कारभावं भजन्ती राढापुरी वसतिः, दम्भ—( हाथके इशारेसे आश्वासन देता है ) बटु—गुरुदेवकी आज्ञा होती है कि दूर देशसे आये हुए आपके कुल तथा शील हम ठीकसे नहीं जान सके हैं । अहङ्कार—( क्रोधसे ) आः, क्या हमारे कुल-शील की भी अब परीक्षा करेंगे ? सुनलें—गौड़ एक अनुपम देश है, उसमे निरुपमेय राढा नामकी नगरी है, जहाँ भूरिश्रेष्ठक वास करते हैं । उन भूरिश्रेष्ठकोंमें उत्तम हमारे पिता हैं । महाकुलप्रसूत उनके पुत्र किसे नहीं विदित हैं, उनमें भी प्रज्ञा, शील, विवेक, धीरता, विनय और आचारसे मै उत्तम कहा जाता हूँ ॥ ७ ॥
५२ प्रबोधचन्द्रोदयम् ( दम्भो बटुं पश्यति ) बटुः—( ताम्रघटीं गृहीत्वा ) भगवन्, पादशौचं विधीयताम् । अहंकारः—( स्वगतम् ) भवतु । कोऽत्र विरोधः । एवं क्रियते । ( तथा कृत्वोपसर्पति ) दम्भः—( दन्तान् संपीड्य बटुं पश्यति ) बटुः—दूरे तावत्स्थीयताम् । वाताहताः प्रस्वेदकणिकाः प्रसरन्ति । अहंकारः—अहो, अपूर्वमिदं ब्राह्मरायम् । बटुः—ब्रह्मन्, एवमेतत् । तथाहि— अस्पृष्टचरणा ह्यस्य चूडामणिमरीचिभिः । तत्राप्युत्कृष्टं भूरिश्रेष्ठकं नाम गृहम् , तत्रापि गृहे सर्वोत्कृष्टतया प्रथमानो जनो जनयिता, मम सोदर्याः सर्वेऽपि वाराणस्यामिह प्रसिद्धा एव तेष्वपि स्वीयप्रज्ञादि- भिरहं प्रथिततमस्तथापि मम कुलशीलादिकमत्र परीक्षितव्यं मन्यत इति महदनौ- चित्यमिति भावः, शार्दूलविक्रीडितमेव वृत्तम् ॥ ७ ॥ पादशौचम्-चरणप्रक्षालनम् । अत्र—पादशौचानुष्ठाने । वाताहताः—पवनचलिताः । प्रस्वेदकणिकाः-भवद्देहस्थितघर्मजलबिन्दवः । प्रस- रन्ति-भवद्देहाच्चतुर्दिक्षु व्याप्नुवन्ति । ब्राह्मरायम्-ब्राह्मणाचारः । सोपहासमिदं वचनम् , उपहासकारणं चातिशयिता- डम्बरदर्शनम् । एवमेतत्-भवता यदुपहस्यते तदन्यथ्यं स्वाभाविकं न कृत्रिममतोनोप- हास्यमिति तात्पर्यम् । अस्पृष्टचरणा इति० अस्पृष्टचरणाः पादस्पर्शं कर्तुमसमर्थाः भूपालाः राजानः अस्य दम्भस्य पादपीठान्तभूतलम् पादपीठसमीपगतधरित्रीतलम् चूडामणिमरीचिभिः ( दम्भ बटुकी ओर देखता है ) बटु—( ताम्र घट लेकर ) महाराज, चरण पखार ले । अहङ्कार—( स्वगत ) अस्तु, इसमे क्या विरोध है । ऐसा कर ही लेता हू । ( पैर धोकर समीप जाता है ) दम्भ—( दांत पीसकर बटुको देखता है ) बटु—महाराज, जरा अलग ही रहना, हवाके साथ पसीनेकी बूंदें उड़कर आरही है । अहङ्कार—अहा ! कैसा अपूर्व ब्राह्मणत्व है । बटु—महाराज, यही तो बात है क्योंकि इनके चरणों को न छूकर भूपाल लोग
