प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 63, कुल 274 में से
संदर्भ में पढ़ेंसूक्तं नापि महोदधेरधिगतं माहाव्रती नेक्षिता सूक्ष्मा वस्तुविचारणा नृपशुभिः स्वस्थैः कथं स्थीयते ॥ ३ ॥ ( विलोक्य ) एते तावदर्थावधारणविधुराः स्वाध्यायाध्ययनमात्र- श्रुतम् , कुमारिलस्य भट्टमुख्यस्य मीमांसकस्य दर्शनम् शास्त्रम् न विदितम् नाधि- गतम् , अहो आश्चर्यम् शालिकगिराम् प्रभाकरमतानुवर्त्तिनः प्रकरणपञ्चिकाकर्तुः शालिकमिश्रस्य वाचाम् तत्त्वं रहस्यम् न ज्ञातम् नाधिगतम् , वाचस्पतेर्न्यायभाष्य- शारीरकभाष्यादिव्याख्यातुर्वाचस्पतिमिश्रस्य का कथा का चर्चा ? महोदधेर्भाष्य- सागरस्य सूक्तम् सरलम् वचनम् अपि न अधिगतम् ज्ञातम् , ( दुरुक्तानि फक्किका- भूतानि तु दूरे सन्तु ) माहाव्रती महाव्रतम् पशुपतिमतं तदीया सूक्ष्मा परिपक्व- बुद्धिविभवमात्रवेद्या वस्तुविचारणा पदार्थप्रक्रिया न ईक्षिता न दृष्टा, (तत्) नृप- शुभिः नरैरपि पशुकल्पैर्ज्ञानशून्यैः कथं केन प्रकारेण स्वस्थैः पण्डितवद्धीरभावमव- लम्ब्य स्थिरैः स्थीयते भूयते ? नरपशव इमे गुरोर्मतं न श्रुतवन्तोऽपि, विशेषजिज्ञासा तु दूरे तिष्ठतु, कुमारिलप्रचारितं भट्टमतं न ज्ञातवन्तः, शालिकमिश्रमतस्य तत्त्वं न ज्ञातुमक्षमन्त, वाचस्पतिमत्तज्ञानस्य कथाऽपि दूरापास्ता, पाशुपतमतसम्बद्धां सूक्ष्मां वस्तुविचारणामपि नास्पृशन्नथ व्याकरणमहाभाष्यस्य सरलमध्यर्थं नावाधार- यन्नथाप्येते पण्डिता इव स्वस्थभावमवलम्ब्य तिष्ठन्तीति महदद्भुतस्थानमित्यर्थः । प्रभाकरमतस्य पृथक् प्रोक्तावपि पुनः शालिकनामग्रहणमीषद्वान्तरभेदमन्तराधाय- कृतम् , महोदधिपदं महाभाष्यपरं तद्विपये-'भाष्याब्धिः क्वातिगम्भीरः' इति कैय- टेनोद्घोषितत्वात् , महाव्रतपदं पाशुपतसतपरं तत्र महाव्रतस्य निरूपितत्वात् , इत्थं किञ्चिदप्यविज्ञाय स्वस्थतयावस्थानं पशुत्वद्योतकमिति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् , तलक्षणमन्यत्रोक्तम् ॥ ३ ॥ विलोक्य दृष्ट्वा, वैदिकान् दृष्ट्वाऽयमुपहासः प्रवृत्तो बोध्यः। एते शुद्धवैदिकाः। स्वा- ध्यायाध्ययनमात्रनिरताः-पदपारायणमात्रपरायणाः। अर्थावधारणविधुराः-वेदार्थनि- श्चयरहिताः, किमेभिर्मन्त्रैरभिप्रेयत इत्यविदन्तः पदपाठमात्रप्रवृत्ताः इत्यर्थः। वेद- विप्लावकाः-वेदविनाशकारिणः, स्वाध्यायाध्ययनस्यार्थावधारणप्रयोजनकत्वेनार्था- वाचस्पतिकी बात ही क्या ? महोदधिरूप भाष्यका अवलोकन नही किया, पाशुपत दर्शनकी बारीक विचारधाराका ज्ञान नहीं प्राप्त किया, फिर भी ये नृपशु शान्तिपूर्वक कैसे बैठे हुए है ॥ ३ ॥ ( देखकर ) ये लोग अर्थावधारण कर नही सकते है, केवल वेदपरायण करते हैं अतः वेदके दुश्मन