प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 64, कुल 274 में से
संदर्भ में पढ़ें४६ प्रबोधचन्द्रोदयम् निरता वेदविप्लावका एव । ( पुनरन्यतो गत्वा ) एते च भिक्षामात्रगृहीत- यतिव्रता मुण्डितमुण्डाः पण्डितंमन्या वेदान्तशास्त्रं व्याकुलयन्ति । (विहस्य) प्रत्यक्षादिप्रमासिद्धविरुद्धार्थावबोधिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥ ४॥ वधारणविमुखजनकृतं वेदाध्ययनमनर्थज्ञकृतपाठस्य सम्प्रदायदूषकत्वेन नितान्ता- नर्थावहं वेदविनाशकारणञ्च जायत इत्याशयः । अन्यतः=अन्यभागे, अत्र भागे संन्यासिनां दर्शनमतस्तानाक्षिपति-एते चेति० भिक्षामात्रगृहीतयतिव्रताः=भिक्षां केवलमासादयितुं स्वीकृतसंन्यासवेशाः, न तु वास्तविकविरागवशाद्गृहीतप्रव्रज्याः । मुण्डितमुण्डाः=मुण्डितशिरसः । पण्डितं- मन्याः=आत्मानं पण्डितं मन्यमानाः । वेदान्तशास्त्रम्=आत्मविचारविद्याम् । व्या- कुलयन्ति=कदर्धयन्ति, दूषयन्तीत्यर्थः, अनधिकारिकृतचर्चाय निरतिशयसिद्धान्त- मर्मव्यथकतया मूर्खवेदान्तविडम्बकसंन्यासिजनानां वेदान्तशास्त्रव्याकुलताकरत्वं बोध्यम् । अग्रिमश्लोकोऽपि वेदान्तनिन्दामुखेनामीषां वेदान्तिनामेव निन्दामभि- प्रेतीति रहस्यम् । प्रत्यक्षादीति० प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानम्, तत् आदिः प्रथमः सर्वोपजीव्यतया मुख्यभूतश्च येषाम् ते प्रत्यक्षादयः, आदिपदेनानुमानोपमानशब्दा- नुपलब्ध्यर्थापत्तीनां ग्राहकम्, तदुद्भवाः प्रमाः अनधिगताबाधितार्थज्ञानानि, तैः सिद्धान् प्रमितान् विरुद्धाः भिन्ना येऽर्थाः तेषाम् अवबोधिनः ज्ञापकाः । प्रत्यक्षप्रम- याऽनुमानादिप्रमया च सिद्धेभ्योऽर्थेभ्यो विरुद्धं पदार्थमभ्युपगच्छन्त इत्याशयः । ( तादृशाः ) वेदान्ताः उपनिषदः यदि शास्त्राणि लोकशिक्षायै गृहीताविद्याः ( भवे- युस्तदा तादृशार्थप्रतिपादकत्वाविशेषात् ) बौद्धैः बुद्धमतोपजीविभिः सौत्रान्तिकयोगा- चारमाध्यमिकवैभाषिकाख्यया प्रख्यातैः । किम् अपराध्यते विप्रतीपमाचर्यते ? यद्- मीषां शास्त्रत्वं द्विष्यतेऽथ दूष्यते चेति । वेदान्ताः प्रपञ्चमिथ्यात्वमातिष्ठमानाः प्रत्य- क्षादिसिद्धं प्रपञ्चमपलयन्तीति ते प्रत्यक्षादिसिद्धविरुद्धप्रपञ्चासत्यत्वबोधकाः, अथापि ही हैं । ( फिर दूसरी ओर जाकर ) ये केवल भीखके लिये सन्यासका वेश लिये हुए है, मस्तक घुटवाये हैं, अपनेको पण्डित मानते है, इनके द्वारा वेदान्तशास्त्र व्याकुल किया जाता है । ( हसकर ) प्रत्यक्षादि प्रमाणसे सिद्ध जो अर्थ है उनके विरुद्ध विषयोंको बताने वाले वेदान्त यदि शास्त्र है तो फिर बौद्धोंने कौन सा अपराध किया है ? ॥ ४ ॥