द्वितीयोऽङ्कः ५३ नीराजयन्ति भूपालाः पादपीठान्तभूतलम् ॥ ८ ॥ अहंकारः—( स्वगतम् ) अये, दम्भग्राह्योऽयं देशः । ( प्रकाशम् ) भवतु । अस्मिन्नासने उपविशामि । ( तथा कर्तुमिच्छति ) बटुः—मैवम् । नाराध्यपादानामन्यैरासनमाक्रम्यते । अहंकारः—आः पाप, अस्माभिरपि दक्षिणराढाप्रदेशप्रसिद्धविशुद्धि- भिर्नाक्रमणीयमिदमासनम् । शृणु रे मूर्ख, नास्माकं जननी तथोज्ज्वलकुला सच्छोत्रियाणां पुन- र्व्यूढा काचन कन्यका खलु मया तेनास्मि ताताधिकः । मुकुटमाणिक्यरश्मिभिः नीराजयन्ति आरात्रिक्यक्रियोपचरन्ति । दम्भस्य गौर- वेणागता राजानोऽपि साक्षादस्य पादौ न स्प्रष्टुमीशते, किन्तु पादपीठपरिसर एव नमितशिरसो मुकुटावस्थितरत्नप्रभाभिस्तस्य स्थानस्य नीराजनामाचरन्तीत्यहो पूता- चारस्त्वकृता प्रशस्तिरिति भावः ॥ ८ ॥ दम्भग्राह्यः—दम्भेन मिथ्याऽऽडम्बरेण वशीभावं नेयः । मैवम्—नेत्थमत्रासने उपवेष्टव्यमित्यर्थः । आराध्यपादानाम्-गुरुदेवानाम् । आक्रम्यते-उपविश्यते । पाप-पापाचारिन् , पापपदं तद्वति लाक्षणिकमर्श आद्यजन्तं वा । प्रसिद्धविशु- द्धिभिः-प्रख्यातपवित्रभावैः । इदम्-दम्भसम्बन्धि । नास्माकमिति० अस्माकं जननी न तथोज्ज्वलकुला प्रशस्तवंशप्रसूता, ( यथा मम नायोज्ज्वलकुला) मया पुनः सच्छोत्रियाणाम् साधुवेदाध्यायिनाम् काचन कन्या व्यूढा परिणीता, तेन सच्छोत्रियकन्यापरिणयनकृतेन गौरवेण ताताधिकः पितुरुत्कृष्टः अस्मि । अपने मस्तकालङ्कारकी किरणोंसे इनके पादपीठको ही उद्भासित करते हैं ॥ ८ ॥ अहङ्कार—( स्वगत ) अरे, यह देश दम्भग्राह्य है । ( प्रकाश ) अस्तु, इस आसन पर बैठता हू । ( वैसा करना चाहता है ) बटु—ऐसा मत कीजिये । गुरुदेवके आसन पर अन्य जन नही बैठते हैं । अहङ्कार—आः पाप, क्या राढा देशमें प्रसिद्ध पराक्रम तथा शुद्धि वाले हम भी इस आसन पर नहीं बैठ सकते हैं ? सुन मूर्ख,— हमारी मां उतने ऊंचे कुलकी नहीं थी, लेकिन हमने श्रोत्रियकी कन्यासे व्याह कर लिया है अतः मै पिताजी से बड़ा हू। हमारे सालेके भांजेकी लड़कीकों मिथ्याकलङ्क
५४ प्रबोधचन्द्रोदयम् अस्मच्छ्यालकभागिनेयदुहिता मिथ्याभिशस्ता यत- स्तत्संपर्कवशान्मया स्वगृहिणी प्रेयस्यपि प्रोज्झिता ॥ ६ ॥ दम्भः—ब्रह्मन् , यद्यप्येवं तथाप्यस्माकमविदितवृत्तान्तो भवान् । तथाहि— सदनमुपगतोऽहं पूर्वमम्भोजयोनेः सपदि मुनिभिरुच्चैरासनेषूज्झितेषु । सशपथमनुनीय ब्रह्मणा गोम्याम्भः- परिमृजितनिजोरावाशु संवेशितोऽस्मि ॥ १० ॥ अस्मच्छ्यालकस्य मम स्त्रियो भ्रातुः यः भागिनेयः भगिनीपुत्रः तस्य दुहिता कन्या यतः यस्मात् मिथ्याऽभिशस्ता कलङ्कवत्तया ख्यापिता, तत्सम्पर्कवशात् । तत्कृत- परम्परासम्बन्धशालित्वात् मया प्रेयस्यपि प्रियतमाऽपि स्वगृहिणी स्वभार्या प्रोज्झिता त्यक्ता । मम माता यादृशे वंशे जनुरग्रहीत्ततोऽधिकपूते वंशे जातया कन्यया सह मम विवाहो जात इति हेतोरहं स्वपितुरुत्कृष्टोऽस्मि, नैतावदेव मम चारित्रगौरवं किन्तु मम श्यालकस्य यो भागिनेयस्तस्य दुहिता खलैर्मिथ्याऽशोभनाचारत्वेन प्रख्यापिता, तत्सम्बन्धवशात् पारम्पर्येण तत्सम्बन्धिकोटौ गणनीयत्वादन्यादृशदोषा- भावेऽपि प्रेयस्यपि स्वभार्या मया त्यक्तेति भावः । ईदृशाचारपूतेनापि मयाऽऽ- सनमिदन्नाक्रमणीयमिति ब्रुवाणस्त्वं किमिति न त्रपसे इति प्रसङ्गरहस्यम् । 'श्यालाः स्युर्भ्रातरः पत्न्या.' इत्यमरः । शार्दूलविक्रीडितं वृत्तम् ॥ ९ ॥ एवम्—भवदुक्तं सत्यम् ; अविदितवृत्तान्तः-अज्ञातकुलशीलादिसमाचारः । सदनमिति० अहम् पूर्वम् अम्भोजयोनेः ब्रह्मणः सदनम् ब्रह्मलोकम् उपगतः प्राप्तः, सपदि मदुपस्थितिक्षण एव उच्चैः अतिशयेन मुनिभिः तत्र स्थितैः ऋषिभिः आसनेषु स्वाध्युषितविष्टरेषु मदादरार्थम् उज्झितेषु त्यक्तेषु ब्रह्मणा गोम्याम्भःपरि- मृजितनिजोरौ गोमयेन गव्येन अम्भसा पयसा च परिमृजिते शुद्धतांगमिते निजोरौ स्वोरुदेशे सशपथम् शपथपूर्वकम् अत्र त्वयाऽवश्यमुपवेश्यम् , यदि तथा न करोषि, मम शपथस्त्वेति प्रकारेण बलवदागृह्य अनुनीय सविनयप्रदर्शनमाशु शीघ्रमुप- लग गया, इसलिये हमने अपना प्यारा धर्मपत्नीका भा त्याग कर दिया ॥ ९ ॥ दम्भ--महाराज, यद्यपि आपका कहना ठीक है फिर भी हमारे लिये आपका वृत्तान्त अज्ञात है । देखिये-- कुछ दिन पूर्व मै ब्रह्माके घर गया था, वहां जाने पर मुनियोंने हमारे सत्कारमें अपने आसन छोड दिये । ब्रह्माने शपथ देकर मुझे अपनी जङ्घा पर बैठाया जिसे उन्होंने जल तथा गोमयसे धोकर पवित्र कर लिया था ॥ १० ॥
द्वितीयोऽङ्कः ५५ अहंकारः-(स्वगतम्) अहो, दाम्भिकस्य ब्राह्मणस्यात्युक्तिः । (विचिन्त्य) अथवा दम्भोऽयम् । भवत्वेवं तावत् । (प्रकाशम्) आः, किमेवं गर्वायसे । (सक्रोधम्) अरे क इव वासवः कथय कोऽत्र पद्मोद्भवो वद प्रभवभूमयो जगति का मुनीनामपि । अवेहि तपसो बलं मम पुरन्दराणां शतं शतं च परमेष्ठिनां पततु वा मुनीनां शतम् ॥ ११ ॥ वेशितः स्थापितोऽस्मि । ब्रह्मलोकं गते मयि सपदि ऋषयोऽभ्युत्थाय सद्कुर्वन्माम्, ब्रह्मा चात्मनः स्वतः पूतमप्यूरुदेशं मदुपवेशनानहं प्रतीत्य तत्काल एवाम्भःसहायेन गोमयेन प्रक्षाल्य मदुपवेशयोग्यतां लम्भयित्वा तत्र सशपथममुनीयोपवेशितोऽ- भूवमिति । ब्रह्मणाऽपि तथाऽऽद्रियमाणस्य मम गौरवे तव का विचिकित्सेति भावः । मालिनीवृत्तम्, तल्लक्षणं यथा-'ननममययुतेयं मालिनी भोगिलोकै.' इति ॥ १० ॥ दाम्भिकस्य-दम्भेन जीवतः । अत्युक्तिः-अतिशयिता उक्तिः, उक्तावतिशयश्चा- यथाविषयकत्वम् । गर्वायसे-गर्ववानिवाचरसि, गर्ववच्छब्दात् 'कर्त्तुः क्यङ् सलोपश्च' इति क्यङ् 'विन्मतोर्लुक्' इति मतुपो लुक् । अरे क इति० अरे इति साधिक्षेपं दम्भसंबोधनम्, वासवः इन्द्रः क इव कीदृशः ? तस्यापि चरितं गुरुतल्पगमनं प्रसिद्धम् । पद्मोद्भवः ब्रह्मा अत्र गौरवतारतम्ये कः कतमः ? तस्यापि निजकन्याऽभिकत्वं नाविदितम् । मुनीनां व्यासादीनां जगति प्रभवभूमयः उत्पत्तिस्थानानि कानि ? इति वद कथय । व्यासस्य धीवरकन्यागर्भ- सम्भूतत्वम्, अगस्त्यस्य घटयोनित्रा, ऋष्यशृङ्गस्य हरिण्या जन्मेति कथाः प्रतीङ्गितं कृतम् । मम तपसः तपश्चर्यायाः बलम् सामर्थ्यम् अवेहि जानीहि, पुरन्दरा- णाम् इन्द्राणाम् शतम्, परमेष्ठिनां च शतम् मुनीनां वा शतम् पततु, मत्तःसा- मर्थ्यस्य पुरतः का कथा शतस्येन्द्रणाम् परमेष्ठिनाम् मुनीनां वेति तात्पर्यम् । तदेवं सामर्थ्यशालिनो मम पुरतो विकत्थना तव लज्जां न जनयतीत्याश्चर्यम् अहङ्कार--(स्वगत) अहा, इस दाम्भिक ब्राह्मणकी बातें तो सुनो । (सोचकर) अथवा-यह तो दम्भ ही है । अस्तु । (प्रकाश) आ., क्यों इतना घमण्ड कर रहा है । (क्रोधसे) अरे, कहो तो इन्द्र कौन है ? ब्रह्माकी क्या हस्ती है ? बताओ इन मुनियोंकी पैदाइश कहाँ से हुई है ? मेरी तपस्यामे वह शक्ति है जिसके सामने सैकड़ो इन्द्र तथा ब्रह्माको झुकना पड़े ॥ ११ ॥
५६ प्रबोधचन्द्रोदयम्
दम्भः—( विलोक्य। सानन्दम् ) अये, आर्यः पितामहोऽस्माकमह- ङ्कारः। आर्य, दम्भो लोभात्मजोऽहं भो अभिवादये । अहंकारः—वत्स, आयुष्मान्भव । बालः खल्वसि मया द्वापरान्ते दृष्टः। संप्रति चिरकालविप्रकर्षाद्वार्धक्यग्रस्ततया च न सम्यक्प्रत्यभिजा- नामि । अपि त्वत्कुमारस्यानृतस्य कुशलम् ? दम्भः—अथ किम् ? सोऽप्यत्रैव महामोहस्याज्ञया वर्तते । न हि तेन विना मुहूर्तम्प्यहं प्रभवामि । अहंकारः—अथ तव मातापितरौ तृष्णालोभावपि कुशलौ ? इति परमार्थः ॥ पृथिवी वृत्तम्, तल्लक्षणं यथा—'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति ॥ ११ ॥ आर्यः-पूज्यः । पितामहः-पितृपिता । लोभात्मजः-लोभप्रभवः । अभिवादये-प्रण- मामि । द्वापरान्ते-कलियुगादौ । बालः-अप्रौढः, अल्पप्रचार एवास्य बाल्यं बोध्यम् । चिरकालविप्रकर्षात्-बहुसमयव्यवधानात् । वार्धक्यग्रस्ततया-जरागृहीतत्वेन । प्रत्य- भिजानामि-दृष्टिमान्द्येन परिचिनोमि । त्वत्कुमारस्य तव सूनोः । अनृतस्य-मिथ्या- भाषणस्य । दम्भोऽनृतस्य पिता, तज्जनकत्वादिति बोध्यम् । अत्र-वाराणस्याम् । महामोहस्य-प्रभोर्मोहराजन्य । तेन-अनृतेन । अनृतं विना दम्भो न शक्नोत्यवस्थातुमिति तथोक्तम् । कुशलौ-सकुशलावित्यर्थे प्रयुज्यमानेऽत्र कुशलाविति पदेऽर्श आद्यजन्तता मन्त- व्या । तृष्णालोभौ-तृष्णा-यावदीप्सितद्रव्यप्राप्तावपि पुनस्ततोऽधिकद्रव्याकाङ्क्षा, लोभो नाम स्वद्रव्यापरित्यागपूर्वकपरद्रव्यजिघृक्षा । दम्भ--( देखकर, प्रसन्नतासे ) अरे, आप तो हमारे पितामह अहङ्कार हैं । आर्य, लोभका पुत्र दम्भ मैं आपको प्रणाम करता हूं । अहङ्कार--बच्चा, जीते रहो । मैने बालकरूपमे तुम्हें द्वापरके अन्तमे देखा था, उसे बहुत दिन हुए इसलिये और मैं बूढ़ा हो गया हू, इसलिये भी मैं तुम्हे ठीकसे नही पहचान सका । तुम्हारा पुत्र अनृत तो कुशल से है न ? दम्भ--और क्या ? वह भी महामोहकी आज्ञासे आजकल यहीं पर है । उसके बिना एक क्षणके लिये भी हमारा प्रभुत्व नहीं रहता है । अहङ्कार-और तुम्हारे मां बाप तृष्णा और लोभ भी तो सकुशल हैं ।
द्वितीयोऽङ्कः ५७ दम्भः—तावपि राज्ञो महामोहस्याज्ञयाऽत्रैव वर्तेते । तयोर्विना क्षण- मपि न तिष्ठामि । आर्यमिश्रैः पुनः केन प्रयोजनेनात्र प्रसादः कृतः । अहंकारः—वत्स, मया महामोहस्य विवेकसकाशादत्याहितं श्रुतम् । तेन तद्वृत्तान्तं प्रत्येतुमागतोऽस्मि । दम्भः—स्वागतमेवार्यस्य । यतो महाराजस्यापीन्द्रलोकादत्रागमनं श्रूयते । अस्ति च किंवदन्ती यद्देवेन वाराणसी राजधानी वस्तुं निरूपितेति । अहंकारः—पुनः किं वाराणस्यां सर्वात्मना मोहस्यावस्थानकारणमिति । दम्भः—आर्य, ननु विवेकोयरोध एव । तथाहि— तौ-तृष्णालोभौ । तयोः-पित्रोः तृष्णालोभयोः, अत्र विनापदयोगे कथं षष्ठीति चिन्त्यम् । आर्यमिश्रैः-पूज्यैर्विद्वद्भिश्च, मिश्रपदस्य पण्डितपरत्वं प्रसिद्धम् । केचित्तु षड्दर्शनज्ञो मिश्र इत्याहुः । प्रसादः-स्वागमनेनानुग्रहः । विवेकसकाशात्-विवेकात् । अत्याहितम्-महाभीतिः, उच्छेदोरूप इत्यर्थः । अयं बिन्दूपन्यासो वेदितव्यः, बिन्दुलक्षणं यथा—'अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्' इति । अत्र दम्भाहङ्कारयोः संवादेन कथाविच्छेदे पुनरविच्छेदहेतुर्महामोहस्य विवेक- सकाशादत्याहितं श्रुतमिति पुनः कथानुसरणरूपो बिन्दुः । प्रत्येतुम्-अवधारयितुम् । महाराजस्य-महामोहस्य । स च विषयेष्वासक्तिविशेषहेतुरहं ममाभिमानरूपः, तथोक्तं तत्त्वकौमुद्याम्—'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च यथासंख्यं तमोमोह- महामोहातामिस्रान्धतामिस्रसंज्ञकाः। यद्यपि शब्दादिषु पञ्चसु दिव्यादिव्यतया दश- विधेषु विषयेष्वनुरक्तिरूपतया दशविधो महामोहस्तथापि विषयभेदाद्दशविधोऽपि वस्तुतस्त्वेक एवेत्यवधारणीयम्' । अत्र-वाराणस्याम् । किंवदन्ती-जनश्रुतिः । वस्तुं निरूपिता-आवासस्थानत्वेन वृता । सर्वात्मना-सर्वथा, अवस्थानकारणम्-आवासहेतुः। विवेकोपरोधः-विवेकस्य परिपन्थिनः उपरोधनम् निरोधनम् । दम्भ—वे भी मोहकी आज्ञासे यहीं हैं । उनके बिना मैं क्षणभर भी नही रह सकता हू । आपने किस प्रयोजनसे यहाँ पधारनेकी कृपा की है ? अहङ्कार—वत्स, मैने सुना कि विवेकसे महामोहको महाभय उपस्थित है, इसीको ठीकसे जानने आया हू ! दम्भ—स्वागत है आपका ! महाराज भी इन्द्र लोकसे यहाँ आरहे हैं ऐसा सुननेमें आया है । यह भी अफवाह है कि महाराजने काशीको ही अपने वासके लिये चुना है । अहङ्कार--सर्वथा काशीमें बसनेके लिये मोहको क्या कारण मिला ? दम्भ—आर्य, विवेकको रोकना ही । क्योंकि—
विद्याप्रबोधोदयजन्मभूमिर्वारणसी ब्रह्मपुरी निरत्यया । असौ कुलोच्छेदविधिं चिकीर्षुर्निर्वस्तुमत्रेच्छति नित्यमेव ॥ १२ ॥ अहङ्कारः—( सभयम् ) यद्यप्येवमशक्यप्रतीकार एवायमर्थः । यतः— परममविदुषां पदं नराणां पुरविजयी करुणाविधेयचेताः । विद्येति० ब्रह्माकाराऽन्तःकरणवृत्तिर्विद्या, ब्रह्माकारान्तःकरणवृत्त्युपहितं चैतन्यं च प्रबोधोदयः, तयोर्जन्मभूमिः उत्पत्तिस्थानम्, निरत्यया अविनाशिनी ब्रह्मपुरी शिवनगरी वाराणसी काशी अस्तीति शेषः । वाराणस्या ज्ञानक्षेत्रतया नित्याप्रलयेऽपि न नाशः, अत्र ब्रह्मपुरीति शब्दे ब्रह्मपदं च शिवपरम् , तदुक्तम्—'ब्रह्मज्ञानं प्रधा- नञ्च क्षेत्रञ्चाङ्कारबुद्धयः । मोक्षो हिरण्यगर्भश्च मन्त्रो वेदः शिवस्तथा' इति । कुलो- च्छेदविधिम् मायिकवंशविनाशकार्यम् चिकीर्षुः कर्तुं कामयमानः असौ विवेकः अत्र [L11: वाराणस्याम् नित्यमेव सततम् निवस्तुम् वासं कर्तुम् इच्छति कामयते । विवेको नाम मायाप्रसूतमनोजनितत्वान्मायावंशप्रभवोऽपि मतिमान्धत्वशान्मायिकवंशं विनाशयितुं कामयमानोऽत्र वाराणस्यां सार्वदिकं स्वं वासं कर्तुमिच्छति, यतोऽवि- नाशिनीयं शिवपुरी विद्याप्रबोधोदयजन्मभूमितया प्रसिद्धा । अत्र निवत्स्यतो विवेक- स्योपरोधार्थमेव महामोहस्यात्रागमनं जातमिति भावार्थः । अन्योऽपि राजा स्ववि- रोधिभूपति विजयावहसैन्याद्युपकरणसञ्चयप्रवृत्ततया तदुपपादनसौविध्यशालिनि क्वचन क्षेत्रे वासमाचरन्तं संभाव्य तदुपरोधार्थं तदागमात्पूर्वमेव तत्रावासं विरचय- तीति मनसिकृत्यायं व्यवहारसमारोपः । इन्द्रवज्रावृत्तम्, तल्लक्षणं यथा—'स्यादिन्द्र- वज्रा यदि तौ जगौ गः' इति ॥ १२ ॥ यद्यप्येवम् , आचर्यते मोहेनेति योजनीयम्, यद्यपि मोहस्येयं चेष्टा प्रवर्त्त- ताम् , तथापि अशक्यप्रतीकारः-अवरोद्धुमशक्यः । मोहो यथेच्छं चेष्टतां विवे- कोऽपरोधाय परं विवेकाभिमतो विद्याप्रबोधोदयोऽत्र वाराणस्यां प्रतिबन्धुमशक्य इति भावः । परममिति० परमम् पदम् ब्रह्मस्वरूपम् अविदुषाम् अजानताम् ब्रह्मज्ञानरहिता- नाम् नराणाम् भगवान् सर्वसामर्थ्यशाली करुणाविधेयचेताः कारुणिकहृदयः पुर- विद्या तथा प्रबोधोदयकी जन्मभूमि यह नित्या काशीपुरी ही है, अपने कुलके उच्छेद की इच्छासे सदा वे यही वास करना चाहते हैं ॥ १२ ॥ अहङ्कार —( भयसे ) यद्यपि इस तरह तो इसका कोई उपाय है भी नही । क्योंकि— परमतत्त्वको नही जाननेवाले जब मरने लगते हैं तब महादेव दया करके भवभय से